SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे ११ तस्माजन्मव्यतिरेकेण बुद्धेापाराभावात् तत्र च ज्ञानानां सगुणेषु कारणेष्वपेक्षावचनात् कुतः स्वातम्येण प्रवृत्तिरिति किं तद् ज्ञानस्य कार्य यत्र लब्धात्मनः प्रवृत्तिः स्वयमेवेत्युच्यते ? स्वार्थपरिच्छेदश्चेत्, न; ज्ञानपर्यायत्वात् तस्यात्मानमेव करोतीत्युक्तं स्यात्, तश्चायुक्तम् । 'प्रमाणमेतद्' इत्यनन्तरं निश्चयश्चेत्, न; भ्रान्तिकारणसद्भावेन क्वचिदनिश्चयात् विपर्ययदर्शनाच । तस्माजन्मापेक्षया गुणवश्चक्षुरादिकारणप्रभवं प्रामाण्यं परतःसिद्धमिति 'अथ चक्षुरादिक्षानकारण-' ५ इत्याद्ययुक्ततया स्थितम् । अपौरुषेयविधिवाक्यप्रभवायास्तु बुद्धेः स्वतःप्रामाण्योत्पत्त्यभ्युपगमो न युक्तः, अपौरुषेयत्वस्य प्रतिपादयिष्यमाणताहकप्रमाणाविषयत्वेनासत्त्वात्, सत्त्वेऽपि भवन्नीत्या तस्यैव गुणत्वात् तथाभूतप्रेरणाप्रभवाया बुद्धेः कथं न परतःप्रामाण्यम् ? किंच, अपौरुषेयत्वे प्रेरणावचसो गुणवत्पुरुषप्रणीतलौकिकवाक्येषु तत्त्वेन निश्चितं प्रामाण्यं गुणाश्रयपुरुषप्रणीतत्वव्यावृत्त्या १० तत् तत्र न स्यात् । तथा च "प्रेरणाजनिता बुद्धिः प्रमाणं दोषवर्जितैः । कारणैर्जन्यमानत्वाल्लिङ्गाऽऽप्तोक्ता ऽक्षबुद्धिवत्" ॥ [ श्लो० वा० सू० २,१८४] इति। इत्ययं श्लोक एवं पठितव्यः प्रेरणाजनिता बुद्धिरप्रमा गुणवर्जितैः। कारणैर्जन्यमानत्वादलिङ्गाऽऽप्तोक्तबुद्धिवत् ॥ अथ प्रेरणावाक्यस्यापौरुषेयत्वे पुरुषप्रणीतत्वाश्रया यथा गुणा व्यावृत्तास्तथा तदाश्रिता दोषा अपि; ततश्च तव्यावृत्तावप्रामाण्यस्यापि प्रेरणाया व्यावृत्तत्वात् स्वतः सिद्धमुत्पत्तौ प्रामाण्यम् । नन्वेवं सति गुण-दोषाश्रयपुरुषप्रणीत(तत्व)व्यावृत्तौ प्रेरणायां प्रामाण्याऽप्रामाण्ययोावृत्तत्वात् प्रेरणाजनिता बुद्धिःप्रामाण्याऽप्रामाण्यरहिता प्राप्नोति । ततश्च प्रेरणाजनिता बुद्धिर्न प्रमाणं न चाप्रमा। गुण-दोषविनिर्मुक्तकारणेभ्यः समुद्भवात् ॥ इत्येवमपि प्राक्तनः श्लोकः पठितव्यः । अत एव यथा "दोषाः सन्ति न सन्तीति पौरुषेयेषु चिन्त्यते । वेदे कर्तुरभावात्तु दोषाशकैच नास्ति नः" ॥ [ ] इत्ययं श्लोक एवं पठितस्तथैवमपि पठनीयः गुणाः सन्ति न सन्तीति पौरुषेयेषु चिन्त्यते । वेदे कर्तुरभावात्तु गुणाशङ्कव नास्ति नः ॥ न च यत्रापि गुणाः प्रामाण्यहेतुत्वेनाऽऽशड्यन्ते तत्रापि गुणेभ्यो दोषाभाव इत्यादि वक्तव्यम्, विहितोत्तरत्वात् । अपि च, अपौरुषेयत्वेऽपि प्रेरणाया न स्वतः स्वविषयप्रतीतिजनकव्या-३० पारा-सदा सन्निहितत्वेन ततोऽनवरतप्रतीतिप्रसङ्गात्-किंतु पुरुषाभिव्यक्तार्थप्रतिपादकसमयाविर्भूतविशिष्टसंस्कारसव्यपेक्षायाः। ते च पुरुषाः सर्वे रागादिदोषाभिभूता एव भवताऽभ्युपगताः, तत्कृतश्च संस्कारो न यथार्थः-अन्यथा पौरुषेयमपि वचो यथार्थ स्यात्-अतोऽपौरुषेयत्वाभ्युपगमेऽपि समयकर्तृपुरुषदोषकृताप्रामाण्यसद्भावात् प्रेरणायामपौरुषेयत्वाभ्युपगमो गजनानमनकरोति । तदुक्तम् "असंस्कार्यतया पुम्भिः सर्वथा स्यान्निरर्थता। संस्कारोपगमे व्यक्तं गजनानमिदं भवेत्" ॥[ यदप्यभाषि 'तथाऽनुमानबुद्धिरपि गृहीताविनाभावानन्यापेक्ष'-इत्यादि, तदप्यचारु; अविनाभावनिश्चयस्यैव गुणत्वात् , तदनिश्चयस्य विपरीतनिश्चयस्य च दोषत्वात् । तदेवम् उत्पत्ती प्रामाण्यं गुणापेक्षत्वात् परतः इति स्थितम् ॥ ४० १पृ.४ पं० १९ । २श्लोकवार्तिकगतद्वितीयसूत्रसंबन्धिना ६८ श्लोकेन समोऽस्य भावः । ३ पृ.१० पं० १७॥ ४ पृ० ४ पं० २१॥
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy