SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रामाण्यवाद। स्याप्रामाण्याशङ्काव्यवच्छेदे एव व्यापारात्-अपरज्ञानानपेक्षणाश्च । तथाहि-अनुत्पन्नबाधके ज्ञाने परत्र बाध्यमानप्रत्ययसाधादप्रामाण्याशङ्का, तस्यां सत्यां तृतीयज्ञानापेक्षा, तश्चोत्पन्नं यदि प्रथमज्ञानसंवादि, तदा तेन न प्रथमज्ञानप्रामाण्यनिश्चयः क्रियते, किंतु द्वितीयज्ञानेन यत् तस्याऽप्रामाण्यमाशङ्कितं तदेव तेनापाक्रियतेः प्रथमस्य तु स्वत एव प्रामाण्यमिति । एवं तृतीयेऽपि ५कथञ्चित संशयोत्पत्ती चतुर्थज्ञानापेक्षायामयमेव न्यायः। तदुक्तम् "एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः। प्रार्थ्यते तावतैवैकं स्वतः प्रामाण्यमश्नुते" ॥ इति [श्लो० वा० सू० २, श्लो० ६१] यत्र च दुष्टं कारणम्, यत्र च बाधकप्रत्ययः-स एव मिथ्याप्रत्ययः-इत्यस्याप्ययमेव विषयः। चतु र्थशानापेक्षा त्वभ्युपगमवादत उक्ता, नतु तदपेक्षाऽपि भावतो विद्यते । अर्थ तृतीयज्ञानं द्विती. १०यज्ञानसंवादि, तदा प्रथमस्याप्रामाण्य निश्चयः-स तु-तत्कृतोऽभ्युपगम्यते एवः किंतु द्वितीयस्य यदप्रामाण्यमाशङ्कितं तत् तेनाऽपाक्रियते, न पुनस्तस्य द्वितीयप्रामाण्यनिश्चायकत्वे व्यापारः। यत्र त्वभ्यस्ते विषयेऽर्थतीत्वशङ्का नोपजायते तत्र बलादुत्पाद्यमाना शङ्का तत्कर्तुरनर्थकारिणीत्यावे. दितं वार्तिककृता "आशङ्केत हि यो मोहादजातमपि बाधकम् । १५ स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत्"॥[ ]इति। न चैतदभिशापमात्रम् , यतोऽशङ्कनीयेऽपि विषयेऽभिशङ्किनां सर्वत्रार्था-ऽनर्थप्राप्तिपरिहारार्थिनामिष्टा-ऽनिष्टप्राप्ति-परिहारसमर्थप्रवृत्त्यादिव्यवहारासम्भवाद् न्यायप्राप्त एव क्षयः, स्वोत्प्रेक्षित. निमित्तनिबन्धनाया आशङ्कायाः सर्वत्र भावात् । प्रेरणाजनिता तु बुद्धिरपौरुषेयत्वेन दोषरहितात् प्रेरणालक्षणाच्छब्दादुपजायमाना लिङ्गा२० ऽऽप्तोक्ता-ऽक्षबुद्धिवत् प्रमाणं सर्वत्र स्वतः । तदुक्तम् "चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः। कारणैर्जन्यमानत्वाल्लिङ्गा-ऽऽप्तोक्ता-ऽक्षबुद्धिवत्" ॥ [श्लो० वा० सू० २, श्लो० १८४ ] इति । तस्मात् स्वतः प्रामाण्यम्, अप्रामाण्यं परत इति व्यवस्थितम् । अतः सर्वप्रमाणानां स्वतः २५ सिद्धत्वाद् युक्तमुक्तम्-'स्वतः सिद्धं शासनं नातः प्रकरणात् प्रामाण्येन प्रतिष्ठाप्यम्' । इदं त्वयुक्तम्-'जिनानाम्' इति, जिनानामसत्वेन शासनस्य तत्कृतत्वानुपपत्तेः; उपपत्तावपि परतःप्रामाण्यस्य निषिद्धत्वादिति ॥ [ उत्तरपक्षः-(१) उत्पत्तौ प्रामाण्यस्य स्वतस्त्वनिरसनम् ] अत्र प्रतिविधीयते, यत्तावदुक्तम्–'अर्थतथाभावप्रकाशको ज्ञातृव्यापारः प्रमाणम्', तदयुक्तम्। ३० पराभ्युपगतज्ञातृव्यापारस्य प्रमाणत्वेन निषेत्स्यमानत्वात् । यदप्यन्यदभ्यर्धायि-'तस्य यथार्थप्रका शकत्वं प्रामाण्यम्, तश्चोत्पत्तौ स्वतः, विज्ञानकारणचक्षुरादिव्यतिरिक्तगुणानपेक्षत्वात् तत्र प्रामाण्यस्योत्पत्तिरविद्यमानस्यात्मलाभः, सा चेन्निर्हेतुका, “देश-काल-स्वभावनियमो न स्यात्" इत्यन्यत्र प्रतिपादितम् । किंच, गुणवच्चक्षुरादिसद्भावे सति यथावस्थितार्थप्रतिपत्तिदृष्टा, तदभावे न दृष्टा इति तद्धेतुका व्यवस्थाप्यते, अन्वय-व्यतिरेकनिबन्धनत्वादन्यत्रापि हेतुफलभावस्य, अन्यथा दोष३५ वच्चक्षुराद्यन्वय-व्यतिरेकानुविधायिनी मिथ्याप्रतिपत्तिरपि स्वतः स्यात् । तथाऽभ्युपगमे ___“वस्तुवाद् द्विविधस्यात्र संभवो दुष्टकारणात्" [श्लो० वा० सू० २, श्लो० ५४] इति वचो व्याहतमनुपज्येत । यदपि 'अत्यक्षाऽक्षाश्रितगुणसद्भावे प्रत्यक्षाप्रवृत्तेः तत्पूर्वकानुमानस्थापि तद्ग्राहकत्वेनाव्यापारात् चक्षुरादिगतगुणानामसत्त्वात् तदन्वय-व्यतिरेकानुविधायित्वं १ अथ तत् तृतीय-भां० । २-तथात्वा-ऽतथात्वाशङ्का-भां० । ३-नर्थप्राप्ति-परिहारसमर्थ-गु० ।' ४ पृ० १, पं. ३०। ५ पृ. २, पं० २। ६ पृ. २, पं० २। ७ "द्विविधस्य-इति मिथ्यात्व-संशयरूपस्य-" भां० टि। ८ "अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वा-ऽज्ञान-संशयः' इति पूर्वार्धम् (अस्य)-भां. टि.
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy