SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३२८ प्रथमे काण्डेइति पश्चादप्यकारकः पूर्वावस्थायामिति(मिव) । तस्मादेवातिशया(यात्) कार्यस्योत्पत्तेस्तत्र भावे कारकव्यपदेशो विकल्परचित एव भवेत् । अथ द्वितीयो विकल्पोऽभ्युपगमविषयः, सोऽपि न युकः, यतो न नित्यानामेककार्य प्रतिनियमलक्षणं सहकारित्वमस्माभिरपहृयते किन्तु अक्षणिकत्वे प्राक् पश्चात् पृथग्भावसम्भवात् ५ कार्यस्य तथा क्रियाप्रसङ्गन 'सहैव कुर्वन्ति' इति सहकारित्वनियमो न युक्तिसङ्गतो भवेत् यतो न ति (ते) साहित्येऽपि पररूपणैव कार्यकारिणः स्वयमकारकाणामपरयोगेऽपि तत्कारित्वासम्भवात् सम्भवे वा परमार्थतः कार्य निर्वतको भवेत्, स्वात्मनि तु कारकत्वव्यपदेशो विकल्पनिर्मित एव भवेत् । एवं च नास्यानुपकारिणो भावं कार्यमपक्षेतेति तद्विकलेभ्य एव सहकारिभ्यस्तत् समुत्पद्येत अथवा तेभ्योऽपि न भवेत् स्वयं तेपामप्यकारकत्वात् पररूपेणैव कर्तृत्वाभ्युपग१०मात् । अतः सर्वेषां स्वयमपकर्तृकत्वा(मकर्तृत्वात् ) पररूपेणाप्यकर्तृत्वात् सर्वथा कर्तृत्वो. च्छेदतो न कुतश्चित् किञ्चिदुत्पद्यत । तस्मात्' स्वरूपेणैव कार्यस्वभावाः कर्त्तार इति न कदोचित् तक्रियाविरतिरिति कुन एकार्थक्रियाप्रतिनियमस्वरूपमक्षणिकानां सहकारित्वम् ? सामग्रीजन्यस्वभावतया कार्यस्य तस्याश्चापरापरप्रत्यययोगरूपतयायोग( याऽयोगे) प्रत्येक तक्रियास्वभावत्वेऽप्यनुत्पत्तिरिति चेत्, व्याहतमेतत्; यतोऽयमेकोऽपि क्रमभाविकार्योत्पादने १५समर्थः ततः कथमेपां भिन्नकालापरापरप्रत्यययोगलक्षणानेकसामग्रीजन्यस्वभावता? एकेनापि तेन तजननसामर्थ्य (y) विभ्राणेन तानि जनयतन्मानि(जनयितव्यानि) न ह्यन्यथा केवलस्य तजनन· स्वभावता सिध्यति, तस्याः प्रा(स्याः कार्यप्रादुर्भावानुमीयमानस्वरूपत्वात् कार्याणि च कारणान्तराण्यपेक्षमाणानि कथमयमुपेक्षते? अनादृत्य तानि हठादेव जनयेत् कार्याणि । यो हि यन्न जनयति नासौ तजननस्वभावः, न चायं केवलः कदाचिदप्युत्तरोत्तरकालभोवीनि प्रत्ययान्तरापेक्षाणि कार्याणि २०जनयतीति तत्स्व(तिन तत्स्व )भावो भवेत् । अतत्स्वभावश्च प्रत्ययानन्त(यान्तरसन्निधानेऽध्यत्यतरूपो नैव जनयेत् । स च केवलोऽपि तज्जननस्वभाव इति ततस्तेषामुत्पत्तिं ब्रु(ब)वीषि कार्याणि च सामग्रीजन्यस्वरूपतया सामग्र्यन्तराणि अपेक्षन्त इति ततः केवलादनुत्पत्तिं वदसि एते चोत्पत्ति-अनुत्पत्ती तर्जन्यत्वातजन्य(न्यत्व )स्वभावते विरुद्ध कथमेकत्र स्याताम् ? अथ कारण(णैः) हेत्वन्तरापेक्षकार्यजननस्वभावोऽयमुत्पादित इति केवलो न जनयति, न च सहकारि सहिताऽस. (ब)वीषि कार्याल ततः केवलाद यत्व)स्वभाव १ "विभिन्नातिशयात कार्योत्पत्ती चात्र कारकव्यपदेशोऽपि कल्पनाशिल्पिकल्पित एव"-प्रमेयक पृ० ४ प्र. पं०६। २-कार्य आ०। ३ "एकार्थकारित्वेन त्वेषां सहकारित्वं नास्माभिः प्रतिक्षिप्यते किन्तु अपरिणामित्वे तेषां प्राक् पश्चात् पृथग्भावावस्थायामपि कार्यकारित्वप्रसङ्गतः सहेव कुर्वन्तीति नियमो न घटते"-प्रमेयक० पृ. ४ प्र. पं०७। ४-न्ति स-वा. बा०। ५ "न खलु साहिलेऽपि भावाः पररूपेण कार्यकारिणः खयमकारकाणामन्यसन्निधानेऽपि तत्कारित्यासंभवात्"-प्रमेयक० पृ. ४ प्र० पं० ८। ६ परमार्थः आ० । “संभवे वा पर एवं परमार्थतः कार्यकारको भवेत्"-प्रमेयक० पृ. ४ प्र. पं० ९। ७ एव च भां. मां०। ८-स्यानुपकारिणा आ० हा० वि० ।-स्यानुसारिणो वा. बा० । ९ भावकार्य-वा० बा० हा० । “खात्मनि तु कारकव्यपदेशो विकल्पकल्पितो भवेत् तथा च अन्यस्यानुपकारिणो भावमनपेक्ष्यैव कार्य तद्विकलेभ्य एव सहकारिभ्यः समुत्पद्येत"प्रमेयक० पृ. ४ प्र. पं. ९। १०-कर्तृपर-बा. बा. विना । “अतः सर्वेषां खयमकारकत्वे पररूपेणापि अकारकत्वात् तद्वाभेच्छेदतो न कुतश्चित् किञ्चिद् उत्पद्येत"-प्रगेयक० पृ० ४ प्र. पं० १०। ११-रूपेणेवा का-हा. वि० ।-रूपेणैवा का-आ० । १२-दाचित क्रि-वा० बा०। १३-या योगारूपतया योगरू तक्रियावा. बा० । "तस्याश्च अपरापरप्रत्यययोगरूपत्वात् प्रत्येकं नित्यानां तक्रियास्वभावत्वेप्यनुत्पत्तिस्तेषामिति-"प्रमेयक. पृ० ४ प्र. पं० १२। १४ यतो यामेको वा० बा०। १५-मर्थ ततः वा. बा. विना। १६-णानेका सा-वा० बा०। १७ तानि जनयतनि न ह्य-वा० वा. विना । “एकेनापि हि तेन तजननसामर्थ्य बिभ्राणेन तानि उत्पादयितव्यानि"-प्रमेयक० पृ. ४ प्र. पं. १३। १८ "तस्याः कार्यप्रादुर्भावानुमीयमानस्वरूपत्वात्"प्रमेयक पृ० ४ प्र. पं० १४ । १९-नयेत आ०। २०-भावीति वा. बा. विना। २१-यन्तीति वा० बा०। २२ भवेत् तत्-वा० बा०। २३-यानतर-वा० बा० ।-यांनतर-हा० । २४-प्यभ्यक्त-भां० मा० । २५-त्पत्ति घवीषि वा० बा० ।-त्पत्ति वीषि आ. हा० वि०। २६ तजन्यस्वभावत्वे विरुद्ध वा. बा. विना। २७-रणे हे-वा. बा० विना। २८-कारिसहितावस्थयोरस्य स्वभावप्रत्ययान्तरापेक्षस्वभावजननस्वभावतायाः सर्वदा वा० बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy