SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेप्रामाण्यस्योत्पत्तावयुक्तम्' इत्युक्तम् , तदप्यसङ्गतम् ; अप्रामाण्योत्पत्तावप्यस्य दोषस्य समानत्वात् । तथाहि-'अतीन्द्रियलोचनाद्याश्रिता दोषाः किं प्रत्यक्षेण प्रतीयन्ते, उतानुमानेन ? न तावत् प्रत्यक्षेण, इन्द्रियादीनामतीन्द्रियत्वेन तद्गतदोषाणामप्यतीन्द्रियत्वेन तेषु प्रत्यक्षस्याप्रवृत्तेः। नाप्यनुमानेन, अनुमानस्य गृहीतप्रतिबन्धलिङ्गप्रभवत्वाभ्युपगमात्, लिङ्गप्रतिबन्धग्राहकस्य च प्रत्यक्षस्यानुमानस्य चात्र विषयेऽसम्भवात्, प्रमाणान्तरस्य चात्रानन्तर्भूतस्यासत्त्वेन प्रतिपादयिष्यमाण- ५ स्वात्' इत्यादि सर्वमप्रामाण्योत्पत्तिकारणभूतेषु लोचनाद्याश्रितेषु दोषेष्वपि समानमिति तेषामप्यसत्त्वात् तदन्वय-व्यतिरेकानुविधानस्यासिद्धत्वादप्रामाण्यमप्युत्पत्तौ स्वतः स्यात् । यदपि 'अथ कार्येण यथार्थोपलब्ध्यात्मकेन तेषामधिगमः' इत्यादि 'यतो न लोकः प्रायशो विपर्ययज्ञानादुत्पादकं कारणमात्रमनुमिनोति किंतु सम्यग्ज्ञानात्' इत्यन्तमभ्यधायि, तदप्यसङ्गतम्, यतो यदि लोकव्यवहारसमाश्रयणेन प्रामाण्याऽप्रामाण्ये व्यवस्थाप्येते तदाऽप्रामाण्यवत् प्रामाण्यमपि १० परतो व्यवस्थापनीयम् । तथाहि-लोको यथा मिथ्याशानं दोषवच्चक्षुरादिप्रभव॑मभिदधाति तथा सम्यग्ज्ञानमपि गुणवच्चक्षुरादिसमुत्थमिति तदभिप्रायादप्रामाण्यवत् प्रामाण्यमप्युत्पत्ती परतः कथं न स्यात् ? तथाहि-तिमिरादिदोषावष्टब्धचक्षुष्को विशिष्टौषधोपयोगावाप्ताक्षिनर्मल्यगुणः केनचित् सुहृदा 'कीदृक्षे भवतो लोचने वर्तेते' इति पृष्टः सन् प्राह-'प्राक सदोषे अभूतामिदानीं समासादितगुणे संजाते' इति । न च नैर्मल्यं दोषाभावमेव लोको व्यपदिशति इति शक्यमभिधा-१५ तुम्, तिमिरादेरपि गुणाभावरूपत्वव्यपदेशप्राप्तेः; तथाच अप्रामाण्यमपि प्रामाण्यवत् स्वतः स्यात् । यदप्यभ्यर्धायि 'न च तृतीयं कार्यमस्ति' इति, तदप्यसम्यक; तृतीयकार्याभावेऽपि पूर्वोक्तन्यायेन प्रामाण्यस्योत्पत्तौ परतः सिद्धत्वात् । यच्च 'अपि चार्थतथाभावप्रकाशनलक्षणं प्रामाण्यम्' इत्यादि 'विश्वमेकं स्यादिति वचः परिप्लवेत' इतिपर्यवसानमभिहितम्, तदपि अविदितपराभिप्रायेण; यतो न परस्यायमभ्युपगमः-विज्ञानस्य चक्षुरादिसामग्रीत उत्पत्तावप्यर्थतथाभावप्रका णस्य प्रामाण्यस्य नैर्मल्यादिसामग्यन्तरात् पश्चादुत्पत्तिः, किंतु गुणवञ्चक्षुरादिसामग्रीत उपजाय. मानं विज्ञानमागृहीतप्रामाण्यस्वरूपमेवोपजायत इति । शानवत् तदव्यतिरिक्तस्वभावं प्रामाण्यमपि परत इति गुणवच्चक्षुरादिसामग्र्यपेक्षत्वादुत्पत्तौ प्रामाण्यस्यानपेक्षत्वलक्षणस्वभावहेतुरसिद्धोऽनपेक्षत्वेस्वरूप इति 'तस्माद्यत एव गुणविकलसामग्रीलक्षणात्' इत्याद्ययुक्तमभिहितम् । 'अर्थतथात्वपरिच्छेदरूपा च शक्तिः प्रामाण्यम्, शक्तयश्च सर्वभावानां स्वत एव भवन्ति' इत्यादि यदमिधा-२५ नम्, तदप्यसमीचीनम् । एवमभिधानेऽयथावस्थितार्थपरिच्छेदशक्तेरप्यप्रामाण्यरूपाया असत्याः केनचित् कर्तुमशक्तेस्तदपि स्वतः स्यात्। यदपि 'एतच्च नैव सत्कार्यदर्शनसमाश्रयणादमिधीयते' इत्यादि 'तदपेक्षा न विद्यते' इतिपर्यन्तममिहितम्, तदपि प्रलापमात्रम् ; यतोऽनेन न्यायेनाप्रामा. ण्यमपि प्रामाण्यवत् स्वत एव स्यात् । तदपि हि विपरीतार्थपरिच्छेदशक्तिलक्षणं न तिमिरादिदोषसङ्गतिमत्सु लोचनादिषु अस्तीति । अपि च, ज्ञानरूपतामात्मन्यसेतीमाविर्भावयन्तीन्द्रियादयो न३० पुनर्यथावस्थितार्थपरिच्छेदशक्तिमिति न किंचिन्निमित्तमुत्पश्यामः । कुतश्चैतदैश्वर्य शक्तिभिः प्राप्त यत इमाः स्वत एवोदयं प्रत्यासादितमाहात्म्याः , न पुनस्तदाधाराभिमता भावविशेषौ इति ? न च तास्तेभ्यः प्राप्तव्यतिरेकाः, यतः स्वाधाराभिमतभावकारणेभ्यो भावस्योत्पत्तावपि न तेभ्य एवो. त्पत्तिमनुभवेयुः। व्यतिरेके, स्वाश्रयैस्ततोऽभवन्त्यो न सम्बन्धमानुयुः, मिन्नानां कार्यकारणभावव्यतिरेकेणापरस्य सम्बन्धस्याभावात्, आश्रयाश्रयिसम्बन्धस्यापि जन्यजनकभीवाभावेऽतिप्रसङ्गतो ३५ १पृ० २ पं० १९ । २ वाऽत्र का। ३ पृ. ३ पं० १५ । ४ पृ० ३ पं० २९। ५ ग्रन्थानम् ३०० श्लो०। ६ प्रभवमित्यभि-गु० । ७-प्यप्रामाण्य-गु०। ८ पृ. ३ पं० ३०। ९पृ. ३ पं० ३१ । १० पृ० ३ पं० ३६ । ११-लक्षणभाव-भां०, कां०, गु०। १२ नैतदू ग्रन्थकारवचनम् , किंतु 'प्रामाण्यस्यानपेक्षत्वलक्षणखभावहेतु' इति वाक्यान्तर्गतस्य 'अनपेक्षत्वलक्षण' इति पदस्य केनचित् 'अनपेक्षत्वखरूप' इत्येवं कृतं विवरण लेखकभ्रमेण ग्रन्थकारवचन मिव जातमिति अस्माकं भाति । १३ पृ. ४ पं०१। १४ पृ. ४ पं०५। १५ स. कार्यप्रदर्शन-वा०, वि०, हा०, अ० विना सर्वत्र । १६ पृ०४ पं०९। १७ पृ. ४ पं० १८। १८ "ज्ञाने"गु० टि०। १९ “पूर्वमिति शेषः" गु.टि.। २० ऐश्वर्यम् 'डे' प्रतावेव, अन्यत्र क्वचित् (वा०, भां०, हा०, वि०) आश्चर्यम् , क्वचित् (का०, अ०, आ०) आश्चर्यम् । २१ "ज्ञानविशेषाः-खोदयं प्रत्यासादितमाहात्म्या इति शेषः" गुटि.। २२-जनकभावभावे वा०। स० त०२
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy