________________
प्रामाण्यवाद।
इति । तत्र योकार्थविषयमिति पक्षः, सोऽनुपपन्नः एकार्थविषयत्वे संवाद्य-संवादकयोरविशेषात् । तथाहि-एक विषयत्वे सति यथा प्राक्तनमुत्तरकालभाविनो विज्ञानस्यैकसन्तानप्रभवस्य समानजातीयस्य न संवादकं तथोत्तरकालभाव्यपि न स्यात् । किंच, तदुत्तरकालभावि समानजातीयमेकविषयं कुतः प्रमाणत्वेन सिद्धम्-येन प्रथमस्य-प्रामाण्यं निश्चाययति? तदुत्तरका५लभाविनोऽन्यस्मात् तथाविधादेवेति चेत्, तर्हि तस्याप्यन्यस्मात् तथाविधादेव इत्यनवस्था । अथोत्तरकालभाविनस्तथाविधस्य प्रथमप्रमाणात् प्रामाण्यनिश्चयः, तर्हि प्रथमस्योत्तरकालभाविनः प्रमाणात तन्निश्चयः, उत्तरकालभाविनोऽपि प्रथमप्रमाणादिति तदेवेतरेतराश्रयत्वम् । अथ प्रथमो-त्तरयोरेकविषयत्व-समानजातीयत्वै-कसन्तानत्वाविशेषेऽप्यस्त्यन्यो विशेषः, यतो विशेषाद् उत्तरं प्रथमस्य प्रामाण्यं निश्चाययति, न पुनः प्रथममुत्तरस्य; स च विशेषः-उत्त१०रस्य कारणशुद्धिपरिज्ञानानन्तरभावित्वम् । ननु कारणशुद्धिपरिज्ञानमर्थक्रियापरिज्ञानमन्तरेण
न सम्भवति, तत्र च चक्रकदोषः प्राक् प्रतिपादित इति नार्थक्रियाज्ञानसम्भव:: सम्भवे वा तत एव प्रामाण्य निश्चयस्य संजातत्वाद् व्यर्थमुत्तरकालभाविनः कारणशुद्धिज्ञानविशेषसमन्वितस्य पूर्वप्रामाण्यावगमहेतुत्वकल्पनम्; तन्न समानजातीयमेकसन्तानप्रभवमेकार्थमु. त्तरज्ञानं पूर्वज्ञानप्रामाण्यनिश्चायकम् । अथ भिन्नार्थ तद् ज्ञानं पूर्वज्ञानप्रामाण्यनिश्चायकम् , तद१५प्ययुक्तम् । एवं सति शुक्तिकायां रजतज्ञानस्य तथाभूतं शुक्तिकाशानं प्रामाण्यनिश्चायकं स्यात
तन्न समानजातीयमुत्तरज्ञानं पूर्वज्ञानस्य प्रामाण्यनिश्चायकम् । अथ भिन्नजातीयं प्रामाण्यनिश्चायकमिति पक्षः, तत्रापि वक्तव्यम्-किम अर्थक्रियाज्ञानम् ? उत अन्यत् ?। तत्रान्यदिति न वक्तव्यम्, घटज्ञानस्यापि पटज्ञानप्रामाण्यनिश्चायकत्वप्रसङ्गात् । अथार्थक्रियाशानं संवादकमित्यभ्युपगमः,
अयमपि न युक्तः, अर्थक्रियाज्ञानस्यैव प्रामाण्यनिश्चयाभावे प्रवृत्त्याद्यभावतश्चक्रकदोषेणासम्भवात्। २० अथ प्रामाण्यनिश्चयाभावेऽपि संशयादपि प्रवृत्तिसम्भवान्नार्थक्रियाज्ञानस्यासम्भवः, तर्हि प्रामाण्यनिश्चयो व्यर्थः। तथाहि-प्रामाण्यनिश्चयमन्तरेण प्रवृत्तः 'विसंवादभाग् मा भूवम्' इत्यर्थः क्रियार्थी प्रामाण्यनिश्चयमन्वेषते, सा च प्रवृत्तिस्तन्निश्चयमन्तरेणापि संजातेति व्यर्थः प्रामाण्यनिश्चयप्रयासः। किंच, अर्थक्रियाज्ञानस्यापि प्रामाण्यनिश्चायकत्वेनाभ्युपगम्यमानस्य कुतः प्रामाण्यनिश्चयः? तदन्यार्थक्रियाज्ञानादिति चेत् , अनवस्था। पूर्वप्रमाणादिति चेत्, अन्योऽन्याश्रयदोषः २५ प्राक् प्रदर्शितोऽत्रापि । अथार्थक्रियाज्ञानस्य स्वत एव प्रामाण्यनिश्चयः, प्रथमस्य तथाभावे प्रदे॒पः किंनिबन्धनः ? । तदुक्तम्
"यथैव प्रथमं ज्ञानं तत्संवादमपेक्षते । संवादेनापि संवादः पुनर्मूग्यस्तथैव हि ॥ [ कस्यचित्तु यदीष्येत स्वत एव प्रमाणता। प्रथमस्य तथाभावे प्रद्वेषः केन हेतुना ? ॥ [ श्लो० वा० सू० २, श्लो० ७६] संवादस्याथ पूर्वेण संवादित्वात् प्रमाणता। अन्योऽन्याश्रयभावेन न प्रामाण्यं प्रकल्पते"॥[
इति । अथापि स्यादर्थक्रियाशानमर्थाभावे न दृष्टमिति न तत् स्वप्रामाण्यनिश्चयेऽन्यापेक्षम्, साध.
नशानं तु अर्थाभावेऽपि दृष्टमिति तत् प्रामाण्यनिश्चयेऽर्थक्रियाज्ञानापेक्षमिति, एतदप्यसङ्गतम्। ३५ अर्थक्रियाज्ञानस्याप्यर्थमन्तरेण स्वप्नदशायां दर्शनात् । न च स्वप्न-जाग्रहशाऽवस्थयोः कश्चिद्विशेषः
प्रतिपादयितुं शक्यः। अथार्थक्रियाज्ञानं फलावाप्तिरूपत्वान्न स्वप्रामाण्यनिश्चयेऽन्यापेक्षम्, साधन. विनिर्भासि पुनर्ज्ञानं नार्थक्रियावाप्तिरूपं भवति तत् स्वप्रामाण्यनिश्चयेऽन्यापेक्षम्। तथाहिजलावभासिनि ज्ञाने समुत्पन्ने पाना-ऽवगाहनाधर्थिनः किमेतज्ज्ञानावभासि जलमभिमतं फलं साधयिष्यति, उत न' इति जाताशङ्काः तत्प्रामाण्यविचारं प्रत्याद्रियन्ते; पाना-ऽवगाहनार्थी
१ प्रमाणमेव गु० । २ पृ. ५-५० २५। ३ ग्रन्थानम् श्लो. २०० । ४ अस्मिन्नेव पृष्ठ पं०७। ५ स्याद्वादरत्नाकरे तत्प्रणेत्रा एतदेव लोकत्रयं “यदाह भट्टः"-(पृ. १२४ पप्ती ५) इति निर्दिश्य उदलेखि, तथापि मुद्रिते कुमारिलभट्टकृते श्लोकवार्तिके एक एव मध्यमः श्लोको लब्धः। ६-वस्थाया:-कां०, गु०। ७ पुनर्जानमर्थक्रियावाप्तिरूपं न भवति तत्-हा।