SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३३६ प्रथमे काण्डेनाभेदसिद्धिः । सहकारिप्रत्ययोपजनितस्य वा(चा)तिशयस्यालम्बनाद् (नाद् व्यतिरेके) व्यतिरेकपक्ष भावी दोषो दुर्निवार इत्युक्तं प्राक् । अथ प्रागपि स स्वभाव आसीत् तदोत्तरकालभावीनि प्रत्यभिज्ञाना(भिज्ञा)कार्याणि प्रागेवोदस्तवति(वन्ति) स्युरिति क्रमवता प्रत्यभिज्ञाज्ञानेन स्वसंवेदनेनो. पलक्षितेनाभिन्नत्वेनोपलक्षितस्यापि व्या(बाह्या)लम्बनस्य क्रमः प्रदर्शित एव । अथ दर्शनाविशेषेऽपि ५प्रत्यभिज्ञाकार्यक्रमानुभवः किमिति सत्यत्वेन व्यवस्थाप्यते न पुनरमिन्नतदालम्बनानुभवतः(भवः) उच्यते, क्रमसंवेदने बाधकाभावादितरत्र तद्विपर्ययात् । यदि ह्यसतो ज्ञानक्रमस्य स्वसंवित्या(त्या) विषयीकरणं भवेत् तदा तदभावे स्वसंवित्तेरपि तदव्यतिरिक्ताया(याः) तत्प्रभावान्न केनचित् कस्यापि विषयीकरणं भवेदिति तत्क्रमानुभवः सत्यः बाह्यालम्बनाभेदानुभवस्तु लूनपुनर्जातकेशादिष्विव बाधितत्वादसत्यः । यथा चानुसन्धानप्रत्यया बहिरेकत्वाद्यालम्बनाभावेऽप्यान्तरमेव(मेका). १० कारं बहिर्वद् अवभासमानाः प्रवर्त्तन्ते तथाऽन्यत्र प्रतिपादितम्। यत् पुनः परैरुच्यते-आलम्बनैकत्वाध्यवसायि प्रत्यभिज्ञाकार्यक्रमदर्शनं सहकारिप्रत्ययैरनाधेयातिशयतामालम्बनस्य बाधनो(धते?) कार्यस्यानुत्पादयोगपद्याभावान्न पुनरभेदम् भेदावभासिनोऽनुभवस्याभावादिति, तदप्यसङ्गतमेव; यतो यद्यालम्बनस्याभेदो न वाध्यते तर्हि सहकारिसन्निधावप्यप्रतीयमानातिशयानां वज्रोपलादीनां अनाधेयातिशयताऽपि कथं बाध्येत ? अथ कार्यानुत्पाद१५ यौगपद्याभावान्ना(वात् सा) बाध्यते, नन्वेवमनुपलभ्यमानोऽपि भेदस्तस्यामवस्थायां अतिशयवत् किं नाभ्युपगम्यते? यतोऽनतिशयानुभवस्याप्यनुमानत एवाऽप्रामाण्यं परोऽभ्युपगतवान् अन्यथा भेदानुभवमनादृत्य कथमतः सातिशयत्वं तस्यामवस्थायामभिमन्येत? तथा, यद्योलम्बने भेदोऽप्यङ्गीक्रियते तदा को दोषो विशेषाभावादिति क्रमैत(व)त्प्रत्यभिज्ञालक्षणकार्यदर्शनात् तदालम्बनस्यापि क्रमः सिद्धः । तदुक्तम् "नाक्रमात् ऋमिणो भावो नाप्यपेक्षा विशेषिणः। क्रमाद् भेंवन्ती धीशे (झें)यात् क्रमं सत्या(मं तस्या)ऽपि सत्स(सेत्स्य)ति"[ ]इति । तदेवं न बहिरवस्थितैकार्थसम्प्रयोगेणेन्द्रियेण जन्यते प्रत्यभिज्ञा तदा(द)भावान्न प्रत्यक्ष(क्ष?) नापि प्रमाणसिति स्थितम । तथाचं 'नहि स्मरणतो यत' इत्यादि वचनं सिद्धसाधनमेव. यतो वचनं सिद्धसाधनमेव, यतो यदेवंभूतं तद् भँव(वे)त् प्रत्यक्षम् नत्वेवं प्रत्यभिज्ञानमिति का नः क्षतिः ? यतः पूर्वानुभूतधर्मा२५ रोपणाद् विना 'श (स) एवायम्' इति ज्ञानं नोपजायते तञ्चाक्षजे प्रत्ययेऽसैम्भवि। __ यदप्युक्तम् 'देशोदिभिन्नं सामान्याद्यालम्बनम्' इति, तदप्यसङ्गतम्। सामान्यादेरभिन्नस्य तद्विषयस्याभावात् भावेऽप्यनेकप्रमाणगोचरत्वेन तत्र प्रवर्त्तमानस्य प्रत्यभिज्ञानस्याऽनधिगतार्थाधिगन्तृत्वायोगात् भिन्नाभिन्नालम्बनत्वेऽपि च प्रत्यभिज्ञानस्य न प्रामाण्यम् अपूर्वप्रमेयाभावात् । नहि देशाद्यस्तत्र प्रत्यभिज्ञानांते(ज्ञायन्ते) प्रागदर्शनात् तेषाम् पूर्वोपलब्धे तु सामान्यादौ न प्रमेयाधि. ३० क्यम् । न च पूर्वप्रसिद्धमेवाग्निसामान्यं देशादिविशिष्टतयानुमानस्याधिगच्छति(गच्छतः) प्रमेयातिरेकानु(कात्) यथा न प्रामाण्यव्याहतिस्तथी प्रागुपलब्धमेव सामान्यादिदेशादितिविशिष्ट(दे. शादिविशिष्ट)तया प्रतिपद्यमानस्याप्यपूर्वप्रमेयसङ्गतेन प्रामाण्यक्षतिरिति वक्तव्यम् , द्वितीयप्रत्यक्षत १-क्षभवो दो-आ० । २-सीत् तनोत्त-वा० बा०। ३ प्रतिज्ञा-वा० बा०। ४-लक्ष्यते वा० बा। ५-भतः वा. बा०। ६-स्तु नपुन-भां० मा. हा० वि०। ७-था वा-वा. बा०। ८-रबहिर्वदनासमानाः वा० बा०। ९-स्य वाधतो का-वा० बा० ।-स्य धाना का-आ०। १० कार्यस्य नु-वा० बा० । ११ बाधते आ०। १२-प्य वर्तियमा-वा. बा०। १३-यानापि भां० मा०। १४-शयेना-वा. बा. विना। १५-स्थाया नति-वा. बा०। १६ यतोऽयनेति-भां० मां। १७-नुभाव-वा० बा०मां. विना। १८-थाऽमे-वा० बा०। १९-द्यारम्बल मे-वा० बा०। २०-वादित क्रम-वि. विना। २१-मत्प्र-या० बा०। २२ भवं धी ज्ञेयात् क्रमं तस्यापि सत्सतीति वा० बा० विना। २३-पि सेत्स-वि० । २४-कार्थसप्र-आ० वि० विना। २५-क्ष नापि वा० बा०। २६ च । ते हि वा० बा० विना। २७ पृ. ३१९६०४। २८ भव प्र-वा० बा०। २९ नन्वेवं वा० बा० आ० । ३० संभवति वा० बा० । संभववि आ० । ३१ पृ. ३१९५० ११। ३२-शादिभिन्न सा-वा० बा०। ३३-च्छतिः वा० बा०। ३४-माण्याव्या-भां. मां। ३५-था त्रामुप-वा० बा०। ३६-शादिविविशि-वा. बा.। ३७-ण्यकृति-वा. बा. आ. विना।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy