SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३४४ प्रथमे काण्डेयोगिनोऽपि तदा प्रतिभासने तदेव प्रकाशरूपसद्भाव इति वर्तमानैव पूर्वकालादियोगता भवेत् नातीता । प्रकाशमानरूपविरहे च न तदा पूर्वकालादियोगितायाः प्रतिभासनमित्येकत्वस्यानुपलब्धेर्न प्रत्यभिज्ञा कथञ्चिदपि सम्भविनी। न च संवादोऽप्येकत्वे 'सिद्धः, स हि तदर्थज्ञा(?)न्तरवृत्तिः म(न)रैकत्वे पुनः ज्ञानवृत्तिः इत्युक्तम् । तजातीये तु पुनदर्शनं प्रवर्तते तदैव च संवादात् समभिमानो ५लोकस्य तत्त्वाध्यवसायात् । तथाहि-'स एवायम्' इति तदर्थक्रियाकारी अयं भाव इत्युच्यते तदर्थकारित्वं च भिन्नस्याप्युपलब्धम् यथा चक्षुरादेस्तज्ज्ञानजननम् तत्रैव च ‘स एवायम्' इति भेदेऽप्येकत्वव्यवहारः अथवा पूर्वाऽपरदर्शनाभ्यां परस्परपरिहारेण प्रवृत्ताभ्यामेकत्वलक्षणस्य तदर्थस्य बाधितत्वादनादिकाला भ्रान्तिरेव प्रत्यभिज्ञा । तन्न क्षणिकाभिव्यक्तिषु शब्दमात्रासु निर्विकल्पक प्रत्यभिज्ञावसितं स्थैर्यम् निर्विकल्पकस्य सविकल्पकस्य वा प्रत्यभिज्ञानस्य प्रामाण्यासिद्धितस्तत्त्वा. १० साधकत्वात् । तन्न प्रत्यक्षविरोधमनुभवन्ति क्षणभङ्गवादिनः। यदपि 'नाशस्य कारणाधीनत्वादसन्निहिते(त)कारणस्य घटादिपु अनुदयात् विनाशकारणात् प्रागनिवृत्तरूपा एव घेटादयः, तदपि प्रतिक्षणध्वंसिताभावे सर्वसामर्थ्याभावलक्षणस्यासत्त्वस्य भावात् स्वरसविनाशितया [?? नापि संयोगाद् विनाशमनुभवन्तीध्व(न्ध)नाद्य इति ??] प्रतिविहितमेव । तथापि किञ्चिद् उच्यते-तत्रेन्धनादीनामग्निसंयोगावस्थायां त्रितयमुपलभ्यते तदे१५ वेन्धनादि, कश्चिद् विकारः, तुच्छरूपस्वभावः कल्पनाज्ञानप्रतिभासी, तत्राग्न्यादीनां क्व व्यापार इति वक्तव्यम् । न तावद् इन्धनादिजन्मनि स्वहेतुत एवैपामुत्पत्तेः । नाप्यङ्गारादौ विवादाभावात् अग्न्यादिभ्यश्चाङ्गाराद्युत्पत्ताविन्धनादेरनिवृत्तत्वात् तथैवोपलन्ध्यादिप्रसङ्गः। न चाङ्गारादिभ्यः काष्टोदेर्धे()सान्नीयं दोपः। ततो वस्तुरूपापरध्वंसोपगमेऽपि काष्ठादेस्तदवस्थात् पुनरपि स्वार्थक्रियानिवृत्ते. र्वन्नक(?)प्रसक्तिः । ततोऽप्यपरतथाभूतध्वंसोत्पत्त्यभ्युपगमेऽप्यनवस्था वाच्या । अथ भावान्तरमेव २० प्रध्वंसाभावः नापरः तत् कथं काष्ठादेस्तथोपलव्ध्यादिप्रसङ्गः ? नेतदेवम् ; यतः 'काष्ठादेरङ्गारादिरेव ध्वंसो नापरः' इत्यत्र किश्चिन्निबन्धनं वाच्यम्, तस्मिन् सति तन्निवृत्तिरिति चेत्, न; तुच्छस्वभावनिवृत्त्यनङ्गीकरणेऽङ्गारादिकमेवार्थान्तरं निवृत्तिशब्देनोक्तम् । ततश्चायं वाक्यार्थः-अङ्गारौंदिभावभावात्(?)काष्ठादेरशारीदिकं ध्वंस इति । न(?)चाङ्गादेर्भावस्वात्मनि हेतुत्वविरोधात् अप्र स्तुताभिधानं च प्रसक्तम् अत्स्या (गया)दिभ्यस्तदुत्पादाभिधानात् काष्टादीनां निवृत्तौ प्रस्तुतायामर्था२५न्तरविधाने तेषामनिवर्त्तनात् । यदप्यभ्यधायि 'बुद्धि-प्रदीपादयो येऽप्यनु(नुप)जातविकारा ,समासादयन्ति तेऽप्यात्माव्यक्तरूपां(पतां)विकारान्तरम( मे )व ध्वंसमनुभवन्ति' इति, तदप्यसङ्गतम्। बुझ्यादीनामात्मरूपविकारापत्तौ प्रमाणाभावात् आत्मनश्चासत्त्वात् कथं तद्रूपता बुद्ध्यादीनां विकारः? 'न च परिणामः सम्भवति' इति प्राक् प्रतिपादितम् । प्रदीपादेस्तु अय॑क्तभावः कार्यदर्शनादनुमेयः तस्याती३०न्द्रियत्वात् । न च ध्वस्तस्य प्रदीपादेः किञ्चित् कार्यमुपलभ्यते यतस्तदव्यक्तभावानुमितिः स्यात् । तन्न भावान्तरं प्रध्वंसाभावः। भावान्तरस्य च प्रध्वंसत्वे तद्विनाशाद् घटाद्यन्मजनप्रसक्तिः। न च १-ता भवेन्नतीता भां० मां. आ० ।-ता भावेन्नतीता हा०वि०। २-रहे चेन्न वा. बा. विना। ३-सममित्ये-भां० मा. आ. हा०वि० ४-कत्व सि-वा. बा. विना। ५सिद्धेः वा० बा०। ६-वृत्तिर्नचैक-वा० बा० विना। ७ तत्रा क्ष-आ० । तत्वा क्ष-हा० वि०। ८ स्थैर्य नि-वा० बा० विना । ९-णसङ्ग-भां० मा० । १० पृ. ३२० पं० २२। ११-घटामुनुद-वा० बा० । घटादिषूनुद-हा०। घटादषूनुद-वि०। १२-तीधूना-भां०। १३ स्थायां त त्रतय-वा. बा०। १४ न वा-वा. बा. हा० वि०। १५-ष्ठादेशान्नांय दो-भां० मा०।-ष्ठादेशान्तायं आ० ।-ष्ठादेवशात्तायं हा०वि०।-ष्ठादेविनाशानायं वि०सं०। १६-नाव्यं दो-वा. बा.। १७-निवर्तप्र-वा. बा०।-निवृत्तेर्वर्त्तकप्र-भां. मां ।-निवृत्तेर्ववतर्कप्र-हा० ।-निवृत्तेर्वतर्कप्र-वि० ।-निवृत्तेर्वतर्कप्र-वि० सं० । १८-वृत्यमंगी-वा. बा०। १९-न्तर नि-वा. बा. विना। २०-रादिभाविभा-वा. बा.। २१-रादिक ध्वं-भां. मां। २२-रादिभावेङ्गारादिर्भावः स्वात्मनि मां०।-रादिभावेगारादेर्भावः स्वात्मनि भां०।-रादिभावे देर्भावः आत्मानि वा. बा०। २३-षामनव-वा० बा०। २४ पृ. ३२१५० २॥ २५-न्ति तन्मा व्यक्तरूपतां विबा. बा. २६-व्यक्ताभा-आ०. २७-भावका-हा०वि०॥
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy