SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा | आकारद्वयायोगात् एकवस्तुने आकारलक्षणत्वात् तद्भेदे ज्ञानस्यापि भेदात् अन्यथा परोक्षापरोक्षाकार भेदेऽपि स्मरण-दर्शनयोरभेदप्रसक्तिर्भवेदिति सर्वमपि ज्ञानं स्मृतिः प्रत्यक्षं वा भवेत्, प्रथमपक्षेऽस्पष्टप्रतिभासप्रसक्तिः । द्वितीये तु सर्वप्रतिभासो विशब्दः (दः) स्यात् । न च स्मरण-दर्शनयोरस्पएँ - स्पष्टप्रतिभासभेदाद् भेदः, प्रत्यभिज्ञानेऽपि 'सः' इति पूर्वोले खस्याष्ट (स्यास्पष्ट ) प्रतिभासतया 'अयम्' इति वर्त्तमानोल्लेखः ( खस्य ) स्पष्ट प्रतिभासरूपतया प्रतिभासभेदात् भेदस्य ५ न्यायप्राप्तत्वात् । न च स एवायम्' इत्येकत्वाध्यवसायादेकत्वम् यतः किं पूर्वापराध्यवसायस्यैकत्वम्, यद् वा अध्यवसीयमानस्य ? न तावदाद्यः पक्षः अन्योन्यरूपविवेकेन पूर्वापरयोरवभासनात् । तथा हि- 'सः' इति पूर्वरूपाध्यवसायो वर्त्तमानरूपाध्यवसायविविक्तः प्रतिभाति, 'अयम्' इति च वर्त्तमानाकारावभासः पूर्वावभासविभिन्नतनुराभाति, परस्पररूपानुप्रवेशे वा 'सः' इति वा प्रतिभासः स्यात् 'अयम्' इति वा, तथा च कुतः 'स एव' इत्येका प्रत्यभिज्ञा ? परस्परव्यतिरेके १० च परोक्षाऽपरोक्षप्रतिभासयोर्भेद एवेति कथमेका प्रत्यभिज्ञा ? नाप्यवसीयमानस्याऽभेदः, अवसायमेदे तदवसीयमानस्यापि भेदात् । न च स एवायम्' इति व्यवहारैकत्वादेकत्वम्, यतो व्यवहारो ज्ञानम्, अभिधानम्, प्रवृत्तिर्वा ? तत्र यदि ज्ञानम् तंत्राप्यविकैल्पां (ल्पम् ), स्मृतिः, कल्पना वा ? यदि निर्विकल्पकं तत् पूर्वापरकालभावि भिन्नमेव एककालपि पूर्वापरार्थग्राहि प्रतिभासभेदाद् मिन्नम् । अथ स्मृतिः सापि दर्शनाद् भिन्नैव कथं तदर्थस्यैकत्वं साधयति ? न च पूर्वदर्शन विषय १५ वृत्तिः स्मृतिः, तद्विपयत्वस्य तत्रासिद्धेः । तदा ( था ) हि - न तावद् दर्शनी (नातू) स्मृतेस्तद्विषयत्वं सिध्यति दर्शनकाले स्मृतेरभावात् तदभावे च न तदर्थवेदनं तनः सिध्यति । नापि स्मृतेरेकार्थता वृत्तिः तत्काले दर्शनस्याभावात् तद्भावे वा स्मृनेरयोगात् । नहि दर्शनावस्थायां स्मृतिरुदयवती उपयोगवती वा, दर्शनादेवार्थप्रतिपत्तेः । ततो दर्शनकालपरिहारेण प्रवर्त्तमाना स्मृतिर्न दर्शनार्थविषयतामात्मनोऽधिगन्तुं समर्था । अस्पप्रतिभासा च स्मृतिः कथं स्पष्टप्रतिभासा ( स ) दग्विषय. २० मर्थमधिगच्छति ? इति न तदर्थविषया स्मृतिंवृत्तिः सिद्धा प्रतिभासभेदस्य भेदकत्वात् अन्यथा भेदोच्छेदप्रसक्तिरित्युक्तत्वात् । न च कल्पनाप्येका व्यवहृतिः यतः पूर्वापरावभासा ( भासा ' स एव ) अयम्' इत्युलेख (वती) सापि भिन्नैवेत्युक्तम् । अभिधानमपि 'सः' इति 'अयम्' अपि (इति) च भिन्नम् भिन्नार्थं च प्रतिभाति एकार्थत्व (त्वे) पर्यायताप्रसक्तेः । तेन अभिधाप्येका व्यव हृतिः । प्रवृत्तिस्तु क्रियारूपत्वात् पूर्वापरभाविनी भिन्नवेति कुतो व्यवहारैकत्वादप्येकत्वम् । ५५ ३४३ अथैकत्वाध्यवसायः ' स एवायम्' इति, संवादश्च तत्र विद्यते एवेति कथं न तत्र प्रत्यभिज्ञा प्रमाणम् ? उच्यते, प्रतिभास एवाध्यवसाय-संवादौ प्रतिसत्वन्ये (?) वा सकल एव निरस्तपूर्वापरभावः स्वावधिक मैं वेत्ति भिन्नकालावधेस्तस्य संवेदनासम्भवात् । तथाहि संवेद्यमानरूपसद्भावे वस्तु संवेद्यते वेदनकाल एव च संवेद्यमानं रूपमस्ति, कालान्तरे तस्य सद्भावाभ्युपगमे स्वत एव संवेदनैत्यप्रप्तेिः (?) तत्त्व संवेदन समयाध्यासितमेव सर्वमाभाति नान्यसमयादियोगि अन्यकालादि. ३० विना । ३ परोक्षप - आ० विना । ४ ज्ञान स्मृ६- रस्पष्टप्रवा० वा० विना । ७- अत्र 'ट' स्थाने वा० । ९ पूर्वोल्लेखोस्पष्टप्रवा० बा० विना । १२ इत्येको प्र-भां० मां० । १३ परो । १- गादेवस्तु वा० वा० । २-न अका- हा० वि० वा० वा० । ५ भत्रे अथस पक्षेऽरूप वा० वा० । लिपिकारेण 'पू' इति लिपिः कृता । ८-दा प्रतिज्ञा वा० १०- रयो व वा० बा० विना । ११ - था वत् कुतः भ० मां० । क्षस्यतिभासयो भेदे एवेति वा० बा० । १४ तवाप्य वा० वा० १५- कल्पा स्मृ-वा० बा० विना । १६- मपि पूर्वग्राहि प्रभास - वा० वा० । मपि पूतिभास मां० मां० । १७- न्न विवा स्मृ-वा० बा० । १८ स्मृति त वा० वा० ॥ १९- ना स्मृ - वा० बा० । २० - दर्थावे वा० वा० । २१ स्मृतेरुद - वा० वा० । २२- नार्थ वि-वा० बा० विना । २३ वृत्ति सि-आ० हा ० वि० २४ - वहतिर्य- आ० हा ० वि० । स एवाधमित्युलेख मी सापि वा० बा० । २६-धानाम-वा० बा० । २७- कार्थत्व पर्यायतो प्रवा० बा० । २८ तत्राभि-हा० वि० २९- धाप्यका वा० वा० । ३० - स्तुभि क्रि-भां० म० । ३१-त्वाSव्यव - वा० बा० । ३२ च्यतो प्रवा० बा० । ३३- ध्यवासाय - वा० वा० । ३४ - प्रतिसव्वन्ये वा वा० बा० । प्रतिसवत्ये वा आ० हा० । प्रतिभासत्वेत्ये वा वि० । ३५-मर्थ वेति भि-वा० बा० । ३६तर तस्य वा० वा० । ३७-गमो स्व- वा० बा० । ३८-न समया - वा० बा० । ३९ प्राप्ते तत्व- भ० मां० । २५- राभा
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy