SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३४० प्रथमे काण्डेशान(ने) पूर्वदर्शनग्राह्य किं तदृष्टेन रूपेण प्रतिभाति, उत रूपान्तरेण? यदि पूर्वदृष्टेन तथासति पूर्वदृष्टरूपावभास एव न वर्तमानरूपपरिच्छेदः। अथ रूपान्तरेण तत्रापि वर्तमानदर्शनग्राह्यरूपतैव न पूर्वज्ञानग्राह्यता इति वर्तमानमेव तत्। न च ज्ञानद्वयावभासि रूपं तत्र प्रतिभातीति वक्तुं शक्यम्, शानद्वयाऽभावे तदवभासिनो रूपस्याप्यभावात् यदेव हि ज्ञानमस्ति भवतु तदवभास्येव तद्रूपम् यत् ५तु नष्टज्ञानं न तदवभासि युक्तम् अन्यथा सकलातीतज्ञानावभासिरूपप्रतिभासंप्रसक्तिरित्युक्तम् । तस्माद् इदानीन्तनज्ञानावभासमेवैतद् युक्तम् । न च निर्विकल्पके वर्तमानग्रहणे सति प्राक्तनशानावभासिभावपरिच्छेदः समस्ति विकल्पद्वयान तिवृत्तेः। यतः 'सः' इति पूर्वपरिच्छेदः 'अयम्' इति प्रतिभासानुप्रवेशेन प्रतिभाति, उताननुप्रवेशेन ? यद्याद्यः पक्षः, तदा 'सः' ति(इति) वा परोक्षाकारः प्रतिभासः 'अयम्' इति वा वर्तमानमात्रावभासः। अथाननुप्रवेशेन प्रतिभासस्तदापि प्रतिभासद्वयं १० परस्परविविक्तमायातम् , तथा च तद्ग्राह्यस्यापि भेदः प्रतिभासभेदात् । न च तदवभासद्वयमेकाधि करणम् परोक्षाऽपरोक्षरूंपनिर्भासद्वयस्यैकाधिकरणत्वासिद्धेः अन्यथा भिन्नाधिकरणसर्वसंविदामेका. धिकरणत्वापत्तेः। तन्नैककालम् भिन्नकालं वा प्रतिभासद्वयमेकार्थम् प्रतिभासभेदात् । न चात्र प्रतिभास एव भिन्नो न प्रतिभास्यः, तद्भेदे तदभेदासिद्धेः। तथाहिन स्वतः प्रतिभास्याभेदः सिद्धः, स्वसंविन्मात्रप्रसक्तेः। नापि प्रतिभासात् तस्य भिन्नत्वादिति नैकत्वसिद्धिः। उत्तरकाल१५भाविनोऽपि दर्शनात् सन्निहितमात्रस्यैव तंत्र प्रतिभासात् पूर्वकालादीनां तत्र प्रतिभासने वर्तमान तापत्तेः, तदनवभासे च तत्परिकरितरूपस्याप्यपरिच्छेदः। न च तद्गतत्वेनाऽप्रतिभासेऽप्यत्रुट्यदू पतया प्रतिभासात् प्रतिभास्यस्यैकत्वम् यतो विद्युदादिष्वपि पूर्वरूपाप्रतिभासनं यदि त्रुट्यदूपत्वमङ्गी. क्रियते तर्हि पूर्वदृष्टाप्रतिभासनं वर्तमान(?)वरदृशः स्तम्भादावस्तीति कथं न त्रुट्यदूपप्रतिभासः स्तम्भादेर्भेदः ? अथ ग्राह्यस्याविरतमुपलब्धिरत्रुट्यद्रूपता विद्युदादौ त्ववभासस्य विरतिरित्यत्रुट्यद्रूपता २० न युक्ता, नन्वविरतोपलब्धिरपि किं तस्य, आहोस्विद्न्यस्य इति वक्तव्यम् । यद्यन्यस्य कथमेकत्वम् ? अथ तस्यैव, सा न सिद्धा । नहि पूर्वदृष्टस्य पुनरुपलब्धिरिति सिद्धम् । __ यदपि 'पूर्वदृष्टं पश्यामि' इति व्यवसायबलात् निर्विकल्पकं दर्शनं 'पूर्वापरैकत्वग्राहि' इत्युक्तम् सैदप्यसारम्, यत्ते(यतो) न व्यवसायबलाद् ग्राहकं दर्शन व्यवस्थाप्यते किन्तु प्रतिभासवशात् अन्यथा अश्वविकल्पसमये गोदर्शनव्यवस्था न स्यात् प्रतिभासश्च निराकृतपूर्वापरभावो वर्तमानार्थ२५मारूढः परिस्फुटं सर्व एवाभाति साक्षात्का(त्क)रणं हि परिस्फुटता तत्व(च्च) सन्निहितप्रतिभासनम् असन्निहितस्य साक्षात्क मशक्यत्वात् पूर्वदृष्टं सन्निहितं रूपमिति न तद्रहः प्रत्यक्षस्वभावः । अथापि स्यात् नोत्तरप्रत्यक्षे पूर्वदृष्टं रूपमाभातीति किन्तु धर्मिरूपं नीलादिलक्षणम् , असदेतत्; पूर्वापरदर्शनप्रतिभासि स्वरूपव्यतिरिक्तस्य नीलादित्वस्य धर्मिणस्तभेदेऽप्यभिन्नस्याऽनुपलब्धे(ब्धेः) नहि पूर्वापरदृगवसेयं मुक्त्वा रूपमपरो नीलादिरूपो धर्मी प्रतिभाति, अप्रतिभासमानस्य नित्यत्व३० साधने न कौचित् क्षतिः प्रतिभासँस्यैव सर्वस्यानित्यत्वसाधनात् । तन्न अँध्यवसायवशादध्यक्षस्य ग्रहणव्यवस्था इत्येके। अपरे तु मन्यन्ते यद्यपि नीलाव्य(ध्य)वसाया(यात्) नीलदर्शनस्य तद्हेणं व्यवस्थाप्यते तथापि १-ग्राह्य किं न दृष्टे-वा. बा०। २-दृष्टे त-भां०म०। ३-नशन-आ०।-नदृशंन-वि०।-नवशंनवा० बा०। ४-यावभावे तदभा-वा० बा० विना। ५-ज्ञानं तद-वा. बा० विना। ६ तवभा-वा. बा। ७-ससक्ति-वा. बा. विना । ८-भासमेवे द्युक्त-आ. हा० वि० ।-भासस्येवैतद्युक्त-वा. बा० । ९ सति प्रसकेनशा-वा० बा०। १०-रूपानि-वा. बा०। ११-कार्थप्र-वा० बा०वि० विना। १२ तत्र भासात् आ० हा० वि०। त भासात् भां० मां०। १३-भातात् प्र-वा. बा०। १४ प्रतिभासस्यै-वा. बा. विना। १५-मानं रदृशः भा० मा० ।-मा वरदृशः हा० ।-मानं शिस्तम्भा-वा० बा० ।-मानवरदृशः वि०। १६-ह्यस्य वि-वा० बा०। १७ पृ. ३२० पं०२। १८ तदपप्रति यते न वा० बा०। १९-ना डावा. बा. विना। २. तत्त्वसन्निहितप्रतिभासनमसन्निहितप्रतिभासनमसन्निहितसाक्षात्क-वाबा। २१-नस्यानि-आ०। २२ काचित् कृतिः वा. बा.। २३-सस्यैवं स-मां• आ० हा० वि०।-सस्येवं स-वा० बा०। २४ अव्यव-वा० बा०। २५-हणंव्य-वा० बा०। २६-लान्यव-वा० बा०। २७-सायीनी-वि०। २८-हण व्य-बा० बा।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy