SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३४१ लूनपुनर्जातकेशादिषु 'पूर्वदृष्टं पश्यामि' इत्यध्यवसायस्यान्यथापि प्रवृत्त्युपलब्धेः कथं तद्रूपार्थग्राह्यनुभवव्यवस्थापकत्वम् ? न च विच्छेदाभिस्तित्र भेदस्य ग्रहणादभेदग्राहिता मा भूद् अनुभवस्य तन्निबन्धना न पुनरिहैवं भेदावसायस्यैव कस्यचिद्भावादि( वादिति) वक्तव्यम्, भेदावसाय एवात्र कस्यचिन्नास्तीत्यदर्शनमात्रादसिद्धेः। अपि च, अवगतविच्छेदानामपि प्रमातॄणां समानवर्णसंस्थान-प्रमाणेषु केशादिषूपलम्भसमये न प्रत्यक्षनिबन्धनस्तदन्येषामिवाऽन्यत्वनिश्चयः अपि त्वनु- ५ भतविच्छेदेषु पूर्वरूपाऽसम्भवादेकाकारप्रत्ययगोचरेष्वनित्येष्वनुमाननिबन्धन एव, तत्वा(च्चा)ऽन्यत्रापि समानम् विकल्पवशाच्चायमनुभवस्य विषयव्यवस्थां कुर्वन्नन्यथापि विकल्पस्य सम्भवदर्शनात् समुपजातशङ्कः कथं सर्वत्र कुर्वीत ? अथ बाधकप्रमाणबलेनाऽन्यथात्वस्य प्रतीतेः, अत्र च तद्भावान्न शङ्कासम्भवः । तदुक्तम्___ "बाधा ज्ञाने त्वनुत्पन्ने का शङ्का निष्प्रमाणका"[ इत्युच्यते, असारमेतत्; यतो यत्र वाधकप्रमाणवृत्तिस्तत्र विपर्ययानिश्चय एवं न पुनर्बाधकनि. बन्धना शङ्का युक्ता, सा हि तुल्यजातीये प्रतियोगिदर्शनाददृष्टप्रतियोगिष्वपि विशेषादर्शिनामुपजायत इत्युक्तमसकृत् । तन्नैकत्वाव्य(ध्य)वसायिविकल्पबलानिर्विकल्पकप्रत्यभिज्ञानस्य पूर्वदृष्टार्थाधिगन्तृत्वं व्यवस्थापयितुं शक्यम् । यदे पि कैश्चिदभ्युपगम्यते-निर्विकल्पकं ज्ञानमेकत्वग्राहि तदनन्तरभावि च सविकल्पकं प्रमाण-१५ मिति, तदपि प्रतिविहितमेव; निर्विकल्पकेनैकत्र परिच्छेदात् स्वरूँ पप्रतिभासनं निर्विकल्पकमुच्यते सन्निहितमेव च स्वरूपमाभाति असन्निहितप्रतिभासस्य वस्त्वसन्निधे_न्तत्वात् पूर्वदर्शनादिसम्बन्धिता व(च) तदा सन्निहिता नास्ति । तन्न तत्र दर्शना(न)वृत्तिः स्मृतेरेव तत्र प्रवृत्तः, पूर्वदर्शनवृत्त्यायेगतेः स्मरणमन्तरेण पूर्वगादिकं स्मरत एव 'पूर्वदृष्टम्' इत्यध्यवसायोप्याद् विस्मरणे तदभावा( वात् ) स्मृतिविकैलेन्द्रियजप्रतिभासस्य निर्विकल्पकत्वात् । [?? न स्मृतिकृतदर्शनमवि-२० कल्पकज्ञानावसेयमेकत्वम् । अत एव कल्पनाज्ञानमप्येकत्वाध्यवसाये शुक्तिकायां रजत,द्धितत्त्वम् ??] न च तत्र बाधेकप्रवृत्तेर्भ्रान्तता सन्निहितविषये तु प्रत्यभिज्ञाने न कदाचिद् बाँधावृत्तिरिति सत्यार्थता, यतस्तथापि यदि तत्त्वमधिकथं (धिगतं) भवेत् प्रथमदर्शन एवं प्रतिभासेत अप्रतिभासनादसत्यम् । अथ स्मृतिसहिताया दृशस्तत्त्वे व्यापारान्न प्राक्तनदर्शने प्रतिभासनम् , असारमेतत्; यतः स्मरणसहायमपि देर्शनं नैकत्वग्रहणक्षमम् तस्य वर्तमानमात्र एव व्यापारात् वर्तमानमेवाक्ष-२५ प्रभवे ज्ञाने प्रतिभातीति तदेव तद्विषयो नै तत्त्वम् । यच्च यदगोचरस्तद् अन्यसद्भावेऽपि न तत्र प्रतिभाति, यथा गन्धस्मृतावपि न दृशि परिमलः, दृगविषयश्च पौर्वापर्यम् तन्न स्मृतावपि तत् तत्र प्रतिभाति । तथा, स्मृतिरपि नैकत्वमवगच्छति, वर्तमानदग्विषये तस्या अप्रवृत्तेः। नहि वर्तमानदर्शनग्राह्य रूपं स्मृति(तिः) परामृशति परोक्षाकारतया तस्याः प्रवृत्तेः, असंस्पर्श च न स्वविषयस्य १-दृष्ट प-वि. विना। २-रतत्र मेदग्राहिता भां० मा० । स्तत्राभेदस्य ग्रहणादभेदस्य ग्रहणादभेदग्राहिता वा. बा०। ३-दर्शनामा-वा. बा०। ४ त्वभू-भां• मां०। ५-प्वतितेष्व-वा. बा। ६-ना स-वा. बा०। -थ वाधनबाधकवलेनान्यथा-वा. वा०। ८-म्भवतस्तदु-वा० बा०। ९बाध्याशा-आ० हा० वि०। १०-स्तद विप-वा० वा०। ११-व पु-वा० बा०। १२-योगिवपि वा. बा० । १३ पृ. ३१९५० २८। १४-कल्प ज्ञा-भां. मां०। १५-क प वा० बा० । १६-रूपाप्र-आ० । १७-भासं निर्वि-आ० ।-भासन निर्वि-भां० । १८-सन्निधे प्रा-वा० बा । १९-ता व त् त-वा० बा० विना । २०-वृत्ते पू-वा. बा.। २१-धवग-वा. बा. विना। २२-मन्तरेऽपूर्वद्यागादि-वा० बा० । २३-दया वि-आ। २४-रणा त-वा. बा० । २५-कलेन्द्रियाजनप्र-वा० बा०। २६ स्मृतिकृतं दर्शनं विकल्पकमिति नाधिकल्पकल्पकज्ञानाव-वा० बा०। २७-त्वाव्यवसायं मुक्तिकार्या र-वा० बा०। २८-बुद्धिवं न आ० ।-बुद्धितवं न हा० वि०। २९-धकं प्रवृत्तेः भ्रांतरा स-वा० बा। ३० बाध्यावृ-आ०। ३१-व तंत् प्रतिभासेताप्रतिभासेता प्रतिभासनादसत्य-वा. बा० ।-व प्रतिभासेताप्रतिभासेताऽप्रतिभासनादसत्य-मां० । ३२-नप्रद-वा० बा० । ३३-दर्शनं चैकत्वन-वा. बा०।-दर्शनं चैकग्र-भां० मा० ।-दर्शनं चैकत्वं प्र-हा०वि०। ३४ नन्येवं य-वा० बा० । ३५-यदगो-बा. बा. विना। ३६-ग्राह्य रूपं स्मृ-आ० ।-ग्राह्यरूपां स्मृ-हा० वि०।-ग्राह्या रूपः स्मृ-वा० बा०। ३७-वृत्ते दसं-वा० बा० । ४४ स० त.
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy