SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३२९ हितावस्थयोरस्य स्वभावभेदः प्रत्ययान्तरापास्वकार्यजननस्वभावतायाः सर्वदा भावात् , असार मेतत् ; यतः प्रत्ययान्तरसन्निधापि(धानेऽपि) स्वरूपेणैवास्य कार्यकारिता; तच्च प्रागप्यस्ति प्रत्ययान्तरापेक्षायाश्च ततो लभ्यस्यात्मातिशयस्याभावतोऽयोगात् उपकारलक्षणत्वादपेक्षायाः अन्यथाऽतिप्रसक्तेः । तत्सन्निधानस्यासन्निधानतुल्यत्वाच केवल एव कार्य किं न करोति ? अकुर्वश्च केवल: सहितावस्थायां च कुर्वन् कथं न भिन्नस्वभावो भवेत् ? अपि च, यदि सहकार्यपेक्षा कार्यजननस्व- ५ भावता तस्य सर्वदा अस्ति तदा सर्वदा कार्योत्पत्तिप्रसक्तिः । अथ सहकारिसन्निधान एव तत्स्वभावता कथं न स्वभावभेदा(दात्) वस्तुभेदं(दः) स्वभावस्यैव वस्तुत्वात् ? तस्मात् सहितावस्थायाः स्वरूपेणोपकारकस्य प्रागपि तत्स्वभावत्वे कार्यक्रियाप्रसङ्गानाक्षणिकस्य क्रमेण कार्यक्रियासम्भव ति (इति) न क्रमयोगः। यौगपद्यमपि तस्याऽसङ्गतम् द्वितीयादिक्षणेषु तावत एव कार्यकलापस्योदयप्रसङ्गात् हेतोस्तजननस्वभावस्याप्रच्युतेः । सन्निहितसकलकारणानां वा(चा)नुदेयोऽयुक्तः प्रथ-१० मक्षणेऽपि तद्भावापत्तेरिति क्रम-योगपद्यायोगादक्षणिकानामा(र्थ)क्रियासामर्थ्य विरहलक्षणमसत्त्वमायातमिति संत्वलक्षणः स्वभावहेतुः क्षणिकतायां बाधकप्रमाणबलानिश्चिततादात्म्यो विशेषलक्षणभाक् कथं न प्रतीतः? अथाक्षणिकानामिव क्षणक्षयिणामप्यर्थक्रियासामर्थ्यलक्षणं सत्वमनुपपन्नमेव, क्रमायोगस्य तत्रापि तदवस्थत्वात । अतो न क्षणिका अपि परैरं(र)नाधीयमानस्वरूपभेदाः सामर्थ्यक्रिया-१५ प्रक्रान्तप्रकारमुत्पादयितुं शक्ताः, न च प्रतिक्षणोदयं विभ्राणाः परस्परतो विशेपमासादयन्ति भावभेदप्रसङ्गात् । तथाहि-असौ विशेषस्तेषां प्रागुत्पत्तेः, पश्चाद्वा? न तावत् प्राक् तेषामेव तदाऽसत्त्वात् । पश्चात् तत्स्वरूपस्याकार्यत्वात् तदुपहितानुपहितक्षणानामविवेकादिति न सहकारिमिरुपकारः । ततो निर्विशेषाणां न क्रम-योगपद्याभ्यामर्थक्रियाकारित्वलक्षणं सत्त्वम् । तदुक्तं च"कः शोभेत वेदनेवं यदि न स्यादहीकता। २० अशा(श)ता वा यतः सर्व क्षणिकेष्वपि तत्समम्" ॥ [ "विशेपहेतवस्तेषां प्रत्यया न कथञ्चन । नित्यानामिव युज्यन्ते क्षणानामविवेकता" ॥ "क्रमेण युगपञ्चैव यतस्तेऽर्थक्रियाकृतः। न भवन्ति ततस्तेषां व्यर्थः क्षणिकताश्रमः" ॥ [ ] इति २५ तदयं सत्ताहेतुरसाधारणानकान्तिकः क्षणिकाऽक्षणिकयोरभावात्, प्रकारान्तराभावाच्च न ताभ्यां व्यतिरिच्यत इति संशयहेतुस्तयोरिति, असदेतत्; यतो नैवमुपकारः क्षणिकानामभ्युपगम्यते । तथाहि-उपकारः समग्रकारणाधीनविशेषान्तरविशिष्टक्षणान्तरजननम्; तच्च कथममिन्नकालेषु परस्परं क्षणिकेषु भावेषु भवेत् काय-कारणयाः परस्परकालपरिहारणावस्थानां(नात्) ततः सामग्र्या एवं जनकत्वादेकस्य जनकत्वाविरोधादव्यवधानदेशाः समग्र(?) एव प्रत्येकमितरेतर-३० सहकारिणः खं खं क्षणान्तरं विशिष्टमारभन्ते तदपि चोत्तरोत्तरं तथैव तथैवान्यविशिष्ट कारणमेदाद् भेदसिद्धेः । यथा चक्षुरादयो बीजादयश्चातकि(श्चाऽकि)श्चित्करेभ्यः सन्निहितेभ्योऽपि न १-क्षत्वास्व-हा०वि०। २-ताया स-आव्हा०वि०। ३-रसन्नेपि स्वरूपेणेवा-हा०वि०।-रसतपि स्वरूपेणेवा-आ० । रसन्नपि स्वरूपेणैवा-भां० मा० । “यतः प्रत्ययान्तरसन्निधानेऽपि खरूपेणैवास्य कार्यकारिता"-प्रमेयक पृ०४ द्वि. पं०३। ४-याचा त-आ०। ५-थाति धानस्या-मां०। ६सका-आ. विना। -चमेस्तु भेदस्त्वभावस्येवस्तुभेदस्त्वभावस्यैव वस्तुत्वात् तस्मात् वा. बा० । ८-स्थाया स्व-वा० बा०। ९-मयोगा यौ-वा० बा०। १०-च्युतेऽस-वा. बा.। ११-दयो यु-वा. बा. विना। १२-काना अपि परैरनार्थ्यविरह-वा० बा०। १३-सत्ताल-वा० बा० हा० । सत्वाल-वि० । १४ अथ क्ष-आ. विना । १५ परैरनीयमान-वा. बा. विना। १६-कारित्वं ल-वा. बा. भां० मां। -कारित्वा ल-हा०वि०। १७-दन्नेव वा० बा० भां० मा० हा०। १८-नामिद यु-आ० हा०वि०। १९ व्यतिरिक्तत-वा. बा. विना। २०-काराः आ० हा०वि०। २१-मनाका-मां०। २२-तरंज-आ० हा. वि.। २३-स्पर क्ष-भा० मां. हा०। २४-षु भवेत् वा. बा० विना। २५-वस्थां ततः वा. बा०। २६-नदेश्य: आ० हा०वि०। २७-रभते हा०वि०। २८-तरं तथैवान्य-वि०। २९- श्वात किञ्चिभा० मा० आ० ।-श्रात् किञ्चि-वा. बा.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy