SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रामाण्यवादः। निषेत्स्यमानत्वात् । धर्मत्वाच्छक्तेराश्रय इत्यप्ययुक्तम्, असति पारतध्ये परमार्थतस्तदयोगात् । पारतन्यमपि न सतः, सर्वनिराशंसत्त्वात् । असतोऽपि व्योमकुसुमस्येव न, तत्त्वादेव । अनिमिताश्चेमा न देश-काल-द्रव्यनियमं प्रतिपद्येरन् । तद्धि किञ्चित् क्वचिदुपलीयेत न वा यद् यत्र कथञ्चिदायत्तमनायसं वा। सर्वप्रतिबन्धविवेकिन्यश्चेच्छक्तयो नेमाः कस्यचित् कदाचिद् विरमेयुरिति ५प्रतिनियतशक्तियोगिता भावानां प्रमाणप्रमिता न स्यात् । व्यतिरेकाऽव्यतिरेकपक्षस्तु शक्तीनां विरोधाऽनवस्थोभयपक्षोक्तदोषादिपरिहाराद् विनाऽनुद्धोष्यः। अनुभयपक्षस्तु न युक्तः, परस्परपरिहारस्थितरूपाणामेकनिषेधेस्यापरविधाननान्तरीयकत्वात् । न च विहितस्य पुनस्तस्यैव निषेधः, विधि-प्रतिषेधयोरेका विरोधात् । ये त्वाहुः-"उत्तरकालभाविनः संवादप्रत्ययान्न जन्म प्रतिपद्यते शक्तिलक्षणं प्रामाण्यमिति स्वत उच्यते न पुनर्विज्ञानकारणान्नोपजायते" इति, तेऽपि न १०सम्यक प्रचक्षते सिद्धसाध्यतादोषात्, अप्रामाण्यमपि चैवं स्वतः स्यात्, नहि 'तदप्युत्पन्ने ज्ञाने विसंवादप्रत्ययादुत्तरकालभाविनः तत्रोत्पद्यते' इति कस्यचिदभ्युपगमः। यदा च गुणवत्कारणजन्यता प्रामाण्यस्य शक्तिरूपस्य प्राक्तनन्यायादवस्थिता तदा कथमौत्सर्गिकत्वं तस्य दुष्टकारणप्रभवेषु मिथ्याप्रत्ययेष्वभावात् , परस्परव्यवच्छेदरूपाणामेकत्रासम्भवात्? तस्माद् "गुणेभ्यो दोषा णामभावस्तदभावाद् अप्रामाण्यद्वयासत्त्वेनोत्सगोऽनपोदित एवास्ते" इति वचः परिफल्गुप्रायम्। १५इतश्चैतद्वचोऽयुक्तम्, विपर्ययेणाप्यस्योद्घोषयितुं शक्यत्वात् । तथाहि-दोषेभ्यो गुणानामभावस्तदभावात् प्रामाण्यद्वयासत्त्वेनाप्रामाण्यमौत्सर्गिकमास्त इति ब्रवतो न वक्रं वक्रीभवति । किंच, 'गुणेभ्यो दोषाणामभाव' इति न तुच्छरूपो दोषाभावो गुणव्यापारनिष्पाद्यः। तत्र व्यतिरिक्ताऽव्यतिरिक्त विकल्पद्वारेण कारकव्यापारस्यासम्भवात् भवद्भिरनभ्युपगमाञ्च । तुच्छाभावस्याभ्युपगमे वा "भावान्तरविनिर्मक्तोभावोऽत्रानपलम्भवत । अभावः संमतस्तस्य हेतोः किं न समुद्भवः?" ॥ [ ] इति वचो न शोभेत । तस्मात् पर्युदासवृत्त्या प्रतियोगिगुणात्मक एव दोषाभावोऽभिप्रेतः, ततश्च 'गुणेभ्यो दोषाभावः' इति ब्रुवता 'गुणेभ्यो गुणाः' इत्युक्तं भवति।। न च गुणेभ्यो गुणाः कारणानामात्मभूता उपजायन्ते इति, स्वात्मनि क्रियाविरोधात् स्वका२५रणेभ्यो गुणोत्पत्तिसद्भावाच्च । तदभावादप्रामाण्यद्वयासत्त्वमपि प्रामाण्यमभिधीयते; ततश्च गुणेभ्यः प्रामाण्यमुत्पद्यत इत्यभ्युपगमात् परतः प्रामाण्यमुत्पद्यत इति प्राप्तम् । ततश्च स्वार्थावबोधशक्तिरूपप्रामाण्यात्मलामे चेत् कारणापेक्षा, काऽन्या स्वकार्ये प्रवृत्तिर्या स्वयमेव स्यात् ? तेनायुक्तमुक्तम् "लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु" इति। ३० घटस्य जलोद्वहनव्यापारात् पूर्व रूपान्तरेण स्वहेतोरुत्पत्तेर्युक्तं मृदादिकारणनिरपेक्षस्य स्वकार्ये प्रवृत्तिरिति, अतो विसदृशमुदाहरणम् । उत्पत्त्यनन्तरमेव च विज्ञानस्य नाशोपगमात् कुतो लब्धात्मनो वृत्तिः स्वयमेव ? तदुक्तम् "नहि तत् क्षणमप्यास्ते जायते वाऽप्रमाऽऽत्मकम् । येनार्थग्रहणे पश्चाद्याप्रियेतेन्द्रियादिवत् ॥ तेन जन्मैव विषये बुद्धापार उच्यते । तदेव च प्रमारूपं तद्वती करणंच धी"॥ [श्लोवा० सू०४, श्लो०५५-५६] इति । १ सर्वत्र प्रति- अ० । २-निषेधस्य पर-गु० । ३ समानमेतत् शब्दशः, अर्थशोऽपि अनेन पद्येन"तस्माद् गुणेभ्यो दोषाणामभावस्तदभावतः । अप्रामाण्यद्वयासत्त्वं तेनोत्सर्गोऽनपोदितः" [श्लो० वा. सू०२,लो०६५] ४ "पदार्थान्तरेण विनिर्मुक्तः-त्यक्तः-भिन्न इति यावत् ; इत्थंभूतो भाव एव अभावः-न पुनर्भावादतिरिच्यते इत्यर्थः। तत्र दृष्टान्तोऽनुपलम्भः, यथा घटानुपलम्भो घटातिरिक्तस्य पटादेरुपलम्भे पर्यवस्यति, तथा दोषा ( ऽभावो) भावान्तरे पर्यवसायी वाच्यः इत्याशय इति" गु० टि.। ५ “अयमाशयः-न हि गुणेभ्यः प्रामाण्यमुपजायते, किं तर्हि ! दोषाभावः, तेन हि अप्रामाण्यरूपद्वयासत्त्वेन प्रामाण्यं खत एवोपजायते, विरोध्यपगमे खतस्त्वे लापवाद् बाधकाभावाचेति" गु.टि.। ६ स्वकार्यप्र-गु०। ७ पृ. ४ पं० १६ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy