SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३३० प्रथमे काण्डेकार्यप्रभवस्तत्सन्निधानस्याकिञ्चित्करत्वात् । न च परस्परसहकारित्वेऽप्यव्यवधानतः क्षणिकानां विशिष्टक्षणान्तरारम्भकत्वमयुक्तम्, प्रथमक्षणोपनिपातिनां क्षित्यादीनां परस्परतः तथाभूतक्षणान्तरजननस्वभावातिशयलाभाभावान्निर्विशेषाणां विशिष्टक्षणान्तरजननायोगात् योगे वाध्यमा. णामपि तत्प्रसङ्गो विशेषाभावादिति वक्तव्यम् मा यतः (व्यम् यतः) किं कार्योत्पादानुगुणविशेष५विरहानिर्विशेपास्तदु(स्त उ)च्यन्ते, आहोस्वित् तदुत्पत्तिनिबन्धनविशेषवैकल्यात्, उत विशेषमात्राभावात् ? तत्र यद्याद्यः पक्षः स न युक्तः, यतो नास्मन्मते कारणस्थमेव कार्य व्यक्तिमात्रमनुभवति यतस्तदभावे न स्यात् ; अपि तु कारणं कार्यरूपविकलमेव कार्यमारभते सतः क्रियाविरोधात् भिन्नस्वभावत्वाच्च कारणात् कार्यस्य । द्वितीयपक्षाभ्युपगमोऽप्ययुक्तः यतोऽव्यवहितः क्षित्यादि कारणा(ण)कलापः कार्योपा(त्पा)दानुगुणविशेषजननसमर्थो हेतुस्तद्भा(??)वास्तत्प्रत्यक्षाऽनुपल१०म्भतः सिद्धः, केवलमत्र विवादः 'क्षित्यादयः किं क्षणिकास्तथाभूतविशेषारम्भकाः आहोस्विदक्षणिकाः' इति तत्र च साहित्येऽपि न ते पररूपेण कर्तारः, स्वरूपं च तेषां प्रागपि तदेवेति कथं कदाचित् क्रियाविरामा इति क्षणिकतैव तेषामभ्युपगमनीया । अथ तेषां समर्थहेतुत्वम् कुतः? परस्परोपसर्पिण्याद्याश्रयप्रत्ययविशेषात् तदन्वय व्यतिरेकाऽनुविधानदर्शनात् तेषां च न प्राक् पश्चान्न पृथग्भावः कारणाभावादिति नान्यदोदयप्रसङ्ग(??) प्रत्येकं चेति तृतीयपक्षोऽप्ययुक्तः अपरापर१५ प्रत्यययोगतः प्रतिक्षणं भिन्नशक्तीनां भावानां कुतश्चित् साम्यादेकताप्रतिपत्तावपि भिन्नस्वरूपत्वात् । नहि कारणानां भेदेऽप्येकरूपतैव भावस्याऽनिमित्तताप्रसङ्गात् । तथाहि-(??)यदि न कारणभेदभेदादपि नाभेदः भेदस्वरूपं (??) च कार्यम् तच्चेद् अहेतुकं विश्वस्य वैश्वरूप्यमहेतुकं भवेत् न च कदाचित् किश्चित् एकमेव वाताऽऽतपशीतादीनां यथासम्भवं सर्वत्र भेदकारणानां भावात् । ततः प्रतिक्षणं स्वभावभेदात् किश्चिदेव कस्यचित् कारणम् न सर्व सर्वस्येति क्षणिकानामेवार्थ२० सामर्थ्यलक्षणं सत्त्वं सम्भवतीति नाऽसाधारणानकान्तिकता सत्त्वस्य । अथ क्षणिकानां क्षित्या. दीनां एकदैककार्यक्रियायां सर्वेषामभिन्नेनैवात्मना तत्रोपयोगोऽभ्युपगन्तव्यः अन्यथा कारणभेदात् कार्यस्यापि भेदप्रसक्तिः स चैका(षा)मेकभावेप्यस्ति न च तदैकं कार्य जनयति सर्वेषां भाव इति(?) तत् कारणात् अतैस्तस्य सामान्यात्मनः कदाचित् कार्यकारिणोऽप्यभेदादर्थक्रियासामर्थ्यात् त्वसत्त्वमिति अनैकान्तिकता हेतोः, असदेतत्; यतः किमिदं कारणं भवताऽभिप्रेतम् भेदो वा यद्२५ भेदात् कार्यस्यापि भेदः प्रतिपाद्यते? यदि चक्षु दिकं प्रत्येकं तदवस्थाभावि कारणम् भेदश्चानेक त्वात् तदा नायं नियमः-अनेकस्माद् भवताऽनेकेनैव भवितव्यम् विपर्यये बाधकप्रमाणाभावात् 'एकेनैवैकं कर्त्तव्यम्' इत्यत्रापि न नियमैकारणमुपलभ्यते । "किञ्च, 'एकमेकं करोति' इति कुतोऽवगतम् ? तद्भावे तस्या(स्य) भावादिति चेत् समानमेतदनेकत्र । तथाहि-एकमङ्कुरादि कार्यमगी कृत्य विशिष्टक्षणान्तरोत्पादनलक्षणेनाऽतिशयाधानेन क्षित्यादीनां प्रवृत्तिः तत्र स्वहेतुपरिणामोपा३०त्तधर्माणस्तवस्थाप्राप्तास्तस्यैवैकस्य जनने समर्थाः समुत्पन्ना(नाना) न्यस्येति नापरं तद् जनयन्ति, १-प्रसव-आ० विना। २-प्यव-वा. बा. विना। ३-वावतिश-वा० बा०। ४-वा निर्वि-वा. बा०। ५-सङ्गा वि-वा० बा०। ६-क्तव्यं मा यातः भां. मां० ।-क्तव्यमायातः आ० ।-तव्यमायात किं हा०वि०। ७-गुणावि-हा० वि०। ८-गमो यु-वा० बा। ९-द्भावाप्रत्यक्षा-वा० बा० ।-द्भावाप्तत्प्रत्यक्षा-हा० ।-द्भावात्प्रक्षा-वि० । द्भावात् तत्प्र-वि० सं०। १०-क्रियवि-वा० बा० । “ततः स्वरूपेणैव भावाः कार्यस्य कर्तार इति न कदाचित् तत्कियोपरतिः स्यात्"-प्रमेयक० पृ० ४ प्र० पं० ११। ११-सर्पणाद्यावा० बा०। १२-श्रयविशे-वा० वा०। १३-धानाद-वा० बा० विना। १४-च प्राक पश्चान्न पृ-वा० बा० विना। १५-रूपान्न हि वा. बा. विना। १६ कारणभेदभेदादपि नाभेदा भेदखस्वरू-वि० । कारणभेदभेदाऽभेदादपि नाभेदो भेदाभेदखरू या. बा० । कारणभेदभेदाऽमेदापि नाभेदादपि नामेदाभेदस्वरू-भां० । कारणभेदभेदोऽभेदादपि नामेदादपि नाभेदाभेदस्थरू-मां। १७ कार्य तो वेदहेतुको विवा. बा०। १८-कमेव वाचातातपशीतादीनां आ० ।-कमेव शीतातपवातादीनां वा० बा० । १९ क्षणिकानामेकदैक-भां० मा०। २०-स्यापि मेदाप्र-आ० हा० वि०। २१-कामेष भा-वा. बा० । २२त तस्य वा० बा०। २३-सामर्थ्यास्त्वसत्व-आ० ।-सामर्थ्यात्वसत्व-वा. बा. हा० ।-सामर्थ्यात्वेसत्ववि०। २४-रादिकं तद्-वा० वा. आ. विना। २५-मकारिणामुप-वा० बा०। २६ किचिए-वा० बा० । २७-क्षणोनाति भां. मां.विना। २८ तव ख-वा. बा.। २९-न्यस्यैति आ० हा०वि०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy