SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ १२ प्रामाण्यवादः । [ उत्तरपक्ष:- ( २ ) कार्ये प्रामाण्यस्य स्वतस्त्वनिरसनम् ] यदयुक्तम् 'नापि स्वकार्ये प्रवर्तमानं प्रमाणं निमित्तान्तरापेक्षम्' इति, तदप्यसंगतम् ; यतो यदि कार्योत्पादनसामग्रीव्यतिरिक्तनिमित्तानपेक्षं प्रमाणमित्युच्यते तदा सिद्धसाधनम् । अथ सामग्र्येकदेशलक्षणं (ण) प्रमाणं (ण) निमित्तान्तरानपेक्षम्, तदप्यचारु; एकस्य जनकत्वासंभवात् - ५" न ह्येकं किंचिजनकम्, सामग्री वै जनिका" [ ] इति न्यायस्यान्यत्र व्यवस्थापितत्वात् । किंच, नार्थपरिच्छेदमात्रं प्रमाणकार्यम्, अप्रमाणेऽपि तस्य भावात् । किं तर्हि ? अर्थतथात्वपरिच्छेदः, स च न ज्ञानस्वरूपकार्यः; भ्रान्तज्ञानेऽपि स्वरूपस्य भावात् तत्रापि सम्यगर्थपरिच्छेदः स्यात् । अथ स्वरूपविशेषकार्यो यथावस्थितार्थपरिच्छेदः इति नातिप्रसङ्गस्तर्हि स स्वरूपविशेषो वक्तव्यःकिम पूर्वार्थविज्ञानत्वम् उत निश्चितत्वम्, आहोस्विद् बाधारहितत्वम् उतस्विद् अदुष्ट१० कारणारब्धत्वम्, किं वा संवादित्वम् इति ? तत्र यद्यपूर्वार्थविज्ञानत्वं विशेषः, स न युक्तः; तैमिरिकज्ञानेऽपि तस्य भावात् । अथ निश्चितत्वम्, सोऽप्ययुक्तः, परोक्षज्ञानवादिनो भवतोऽभि प्रायेणासंभवात् । अथ बाधारहितत्वं विशेषः, सोऽपि न युक्तः; यतो बाधाविरहस्तत्कालभावी विशेषः, उत्तरकालभावी वा ? न तावत् तत्कालभावी, मिथ्याज्ञानेऽपि तत्कालभाविनो बाधाविरहस्य भावात् । अथोत्तरकालभावी, तत्रापि वक्तव्यम् - किं ज्ञातः स विशेषः, उत अज्ञातः ? तत्र १५न अज्ञातः, अज्ञातस्य सत्त्वेनाप्यसिद्धत्वात् । अथ ज्ञातोऽसौ विशेषः, तत्रापि वक्तव्यम् - उत्तरकालभावी बाधाविरहः किं पूर्वज्ञानेन ज्ञायते, आहोस्विदुत्तरकालभाविना ? तत्र न तावत् पूर्वज्ञानेनोत्तरकालभावी बाधाविरहो ज्ञातुं शक्यः, तद्धि स्वसमानकालं संनिहितं नीलादिकमवभासयतु, न पुनः 'उत्तरकालमप्यत्र बाधकप्रत्ययो न प्रवर्त्तिष्यते' इत्यवगमयितुं शक्नोति; पूर्वमनुत्पन्नबाधकानामप्युत्तरकालबाध्यत्वदर्शनात् । अथोत्तरज्ञानेन ज्ञायते, ज्ञायताम्, किंतूत्तरकालभावी बाधा२० विरहः कथं पूर्वज्ञानस्य विनष्टस्य विशेषो भिन्नकालस्य विनष्टं प्रति विशेषत्वायोगात् ? किंच, ज्ञायमानत्वेऽपि केशोण्डुकादेरसत्यत्वदर्शनाद् बाधाऽभावस्य ज्ञायमानत्वेऽपि कथं सत्यत्वम् ? तज्ज्ञानस्य सत्यत्वादिति चेत्, तस्य कुतः सत्यत्वम् ? न प्रमेयसत्यत्वात्, इतरेतराश्रयदोषप्रसङ्गात् । अपराधाऽभावज्ञानादिति चेत्, तत्राप्यपरबाधाऽभावज्ञानादित्यनवस्था । अथ संवादादुत्तरकालभावी बाधाविरहः सत्यत्वेन ज्ञायते तर्हि संवादस्याप्यपरसंवादज्ञानात् सत्यत्वसिद्धिः, तस्या२५प्यपरसंवादज्ञानादित्यनवस्था । किंच, यदि संवादप्रत्ययादुत्तरकालभावी बाधाऽभावो ज्ञायमानो 1 1 विशेषः पूर्वज्ञानस्याभ्युपगम्यते तर्हि ज्ञायमानस्वविशेषापेक्षं प्रमाणं स्वकार्ये यथावस्थितार्थपरिच्छेदलक्षणे प्रवर्त्तत इति कथमनपेक्षत्वात् तत्र स्वतः प्रामाण्यम् ? अपि च बाधाविरहस्य भवदभ्युपगमेन पर्युदासवृत्त्या संवादरूपत्वम्, 'बाधावर्जितं च ज्ञानं स्वकार्येऽन्यानपेक्षं प्रवर्त्तते' इति ब्रुवता संवादापेक्षं तत् तत्र प्रवर्त्तत इत्युक्तं भवति । किंच, किं विज्ञानस्य स्वरूपं बाध्यते, आहो३० स्वित् प्रमेयम्, उतार्थक्रिया इति विकल्पत्रयम् । तत्र यदि विज्ञानस्य स्वरूपं बाध्यत इति पक्षः, स न युक्तः; विकल्पद्वयानतिवृत्तेः । तथाहि - विज्ञानं बाध्यमानं किं स्वसत्ताकाले बाध्यते, उत उत्तकालम् ? तत्र यदि स्वसत्ताकाले बाध्यत इति पक्षः, स न युक्तः तदा विज्ञानस्य परिस्फुटरूपेण प्रतिभासनात् । न च विज्ञानस्य परिस्फुटप्रतिभासिनोऽभावस्तदैवेति वक्तुं शक्यम्, सत्याभिमतविज्ञानस्याप्यभावप्रसङ्गात् । अथोत्तरकालं बाध्यत इति पक्षः, सोऽपि न युक्तः; उत्तरकालं तस्य ३५ स्वत एव नाशाभ्युपगमाद् न तत्र बाधकव्यापारः सफल:- "देवरक्ता हि किंशुकाः” । अथ प्रमेयं बाध्यते इत्यभ्युपगमः सोऽप्ययुक्तः यतः प्रमेयं बाध्यमानं किं प्रतिभासमानेन रूपेण बाध्यते, उतप्रतिभासमानरूपसहचारिणा स्पर्शादिलक्षणेन इति विकल्पनाद्वयम् । तत्र यदि प्रतिभासमानेन १ पृ० ४ पं० २५ । १२ स च ज्ञानस्वरूप भां०, कां०, हा०, मां० । ३ ग्रन्थाप्रम् ४०० श्लो० । ४ " वेदैकदेशविधितो यद् ज्ञानमुपजायते । अतः परोक्षं तत् सर्वं प्रमाणं दोषवर्जितम् ॥ पौरुषेयत्वाद् अतोऽन्यद् विचि - कित्सात्मकं भवेदित्याशयः " गु० टि० । ५ " रञ्जनव्यापूर्ति मा त्वं कुरु रजक ! रञ्जने । बहवः सन्ति सुलभा दैवरक्ता हि किंशुकाः ॥ इत्यादि इदं रजकं प्रति विरहिणीवाक्यम्" गु० टि० । ६ पृ० १३ पं० २ लिखितं 'अथ अप्रतिभासमानेन रूपेण' इत्युलेखम्, केवलं 'वा०' प्रतौ च 'उत प्रतिभासमानरूपसहचारिणा' इति लभ्यमानं पाठं समीक्ष्य ज्ञायतेऽस्माभिर्यदत्र 'अप्रतिभासमानेन प्रतिभासमानरूपसहचारिणा' इति पाठो भवेत् स एव च पाठोऽत्र सुसंगतः ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy