SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे र्तते, तदपि स्वकारणगुणज्ञानापेक्षमित्यनवस्थासमवतारो दुर्निवार इति । अथ प्रमाणकारणगुणज्ञानं स्वकारणगुणज्ञानानपेक्षमेव प्रमाणकारणगुणपरिच्छेदलक्षणे स्वकार्ये प्रवर्त्तते, तर्हि प्रमाणमपि स्वकारणगुणज्ञानानपेक्षवार्थपरिच्छेदलक्षणे स्वकार्ये प्रवर्तिष्यत इति व्यर्थ प्रमाणस्य स्वकारणगु. णशानापेक्षणमिति न स्वकार्ये प्रवर्त्तमानं प्रमाणमन्यापेक्षम् । तदुक्तम् "जातेऽपि यदि विज्ञाने तावन्नार्थोऽवधार्यते । यावत् कारणशुद्धत्वं न प्रमाणान्तराद् गतम् ॥ तत्र ज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात् । यावद्धि न परिच्छिन्ना शुद्धिस्तावदसत्समा ॥ तस्यापि कारणाशुद्धेर्न ज्ञानस्य प्रमाणता । तस्याप्येवमितीत्थं तुन क्वचिद्यवतिष्ठते" ॥ इति [श्लो० वा० सू० २, श्लो०४९-५१] १० तेन 'ये प्रतीक्षितप्रत्ययान्तरोदयाः' इति प्रयोगे हेतोरसिद्धिः । तस्मात्-‘स्वसामग्रीत उपजायमानं प्रमाणमर्थयाथात्म्यपरिच्छेदशक्तियुक्तमेवोपजायत इति स्वकार्येऽपि प्रवृत्तिः स्वतः इति स्थितम् ॥ [ पूर्वपक्षः-(३) निश्चये प्रामाण्यस्य स्वतस्त्वसाधनम् ] नापि प्रमाणं प्रामाण्यनिश्चयेऽन्यापेक्षम् । तद्ध्यपेक्षमाणं किं स्वकारणगुणानपेक्षते ? आहोस्वित् १५ संवादम् ? इति विकल्पद्वयम् । तत्र यदि स्वकारणगुणानपेक्षत इति पक्षः कक्षीक्रियते, सोऽसंगतः; स्वकारणगुणानां प्रत्यक्ष-तत्पूर्वकानुमानाग्राह्यत्वेनासत्त्वस्य प्रागेव प्रतिपादनात् । अथामिधीयतेयो यः कार्यविशेषः स स गुणवत्कारणविशेषपूर्वकः, यथा प्रासादादिविशेषः, कार्यविशेषश्च यथावस्थितार्थपरिच्छेद इति स्वभावहेतुरिति, एतदसम्बद्धम् ; परिच्छेदस्य यथावस्थितार्थपरिच्छेदत्वासिद्धेः । तथाहि-परिच्छेदस्य यथावस्थितार्थपरिच्छेदत्वं किं शुद्धकारकजन्यत्वेन? उत २० संवादित्वेन ? आहोस्विद् बाधारहितत्वेन? उतस्विद् अर्थतथात्वेन ? इति विकल्पाः। तत्र यदि गुणवत्कारणजन्यत्वेनेति पक्षः, स न युक्तः, इतरेतराश्रयदोषप्रसङ्गात् । तथाहि-गुणवत्कारणजन्यत्वेन परिच्छेदस्य यथावस्थितार्थपरिच्छेदत्वम्, तत्परिच्छेदत्वाच्च गुणवत्कारणजन्यत्वमिति परिस्फुटमितरेतराश्रयत्वम् । अथ संवादित्वेन ज्ञानस्य यथावस्थितार्थपरिच्छेदत्वं विज्ञायते, एतदप्यचारु; चक्रकप्रसङ्गस्यात्र पक्षे दुर्निवारत्वात् । तथाहि-न यावद् विज्ञानस्य यथावस्थितार्थपरिच्छेद-२५ लक्षणो विशेषः सिध्यति, न तावत् तत्पूर्विका प्रवृत्तिः संवादार्थिनाम्, यावच्च न प्रवृत्तिर्न तावदर्थक्रियासंवादः, यावच्च न संवादोन तावद् विज्ञानस्य यथावस्थितार्थपरिच्छेदत्वसिद्धिरिति चक्रकप्रसङ्गः प्रागेव प्रतिपादितः। अथ बाधारहितत्वेन विज्ञानस्य यथार्थपरिच्छेदत्वमध्यवसीयते, तदप्यसङ्गतम्; स्वाभ्युपगमविरोधात् । तदभ्युपगमविरोधश्च-बाधाविरहस्य तुच्छस्वभावस्य सत्त्वेन, ज्ञापकत्वेन वाऽनङ्गीकरणात् ; पर्युदासवृत्त्या तदन्यज्ञानलक्षणस्य तु विज्ञानपरिच्छेदविशेषाविषय-३० त्वेन तयवस्थापकत्वानुपपत्तेः। अथार्थतथात्वेन यथावस्थितार्थपरिच्छेदलक्षणो विशेषो विज्ञानस्य व्यवस्थाप्यते, सोऽपि न युक्तः, इतरेतराश्रयदोषप्रसङ्गात् । तथाहि-सिद्धेऽर्थतथाभावे तद्विज्ञानस्यार्थतथाभावपरिच्छेदत्वसिद्धिः, तत्सिद्धेश्चार्थतथाभावसिद्धिरिति परिस्फुटमितरेतराश्रयत्वम् । तन्न कारणगुणापेक्षा प्रामाण्यज्ञप्तिः । अथ संवादापेक्षः प्रामाण्यविनिश्चयः, सोऽपि न युक्तः, यतः संवादकं ज्ञानं किं समानजातीयमभ्युपगम्यते? आहोस्विद् भिन्नजातीयम् ? इति पुनरपि विकल्प-३५ द्वयम् । तत्र यदि समानजातीयं संवादकमभ्युपगम्यते, तदाऽत्रापि वक्तव्यम्-किमेकसन्तानप्रभवम् ? भिन्नसन्तानप्रभवं वा? । यदि भिन्नसन्तानप्रभवं समानजातीयं ज्ञानान्तरं संवादकमित्यभ्युपगमः, अयमप्यनुपपन्न: अतिप्रसङ्गात् । अतिप्रसङ्गश्च-देवदत्तघटविज्ञानं प्रति यज्ञदत्तघटान्तरविज्ञानस्यापि संवादकत्वप्रसक्तेः। अथ समानसन्तानप्रभवं समानजातीयं ज्ञानान्तरं संवादकमभ्युपगम्यते, तदात्रापि वक्तव्यम्-किं तत् पूर्वप्रमाणाभिमतविज्ञानगृहीतार्थविषयम् ? उत भिन्नविषयम् ? ४० १ प्रयोगश्चायम्-पृ० २, पं० १२ । २ पृ०२-६० २० । ३-वस्थितपरिच्छेदत्वम्-वा०, भा०, का०, गु०। ४ पृ. ४-५० २८। ५ चाऽ-भां।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy