________________
नयमीमांसा।
३४९ मानतो भावानां क्षणक्षयः सिद्धः, प्रत्यक्षतोऽपि क्षणक्षयाधिगमे तयवहारसाधनानुमानं साफल्यमनुभवतीत्यपरे प्रतिपन्नाः। तदेवं प्रत्यक्षतः अनुमानतश्च क्षणिकत्वव्यवस्थितेः स्थितमेव तद मूलाधारः पर्यायनयस्य ऋणुसूत्रवचनविच्छेद इति । तस्य ऋजुसूत्रतरोः 'तुः' अवधाएँणार्थः तेन तस्यैव न द्रव्यास्तिकस्य शब्दादयः शब्दार्थ गमयन्तः शब्दनयत्वेन प्रतीताः शब्द-समभिरूद्वैवंभूतास्त्रयो नयाः शाखाप्रशाखा इव स्थूलसूक्ष्मतर( लसूक्ष्मसूक्ष्मतर)दर्शित्वात् ५ सूक्ष्मो भेदो विशेषो येषां ते तथा । यथा हि तरोः स्थूलाः शाखाः, सूक्ष्मास्तत्प्रशाखाः, प्रतिशाखाअति(शाखाश्च ) सूक्ष्मतराः एवम् ऋजुसूत्रतरोः स्थूल-सूक्ष्म-सूक्ष्मतराः शाखाःप्रशाखाः (शाखाप्रशाखा)प्रतिशाखारूपा अशुद्धःशुद्धतर-(अशुद्ध-शुद्ध-शुद्धतर)पर्यायास्तिकरूपाः शब्द-समभिरूद्वैवंभूतात्रयो नयाः द्रष्टव्याः। तथाहि-ऋजुसूत्राभ्युपगतं क्षणमात्रवृत्ति वस्तु दिंगा(लिङ्गा)दिभेदाद मिन्नं शब्दो वृक्षाच्छाखामिव सूक्ष्ममभिमन्यते एकसंज्ञं समभिरूढः शब्दाभिमतं वस्तु १० संशाभेदादपि भिद्यमानं शाखातः प्रशाखामिव सूक्ष्मतरमध्यवस्यति, तदेव समभिरूढाभिमतं वस्तु शब्दप्रतिपाद्यक्रियासमावेशसमय एवं स्थिति(?)भूत एवंभूतः क्रियाभेदाद भिन्नं प्रशाखातः प्रतिशाखामिव सूक्ष्मतममधिगच्छत्येवं बाह्याभ्युपगमपरः शब्द-समभिरूद्वैवर्भूतभेदवानवगन्तव्यः।
[२ ऋजुसूत्रपदस्य द्वितीयां व्याख्यामाश्रित्य विज्ञप्तिमात्रवादः] [पूर्वपक्षः-बाह्यार्थवादिभिः सौत्रान्तिक-वैभाषिकैः विज्ञप्तिमात्रस्य निराकरणम्]
अथवा ऋजु बाह्यापेक्षया ग्राहक-संवित्तिभेदविकलमविभागं बुद्धिस्वरूपमकुटिलं सूत्रयतीति ऋजुसूत्रः शुद्धः पर्यायास्तिकः ।
ननु किमविभागबुद्धिस्वरूपावेदकप्रमाणसद्भावतो विज्ञप्तिमात्रमभ्युपगम्यते, आहोस्विदर्थसद्भावबाधकप्रमाणसङ्गतेरिति वक्तव्यम् । तत्र यद्याद्यः पक्षः स न युक्तः, यतस्तथाभूतविज्ञप्तिमात्रोपग्राहकं प्रत्यक्ष वा तद् भवेत् अनुमानं वा प्रमाणान्तरस्य सौगतैरनभ्युपगमात् ? तत्र न तावत् २० प्रत्यक्षमर्थसंस्पर्शरहितं विज्ञप्तिमात्रमेवेत्यधिगन्तुं समर्थमर्थाभावनिश्चयमन्तरेण विज्ञप्तिमात्रमेवेत्यवधारणाधिगमानुपपत्तेः । उक्तं च
"अयमेवेति यो ह्येष भावे भवति निर्णयः।
नैष वस्त्वन्तराभावसंवित्त्यनुगमाहते" ॥ [श्लो० वा० अभाव० श्लो० १५] न चार्थाभावोऽध्यक्षसमधिगम्यः अर्थविभासकत्वेन तस्योत्पत्तेः, न च तत्रावाँसेऽपि तस्या-२५ भावः विज्ञप्तेरप्यभावप्रसक्तेः नं च तैमिरिकाक्षजप्रतिभासे चकासदिन्दुद्वयं यथाऽसत्यत्वमनुभवति तथा शुद्धप्रतिभा(भास)विषयस्यापि स्तम्भादेरपि वितथा(थ)त्वं यतस्तिमिरपरिकरितहविषय
१ तद् मूलधा-वा. बा. भां० मां। अत्र 'स्थितमेतद् मूलाधारः' इति चारु भाति। २-जुनयसू-मां० । ३ तत्र ऋ-वा० बा० विना । ४-रणोर्थस्ते-भां० मां०। ५-दय र्थ ग-आ० ।-दय शब्दोदर्थ ग-हा. वि०।-दर्थ ग-वा० बा०। ६-दर्थ ग-भां० मां० विना। ७ शाखा इव वा० बा०। ८-व मूलसूक्ष्मतरभां० मा० आ० हा० वि० । ९-खाः प्रतिशाखा अतिसूक्ष्मतरा ए-भां० मां० ।-खा सू-आ० ।-खाः सूक्ष्मास्तत्पशाखाः सूक्ष्मा तत्प्राशाश्च स्तत्त्रातरा ए-वा० बा०। १०-तरो मूल सूक्ष्मसूक्ष्मतरा शाखारूपा अ-मां० ।-तरो स्थूलःसूक्ष्मसूक्ष्मतरा शाखारूपा अ-भां० ।तरो स्थूलसूक्ष्मतराः शाखा: प्रशाखाः प्रतिशाखारूपा अ-वा० बा० । ११ स्थूलः सू-आ० । १२-तरा शा-आ० हा० वि०। १३-रूपा श-भां० मा० आ०। १४-स्तु दिगादि-वा० बा. विना। १५ वृक्षाच्छा मिव सूक्ष्माभिमवा० बा०। १६ एकं सं-आ० हा० वि० । एकसंज्ञा स-वा. बा०। १७ तदेवं स-वा० बा० विना । १८-च व स्थि-भां० मां० ।-वच स्थि-वा० बा०। १९-भूताःक्रि-वा०या० विना। २०-भूतामेदावावा० बा० । २१-भागबु-आ०। २२-दनप्र-वा. बा०। २३ "तथाभूतविज्ञप्तिमात्रं(त्र)ग्राहकं प्रत्यक्षम् अनुमानं वा?"-प्रमेयक० पृ०२१ प्र०पं० १। २४-रहितवि-आ०। २५ प्रमेयक पृ० २१ प्र. पं० २। २६-भानेऽपि वा. बा०। २७ "न च तैमिरिकप्रतिभासे प्रतिभासमानेन्दुद्वयवनिर्मलमनोऽक्षप्रभवप्रतिभासविषयस्यापि असत्त्वमिति अभिधातव्यम्"-प्रमेयक. पृ० २१ प्र. पं० ४। २८-यस्या बाध्य-भ० मा०।
४५ स० त.