________________
प्रथमे काण्डे स्यार्थस्य बाध्यमानप्रत्ययविषयत्वादसत्त्वं युक्तम् न पुनः शुद्धगवसेयस्य तत्र बाध्यत्वायोगात् यद्वा तैसिरिकावभासिनोऽपीन्दुद्वयादेरवैतथ्यमस्तु । न च बाध्यप्रत्ययावसेयस्य कथमवितथत्वमिति वक्तव्यम् बाध्यत्वाऽयोगात्।
_ तथाहि-दर्शनं वा बाध्येत, तत्रावभासमानो वाऽर्थः, प्रयोजनं वा? न तावदाद्यः पक्षः दर्शन५स्योत्पन्नत्वात् । नाप्यों बाध्यः प्रतिभासमानेन रूपेण तस्य सत्त्वात् अन्यथा प्रतीयमानताऽयोगात्। न च प्रतिभासोऽस्ति किन्तु तन्निर्भासि रूपमसत्यमिति वक्तव्यम् प्रतिभासमानं रूपं विभ्रतोऽप्यसत्त्वे संविदोऽपि तथात्वप्रसक्तः । अथार्थक्रियाविरहाद् भ्रान्तज्ञानावभासिनो हिमकरादेर्वैतथ्यम्, अयुक्तमेतत्; यतो यद्य(द्यप्य)र्थक्रिया तत्र नोदिता तथापि पूर्वज्ञानावभासिनः कथं वैतथ्यम् ? नह्यन्याभावादन्याभावः अतिप्रसङ्गात् । न चार्थक्रियानिवन्धनं भावानां सत्त्वमिति यत्र सा नोदेति १० तत् प्रतिभासमानमपि न सत्तामनुभवतीति वाच्यम् यतो यदि भावाः प्रयोजनमुपजनयन्तः
सत्तामनुभवन्ति तदा साऽप्यर्थक्रियाजननात् सत्तासंगता स्यात् साऽप्यपरार्थक्रियाजननात् इत्यनवस्थाप्रसक्तिः। अथ अर्थक्रिया प्रतिभासविषयत्वात् सती पदार्थमात्रा अपि तथैव सत्यः (त्याः) स्युरिति व्यर्थाऽर्थक्रिया अत एव तैमिरिकावभासिनः केशादयोऽपि सत्याः प्रतिभासविष.
यत्वात् । न च बाधकवशात् तेषां वैतथ्यव्यवस्था, बाधकस्यैवानुपपत्तेः । यतस्तैमिरिकोपलब्ध१५ केशादेर्दर्शनान्तरं यदि बाधकं तदा वक्तव्यम्-एककालम् सिन्नकालं वा? यदि भिन्नकालं बाधकमा
श्रीयते तदा पूर्वदर्शनकाले नाऽपरम् अपरदर्शनसमये च न पूर्वमिति परस्परकालपरिहारेण प्रवर्त्तमानयोः कथं बाध्य-बाधकता? अथैककालं तद्वाधकम् तचा(दा)त्रापि वक्तव्यम्-एकविषयम् भिन्नविषयं वा? न तावदेक विषयम् तस्य सुतरां तत्साधकतोपपत्तेः नोकविषयं संविदन्तरं
तद्विषयस्यैव संविदन्तरस्य बाधकमुपलब्धम् । भिन्नविषयं संविदन्तरं स्वविषयमेव भासयितं २० समर्थम् न पुनर्विषयान्तरसंवेदनमुप॑दलयितुमलम्, नहि स्वविषयमवतरन्ती नीलसंवित् पीतदृशमपहन्तुं समर्था । न च दर्शनान्तरं पूर्वदर्शनाधिगतमर्थमसत्यमधिगच्छत् तस्य बाधकम् । यतस्तदपि दर्शनं स्वविषयीकृतं वा अस्वविषयीकृतं वा पूर्वदर्शनाधिगतमर्थमसत्यमधिगच्छत् तस्य बाधकं स्यात् ? प्रथमपक्षे पूर्वदर्शनाधिगतोऽर्थ उत्तरकालभाविनि दर्शने परिस्फुटमवभासमानः
सुतरां सत्यः स्यात् न वितथ इति कथं तत् 'तदसत्यम्' इत्यावेदयति? अथ द्वितीयः पक्षोऽङ्गी२५ क्रियते तदात्रापि बाध्यदर्शने प्रतिभासमानस्यार्थस्य वाधकसंविदि प्रतिभासाभावात् कथं तस्य ततो
वैतथ्यावगतिः? न च विषयान्तरस्य शुक्तिकादेस्तत्रावभासनात् रजतादेरलीकतेति वाच्यम् यतो यदि शुक्तिकाज्ञाने खेन रूपेण शुक्तिका प्रतिभौति रजतादेर्भिन्नकालावभासिनः किमिति वैतथ्यं भवेत् सर्वस्य वैतथ्यप्रसक्तेः ? अथानुपलम्भो बाधकं प्रमाणमुच्यते तदात्रापि वक्तव्यम्-एककालः, भिन्नकालो वा? तत्रै च यद्येककालः सोऽसिद्धः स्वप्रति ससमये रजतस्यानुपलम्भायोगात् । ३० कालान्तरभावी रजतानुपलम्भः तदैव तस्यासत्वं न पूर्वकालम् । न च भाविकाले पूर्वदर्शनप्रत्यस्तमोत् खदर्शनकालावधेरर्थस्याभावः अतिप्रसङ्गात् । तदेवं विशददर्शनावासि सत्यं बहिरर्थस्वरूपम् यथा स्वसंवित्प्रतिभासमानं विज्ञप्तिस्वरूपम् तथा च तैमिरिकदर्शनावभासीन्दुद्वयमिति स्वभावहेतुः असतः प्रतिभासायोगात् । अथेन्दुद्वयादेबहिः सत्त्वे किमिति शशिन प्रतिभासः? यत्र हि बहिरैर्थोऽस्ति तत्र योग्यदेशादितः सकलसामग्रीप्रभवसमस्तजनसंविदि प्रतिभा
१ अन्यत्रा प्र-आ०। २-वानां त स-भां० मा० ।-वानोनां स-आ० । ३ त ार्थव भां० मो०। तत्रैव आ०। ४ सव्यः हा० वि० । ५-कालं वा भि-आ०। ६ तत्रापि वा. बा. विना। ७-लब्ध भि-आ० विना । ८-स्तरं सं-वा० बा० विना। ९-पहलयि-हा० ।-पदर्शयि-आ०। १० दर्शनानन्त-वा० बा० विना । ११-दा तत्रा-भां० मा० । १२-भासि र-वा. बा. विना। १३-त्र यद्य-भां. मां०। १४-भासमये भां० मा०। १५-रभावा नु (वी तु) रज-वा. बा०। १६ तदेव वा. बा। १७ बोधयेत् इति शेषः। १८-काले । वा. बा. विना। १९-या स्व-वा० बा०। २०-भासि ससत्यं आ० ।-भावि सत्यं वा० बा०। २१-था त्र तै-वा० बा० । २२-देवहि स-वा. बा. विना। २३-रोंस्तत्र तत्र यो-वा. बा. विना। २४-विदिन्न प्र-वा० बा।