SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे वाप्तिक्षाने तु समुत्पन्नेऽवासफलत्वान्न तत्प्रामाण्यविचारणाय मनः प्रणिदधति, नैतत् सारम्। 'अवाप्तफलत्वात्' इत्यस्यानुत्तरत्वात् । तथाहि-यथा ते विचारकत्वाजलशानावभासिनो जलस्य 'किं सत्त्वम् ? उतासत्त्वम् ?' इति विचारणायां प्रवृत्तास्तथा फलज्ञाननिर्भासिनोऽप्यर्थस्य सत्त्वाऽसत्त्वविचारणायां प्रवर्त्तन्ते: अन्यथा तदप्रवृत्तौ तदवभासिनोऽर्थस्यासत्त्वाशङ्कया तज्ज्ञानस्याऽवस्तुविषयत्वेनाप्रमाणतया शक्यमानस्य न तज्जलावभासिप्रवर्तकज्ञानप्रामाण्यव्यवस्थापकत्वम् ।५ ततश्चान्यस्य तत्समानरूपतया प्रामाण्य निश्चयाभावात् कथम् 'अर्थक्रियार्था प्रवृत्तिनिश्चितप्रामाण्याद् ज्ञानात्' इत्यभ्युपगमः शोभन: ? । किंच, मिन्नजातीयं संवादकशानं पूर्वस्य प्रामाण्यनिश्चायकमभ्युपगम्यमानमेकार्थम्? भिन्नार्थ वा? । यद्येकार्थमित्यभ्युपगमः-स न युक्तः, भवन्मतेना घटमानत्वात् । तथाहि-रूपज्ञानाद् भिन्नजातीयं स्पर्शादिज्ञानम्, तत्र च स्पर्शादिकमाभाति न रूपम्, रूपवाने तु रूपम्-न स्पर्शादिकम्-आभाति, रूप-स्पर्शयोश्च परस्परं भेदः; न चाव-१० यवी रूप-स्पर्शज्ञानयोरेको विषयतयाऽभ्युपगम्यते, येनैकविपयं भिन्नजातीयं पूर्वज्ञानप्रामाण्यव्यवस्थापकं भवेत् । अपि च, एकविषयत्वेऽपि किं येन स्वरूपेण व्यवस्थाप्ये ज्ञाने सोऽर्थः प्रतिभाति, किं तेनैव व्यवस्थापके ? उतान्येन?। तत्र यदि तेनैवेत्यभ्युपगमः, सन युक्तः: व्यवस्थापकस्य तावद्धर्मार्थविषयत्वेन स्मृतिवदप्रमाणत्वेन व्यवस्थापकत्वासम्भवात् । अथ रूपान्तरेण सोऽर्थस्तत्र विज्ञाने प्रतिभातिः नन्वेवं संवाद्य-संवादकयोरेकविषयत्वं न स्यादिति द्वितीय एव १५ पक्षोऽभ्युपगतः स्यात्, स चायुक्ताः सर्वस्यापि भिन्नविषयस्यैकसन्तानप्रभवस्य विजातीयस्य प्रामाण्यव्यवस्थापकत्वप्रसङ्गात्। तथा किं तत् समानकालमर्थक्रियाज्ञानं पूर्वज्ञानप्रामाण्यनिश्चायकम् ? आहोस्विद् भिन्नकालम् ?। यदि समानकालम्-किं साधननिर्भासिज्ञानग्राहि? उत तग्राहि ? इति पुनरपि विकल्पद्वयम् । यदि तग्राहि, तदसत् : ज्ञानान्तरस्य चक्षुरादिज्ञानेष्वप्रतिभासनात्, प्रतिनियतरूपादिविषयत्वेन चक्षुरादिज्ञानानामभ्युपगमात्। अथ तदनाहि, न तर्हि तज्ज्ञानप्रामाण्य-२० निश्चायकम् , तदग्रहे तद्गतधर्माणामप्यग्रहात् । अथ भिन्नकालम्, तदप्ययुक्तम्। पूर्वज्ञानस्य क्षणिकत्वेन नाशादुत्तरकालभाविविज्ञानेऽप्रतिभासनात्, भासने चोत्तरविज्ञानस्यासद्विषयत्वेनाप्रामाण्यप्रसक्तितस्तद्राहकत्वेन न तत्प्रामाण्य निश्चायकत्वम् । तदग्राहकं तु भिन्नकालं सुतरां न तन्निश्चायकमिति न भिन्नकालमप्येकसन्तान भिन्नजातीयं प्रामाण्य निश्चायकमिति न संवादापेक्षः पूर्वप्रमाणप्रामाण्य निश्चयः। तेन ज्ञप्तावपि 'ये यद्भावं प्रत्यनपेक्षाः' इति प्रयोगे हेतो सिद्धिः १२५ व्याप्तिस्तु साध्यविपक्षाऽतन्नियतत्वव्यापकात् सापेक्षत्वानिवर्तमानमनपेक्षत्वं तन्नियतत्वेन व्याप्यते इति प्रमाणसिद्धवे । यतश्च न पूर्वोक्तेन प्रकारेण परतःप्रामाण्यनिश्चयः सम्भवति, ततो 'ये सन्देहविपर्ययविषयीकृतात्मतत्त्वाः' इति प्रयोगे व्याप्त्यसिद्धिः। हेतोश्चासिद्धता सर्वप्राणभृतां प्रामाण्ये सन्देह-विपर्ययाभावात् । तथाहि-शाने समुत्पन्ने सर्वेषाम् 'अयमर्थः' इति निश्चयो भवति, न च प्रामाण्यस्य सन्देहे, विपर्यये वा सत्येप युकः । तदुक्तम् "प्रामाण्यग्रहणात् पूर्व स्वरूपेणैव संस्थितम्। निरपेक्षं स्वकार्य च"[श्लो० वा० सू०२, श्लो०८३] इति । स्वार्थनिश्चयो हि प्रमाणकार्यम्-न च तत् प्रमाणान्तरग्रहणं चापेक्षत इति गम्यते-न चैतत् संशय-विपर्ययविषयत्वे सम्भवतीति ।। __ अथ प्रमाणा-ऽप्रमाणयोरुत्पत्तौ तुल्यं रूपमिति न संवाद-विसंवादावन्तरेण तयोः प्रामा-३५ ण्या-ऽप्रामाण्यनिश्चयः, तदसत्; अप्रमाणे तदुत्तरकालमवश्यंभाविनी बाधक-कारणदोषप्रत्ययौ, तेन तत्राप्रामाण्यनिश्चयः; प्रमाणे तु तयोरभावात् कुतोऽप्रामाण्याशङ्का? । अथ तत्तुल्यरूपे तयोर्दर्शनात् तत्रापि तदाशङ्का, साऽपि न युक्ताः त्रि-चतुरज्ञानापेक्षामात्रतस्तत्र तस्या निवृत्तेः । न च तदपेक्षातः स्वतःप्रामाण्यव्याहतिः, अनवस्था वेत्याशङ्कनीयम्, संवादकज्ञान १ न जलाव-वा०, कां० । २ अत्रैव पृष्टे ८ पटौ उक्तः-'मिन्नार्थम्' इति पक्षः । ३ पूर्वस्यापि-आ०, गु०, भा०। ४ प्रयोगोऽयम्-पृ. २, पं० ५। ५ “व्याप्तिः प्रमाणसिद्धव-इति संटकः"-भांटि०। ६ अयमपि प्रयोगः-पृ० २, पं० १४ । ७ प्रामाण्यं ग्रहणात् पूर्वम्-वा०। ८ मुद्रितश्लोकवार्तिके तु एतद् एवं संपूर्णम्"निरपेक्षं खकार्येषु गृह्यते प्रत्ययान्तः । न च तत्र प्रमाणान्तरं ग्रहणमपेक्षते-वा०, गु० । १०"निरपेक्ष खकार्ये" इत्यस्यैतत् तात्पर्यम् । ११-भाविबाधक-गु०। ३०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy