SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ द ३४२ प्रथमे काण्डेतेन सहैक्यमवगमयति । न च दर्शन-स्मरणयोरेकाधिकरणता तत्त्वम् तथाप्रतीत्यभावात् तयोः स्फुटास्फुटावाकारौ बिभ्राणे दर्शन-स्मरणे नैकाधिकरणतामैनुवीयाताम् सर्वसंविदामेकाधिकरणतापत्तेः । न च तत्र प्रतिभासभेदाद् भिन्नार्थता, स्फुटेतरप्रतिभासभेदाद् दर्शन-स्मरणयोरपि प्रसक्तेः-दर्शनं हि साक्षात्करणाकारम् स्मृतिश्च परोक्षाव्य(ध्य)वसायस्वभावेपि (ति) कथं ५तयोः प्रतिभासभेदादि(दाद्) भिन्नार्थत्वम् । तन्न ताभ्यामपि एकत्वप्रतिपत्तिः। नाप्यात्मा एकत्वं प्रतिपद्यते दर्शन-स्मरणाभावे स्वापादावर्थप्रतिपत्तेस्ततोऽभावात् । दर्शनस्मरणे च पूर्वापरार्थेः (र्थ)परिहारेण प्रवर्तमाने न तयोरेकत्वमधिगच्छत इति न तद्द्वारेणात्मापि तत्त्वमवैति । न चात्मनोऽपि पूर्वापरावस्थयोरेकत्वावगमः पूर्ववोधेन भाविविवोधसम्बन्धितार्नु (ताननु)भवात् उत्तरानुभवेन पूर्ववित्सम्बन्धिताऽनवगमात्, अनुभवे वाऽनाद्यनन्तसकलजन्म१० परम्परापरिच्छेदप्रसक्तिः। न च शुद्ध एवात्मा स्वसंवेदने प्रतिभाति दृशा(शा) परिगतः तासाम प्रतिभासे तद्गतत्वेन तस्याप्यप्रतिभासनादित्युक्तत्वात् । न च दर्शन-स्मरणव्यतिरेकेणाऽन्योऽनुसन्धाना(ता) भाति, ते चान्योऽन्यपरिहारेण स्थिते इति कथमेक आत्मा ? न च द्रष्टु(प्टुः) स्वरूपं स्मर्तृरूपतया 'दृ(द्र)याऽहं स्मरामि' इति' प्रतीतौ प्रतीतिः(प्रतीयत इति ) कथं नैक आत्मा? येतो द्रष्ट(पू)स्वरूपं किं स्मर्तृस्वरूपानुप्रवेशेन प्रतिभाति, उताननुप्रवेशेन ? द्य(यद्य)नुप्रवेशेन तदा ;ष्ट. १५स्वरूपता (द्रष्टस्वरूपता स्मर्तृस्वरूपता ) वा, एकस्य रूपस्येतरत्रानुप्रवेशात् । अथाननुप्रवेशेन तदा तुरूपे अन्योन्य भिन्ने स च नैक आत्मा। न च द्रष्ट-स्मतृरूपो विकार एव भिद्यते नात्मेति क्रमभाविविकारप्रतिपत्तौ तक्तत्वेन तस्याप्य(स्यापि) प्रतिपत्तेः विकारव्यतिरेकेण तस्याऽनुपलब्धे. रित्युक्तत्वाच्चेति नात्मनोऽप्येकत्वप्रतिपत्तिः । न च स्मरणोत्तरकालभाविनी 'स एवायम्' इत्यनुः सन्धानप्रतिपत्तिरक्षान्वयव्यतिरेकानुविधायितया प्रत्यक्षं प्रमाणम् , तस्याः प्रत्यक्षत्वानुपपत्तेः । यदि २० प्रत्यक्षप्रभवेयं भवेत् पौर्वापर्ये वृत्तिमती न स्यात् अक्षस्य वर्तमान एव व्यापारात् । न च स्मरणोप. ढोकिते पूर्वापरभावेऽक्षस्य वृत्तेः तत्प्रभवायास्तस्यास्तत्र वृत्तिर्युक्ता, अक्षस्य स्मरणोपहितेऽपि पौर्वापर्येऽविषयत्वेनाप्रवृत्तेस्तदुद्भवायास्तस्या अपि प्रवृत्त्यनुपपत्ते(त्तेः) । न(न)द्युत्पलरूपप्रवृत्तिमदक्षं स्मरणोपैनीतेऽपि गन्धादौ प्रतिपत्तिजनैनं (?) स्मरणम् न च चक्षुषो गन्धाविषयत्वात् न च तंत्र लोचनसंवित्प्रसवः स्मरणोपनीतपौर्वापर्येऽप्यक्ष(क्षा)विषयत्वस्य तुल्यत्वात् । अथ कथमक्ष२५ व्यापारानन्तरं प्रत्यभिज्ञा उदयमासादयति यद्यक्षप्रभवान्न( वा न ) भवेत् ? न; तत्र सति पुरोव्य. वस्थितवस्तुदर्शने पूर्वदृष्टे स्मृतेरुदद्यात् यथा दूरव्यवस्थितचन्दनाद्यर्थदर्शनात् गन्धस्मृतेः 'सुरभि चन्दनम्' इति प्रतिपत्तिः । न च लोचनाविषयत्वाद् गन्धस्य तद्विशिष्टं(ट)चन्दनप्रतित्तिस्तद्गतरूपदर्शनाल्लिङ्गप्रभवेति वक्तव्यम्, प्रकृतेऽपि समानत्वात् । तथाहि-वर्तमानदर्शनात् पूर्वकालाद्यनुस्मरणात् तद्विशिष्टपुरोव्यवस्थितार्थप्रतिपत्तिरानुमानिकी पूर्वकालादिसम्बन्धितायास्तदा प्रत्यस्त३० मयतोऽक्षागोचरत्वात् तामध्यवस(स्य)न्ती प्रत्यभिज्ञा कथं प्रत्यक्षतामनुभवेत् ? अन्यथा परोक्षप्रतिपत्तेः सर्वस्याः प्रत्यक्षताप्रसक्तिः । अथ परोक्ष(क्षा)कारैव प्रतीतिरप्रत्यक्षा प्रत्यभिज्ञा तु पूर्वगादियोगित्वे परोक्षाकारा वर्तमानत्वे प्रत्यक्षाकारेति स्मरणाऽध्यक्षरूपा एका प्रतीतिः, नैतदेवम्। १-भ्राणा द-वा० बा० विना। २-रणे मस्नुवीयाताम् वा० बा०। ३-मप्युपधीयताम् वा० बा. विना०। ४-थं न तयोः प्रतिभासाभेदादभिन्नार्थत्वम् वा० बा० विना। ५-रणा च वा. बा० ।-रणो च आ० हा० वि० । ६-राथे प-वा० बा० ।-रार्थो प-भां० मां०। ७ पूर्वाबो-भां० मा० । पूर्वरोधेवा. बा०। ८-नुभावा-वा० बा० हा० वि०। ९ ते वान्यो-आ० विना। १०-या द्रष्टाऽ-वा० बा। ११-ति प्रतीति क-वा० बा०। १२ यतो दृष्ट-वा० बा० विना। १३-न ह्यनु-वा० बा• विना। १४ द्रष्ट्ररू- वा. बा०। १५-रूपतां वा भां० हा० वि०।-रूपंता वा मां०। १६ एवं भि-आ० हा० वि० । एवि मि-भां० मा०। १७-वृत्तेस्तद्भवा-आ० ।-वृत्तेस्तुस्तदुद्भवा-भां० मा० । १८-पत्तेः त तमुत्पलआ. हा० वि० ।-पत्ते तात्पल-भां० मां०। १९-वृत्तिदक्षं स्म-वा० बा० ।-वृत्तिदक्ष स्म-भां० हा० वि० । २०-पनी पि वा. बा. विना। २१-ननस्म-वा० बा० । अत्र 'प्रतिपत्तिजननसमर्थम्' इति संभवेत् । २२-त्वात् त व तत्र आ० । २३ तत्रालो-भां० मा०। २४ भवेन्न सति आ० । भवेत् तत्र सति हा० वि० । २५-ना दन्ध-आ० । २६-न्दनाद्यमिति वा० बा०। २७-पत्तित्तवद्दत-भां० मा० । २८-लादिसंबन्नितावा० बा०। २९-यतोऽक्षी-भां. मां०। ३०-कारो व-आ. हा०वि०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy