SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३३९ दृशि? यद्याद्यः पक्षः तदा वर्तमानतैव न पूर्वापरटेगव(गवग)तैकत्वम् । अथ द्वितीयः तदा पूर्वदर्शनमपेतत्वाद् असत् कथं वर्तमानदर्शने प्रतिभाति? तदप्रतिभासे च तद्ग्राह्यतापि प्रच्युतत्वाद् न प्रतिभाति, तदृग्ग्राह्यं तु रूपमधुना सन्निहितत्वाद् वर्तमानगधिगम्यं भविष्यति पूर्वदर्शनस्यापरिच्छेदे तदधिगम्यस्यापि रूपस्याधिगमासंभवात् । यतो न वर्तमानं दर्शनं पूर्वदृशमगृहत् तदधिगम्यमधिगन्तुं क्षमम् तद्दिशा(तदृशो) ग्राह्यमधिगच्छतु पूर्वदृग्ग्राह्यतां तु कथमधि- ५ गच्छेत् ? यदि तु पूर्वटैगम(गन)वगमेऽपि तद्ग्राह्यता प्रतीयते तथासति सका(क)लातीतहग्ग्राह्यताऽपि प्रतीयताम् । न च पूर्वदृष्टता नाभाति पूर्वदृष्टरूपं ना(चा)भातीति पूर्वदृष्टताऽप्रतीतौ पूर्वदृष्टरूपाऽप्रतिपत्तेन हि नीलताप्र(ताऽप्र)तिपत्तौ 'नीलोऽर्थोऽधिगतो भवति । खवेद्यतया च प्रति. भासमानः स्ववेद्य एव नान्यवेद्यः तत्राप्रतिभासमानरूपाभ्युपगमेऽतिप्रसङ्गात् सर्वस्य सर्वात्मकता. पत्तेः । न च पूर्वदेशाऽपो(दृशोऽपा)ये तत्कर्मता अर्थस्य प्रच्युतेति न भौति तद्गोचरः सर्वात्मना १० भाव्ये(त्ये)व तदपाये तदवगतत्वेनाऽप्रतिभासनाद्य(नाद)न्यथातिप्रसङ्ग इत्युक्तेः। यदि च प्राग्दर्शनगोचरोऽर्थो वर्तमानदृशि प्रतिभाति पूर्वदृग्गोचरसकलपदार्थप्रतिभासप्रसङ्गः। न च भिन्नं पूर्वहगवंगतं नावभाति अभिन्नं तु तत्प्रतिभासविषयोऽवभासत एव नीलादेर्भिन्नस्यापि वर्तमानदेर्शनप्रतिभासनात् पूर्वदृष्टत्वादेव तस्य न तत्र प्रतिभासः, तैञ्चाभिन्नेऽपि समानम् इति कुतस्तस्य प्रतिभासः? नै चाभिन्नस्य पूर्वदृग्गोचरस्य सन्निहितत्वा(त्वात्) प्रतिभासः नेतरस्य विपर्ययात् १५ तत्सन्निधेरेवासिद्धेः । न च सम्प्रति दर्शनात् तत्सन्निधिसिद्धिः, यतः किं तत् तस्य दर्शनम् , उतान्यस्य ? यद्यन्यस्य कथं तत्सन्निधिसिद्धिः सर्वस्य तत्प्रवृत्ति (त्तेः)। नैं चाप्रतिभासान्न सर्वस्या(स्य) सन्निधिः इतरेतराश्रयदोषात्-तदप्रतिभासात् सर्वासन्निधिः ततश्च सर्वाप्रतिभास इति व्यक्तमितरेतराश्रयत्वम् । अथ तस्यैव दर्शनात् सत्स(तत्स)निधिः, असदेतत् । यतः पूर्वदर्शनावगतस्य वर्तमानदर्शन मिति न कुतश्चिद्वगम्यते? न तावद् दर्शनात्, सन्निहित एव तस्य वृत्तेः। न च २० पूर्वदृष्टसन्निहितयोरेकत्वाद् वर्तमानदर्शनवृत्तिः, इतरेतराश्रयत्वप्रसक्तेः-तयोरेकत्वात् तद्दर्शनवृत्तिः तद्वत्तेश्च तयोरेकत्वमितीतरेतराश्रयत्वम् । ___अपि च, तदर्शनवृत्त यं दोषः तदप्रच्युतौ प्रमाणाभावात् । न च प्रत्युत्पन्नदर्शनमेव तत्र प्रमाणम् , इतरेतराश्रयदोषप्रसक्तेः । तथाहि-पूर्वदृष्टस्याप्रच्युतो प्रवर्त्तमानं दर्शनं प्रमाणं सिध्यति तत्प्रामाण्यात्व(च) पूर्वदृष्टस्याप्रच्युतिरिति व्यक्तमितरेतराश्रयत्वम् । न च परिस्फुटप्रतिभासादेव २५ वर्तमाना दृक् प्रमाणम्, काम-शोकायुपप्लुतविशदृशः प्रमाणताप्रसक्तेः। न च विसंवादात् सा अप्रमाणम् इयं तु विपर्ययात् प्रमाणम्, यतः संवाददृगपि पूर्वदृष्टेऽर्थे प्रवर्त्तमाना न प्रमाणतया सिद्धा अन्यत्राऽप्रवृत्ता न(?)संवादकृता, ततः पूर्वदृष्टार्थनाहित्वे दृग् भ्रान्ता प्रसक्ता । अपि च, उत्तर १-मान न पू-वा० बा० । २-दृग्वतैकत्वम् भां० ।-दृग्वंतैकत्वम् आ० ।-दृगतैकत्वम् वा० बा० । ३-ह्यतोऽपि वा० बा० विना। ४ भविष्यन्ति वा० बा० विना। ५पूर्वमानगृह्नत् तदधिगम्यगम्यमधिगन्तु क्ष-वा० बा०। ६-गच्छत प्र-वा. बा. विना। ७ यदि पूर्व-वा० बा०। ८-हगव-वा. बा. विना । ९ न च पूर्वदृष्टता नाभातीति पूर्वदृष्टताऽप्रती-हा० वि० । न च पूर्वदृष्टता नाभाति पूर्वदृष्टं ताना भाति पूर्वदृएं रूपं नाभातीति पूर्वदृष्टताऽप्रती-भां० मा० । न च पूर्वदृष्टता नाभाति पूर्व, ता नाभातीति पूर्वदृष्टताऽप्रती-वा. बा०। १० नीलार्थी-भां० मां०। ११-या प्रति-भां. मां. आ. हा. वि०। १२-न्यवेद्य एव नावेद्यतया प्रतिभासमानः स्ववेद्य एव नान्यवेद्यस्तत्रा-भां० मां०। १३-४शाऽपाये वा० बा० विना। १४ भा नत्गोचरः सर्वात्मा भाव्ये-वा० बा०। १५ तदापा-वा. बा। १६-र्शनागो-वा० बा०। १७-चरार्थो आ० । १८-वतं भां० मा० ।-वसतं हा०।-वसंतं वि०।-वसंत ना-आ०। १९-पयोऽभा-वा. बा०। २०-दर्शनाप्र-वा० बा०। २१ तत्वाभि-भां० माआ तथाभि-हा. वि.। २२ न वाभि-वा. बा.। २३-वासिद्धर्न त सम्प्र-वा. बा० ।-वासिद्धेर्नि व सम्प्रआ० ।-वासिद्धर्मि व सम्प्र-हा०वि०। २४ नवा प्र-वा. बा. मां० विना। २५-दपि प्रतिभासत सर्वा-वा० बा०। २६ ततश्च सर्वाप्रतिभासात् सर्वाप्रतिभास इति भां० मा०। २७-गम्यंते वा. बा०। २८-यप्र-वा. बा०। २९-माणभा-आ०। ३०-च्युतै प्र-आ० ।-च्युते प्र-हा० वि०। ३१ -मान द-हा। ३२-शहदृशः आ. हा०वि०।-शद् दृशः वा० बा०। ३३-मा न प्र-वा. बा. विना । ३४-न्यथा-हा० वि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy