SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३२३ ततो व्यवस्थितं क्षणिकत्व-सत्त्वयोस्तादात्म्यात् क्वचिद् वस्तुनि वर्तमान सत्त्वं क्षणिकत्वयुक्त एव वर्तते इति नास्य सामान्यलक्षणायोगः। सत्त्वं च भावानां न सत्तायोगलक्षणम् सामान्यादिष्वभावाद् अव्याप्तेः शशशृङ्गादिष्वति(वपि) भावादतिव्याप्तेश्च । न च शशशृङ्गादीनामसत्त्वान्न सत्तायोग इति वाच्यम्, इतरेतराश्रयत्वप्रसक्तेः । तथाहि-तेषामसत्त्वं सत्तायोगविरहात् तद्विरहश्चासत्त्वात् इति व्यक्तमितरेतराश्रयत्वम् । अथ ५ अर्थक्रियासामर्थ्य विरहान्न तेषां सत्तायोगः, नन्वेवं यद् अर्थक्रियासामर्थ्ययुक्तं सत्तायोगस्तस्यैव इत्यर्थक्रियासामर्थ्यमेव सत्त्वमायातमिति व्यर्थः सत्तायोगः । अत एव सामान्यादीनामपि स्वरूपसत्त्वं अर्थक्रियासामर्थ्यात् सिद्धम् 'सत्'प्रत्ययस्य सर्वत्राविशेषात् । न च सामान्यादिषूपचरितः 'सत्'प्रत्ययः अस्खलढत्तित्वात् उत्पाद-व्यय-ध्रौव्येन(व्याणां) विरोधात् एकस्मिन् धर्मिण्ययोगात् "उत्पाद-व्यय-ध्रौव्ययुक्तं सत्" [तत्त्वा० अ० ५ सू० २९] इत्येतदपि सत्त्वलक्षणमयुक्तम् । अथ१० 'कथंचिद् उत्पाद-व्ययौ कथंचिद् ध्रौव्यम्' इत्यभ्युपगमः, नैतत्; यतो यथोत्पाद-व्ययौ न तथा ध्रौव्यम् यथा च ध्रौव्यं न तथा उत्पाद-व्ययौ इति कथमेकं वस्तु यथोक्तलक्षणयुक्तं भवेत् ? अतोऽर्थक्रियासामर्थ्यमेव सत्वमक्षणिकात कम-योगपद्यविरोधाद् व्यावर्त्तमानं क्षणिक एवाऽवतिष्ठत इति तदात्मतां कथमतिकामेत् ? तन्न विशेषलक्षणस्याप्ययोगः। तस्मात् 'यत् सत् तत् क्षणिकमेव, सन्ति च द्वादशायतनानि' इति क्षणिकतायामिदमनुमानम्। अत्र च पञ्चस्व(सु) रूपादिष्वध्यक्षतः सत्त्व-१५ सिद्धिः मनो-धर्मायतनयोः स्वसंवेदनतः स्कन्धत्रयस्वभावत्व(?) धर्मायतनस्य संस्कारस्कन्धस्य च विप्रयुक्तस्याभावात् चक्षुरादिच(रादि)पञ्चस्वनुमित्ये(ते)स्तत्कार्यविज्ञानस्य कादाचित्कतया करणान्तरसापेक्षत्वसिद्धेः देशादिविप्रकृष्टेषु च सर्वपदार्थेषु अभ्युपगमविषयेषु प्रसङ्गमुखेन सत्तायाः क्षणिकतासाधन(नम) व्याप्यसद्भावे व्यापकस्य नियतसंनिधित्वा(त्वात्) व्यापकाभावेच व्याप्यस्याप्यभावात् चक्षुरादि-ध्वनीनाम् 'सन(त्')शब्दस्य च प्रवृत्तिनिमित्तभेदादर्थभेदतः परमार्थतो२० मेदाभावेऽपि न धर्मिण एव हेतता। पारमार्थिकरूपस्यावाच्यत्वाद विकल्पावभासिनमेवार्थ ध्वनयः प्रतिपादयन्ति 'क्षणिक'शब्दस्यापि क्ष(अक्ष)णिकसमारोपव्यवच्छेदविषयतया ने 'सत'शब्दार्थता भिन्नार्थतेति तद्वारेणापि न प्रतिज्ञार्थकदेर्शतां(ता)। अन्वयादिनिश्चयस्तु प्रतिबन्धनिश्चायकप्रमाणनिबन्धनः; स च तादात्म्यलक्षणः प्रतिवन्धः स्वभावहेतोः प्रमाणनिबन्धनः, ननु क्षणिकत्वस्य प्रत्यक्षेणाऽनिश्चयात् कथं तत्तादात्म्यं स्वभावहेतोः प्रत्यक्षप्रमाणतः सिद्धम् ? अथ 'कृतका विनाशं प्रति२५ अनपेक्षत्वात् तद्भावनियता यतो भावाः' इत्यनुमानसिद्धं तत्तादात्म्यम्, नैतत्; यतो निर्हेतुकत्वेऽपि विनाशस्य यदैव घटादयो नाशमनुभवन्तः प्रतीयन्ते तदैव तेषामसौ निर्हेतुकः स्यात् नान्यदेति कथं क्षणविशरारुता भावानाम् ? अथ एकक्षणभावित्वेन भावस्योत्पत्तेःप्रागपि विनाशसङ्गतिः। ननु यथैकक्षणस्थायित्वेनोत्पत्तिः स्वहेतुभ्यः तथाऽनेकक्षणस्थायित्वेनापि साऽविरुद्धा, । विचित्रशक्तयः सामयः। न च यदि क्वचित् कदाचित् विनाशोद्भवे(शो भवेत् ) तदा तत्काल द्रव्यापेक्षत्वाद अन्यानपेक्षत्वहानिरिति वक्तव्यम्, विनाशंहेत्वनपेक्षत्वेनानपेक्षत्वात अन्यथा द्वितीयेऽपि क्षणे विनाशो न स्यात तत्कालाद्यपेक्षत्वात् । १-ङ्गादिष्वविनाभा-वा. बा. विना। २ सत्वं सत्वाक्षणिकात् क-वा. बा०। ३-कामेत वा० बा० विना। ४ पृ. ३१८ पं० १४ । ५-प्वक्षतः वा. बा०। ६-भावात्व-वा. बा०। ७-नुमितोस्ताका-आ. हा० वि०।-नुमितास्तत्का-भां० मां०। ८ सशब्दस्य आ० हा० वि० । सब्दस्य वा. बा। ९-मित्तमेदतः भां० मां-मित्तभेदाभेदतः वा० बा०। १० न सच्छब्दार्थतेति त-भां. मां। ११-शतांन्वया-वा. बा० । १२ “यद्भाव प्रति यन्नैव हेत्वन्तरमपेक्षते । तत् तत्र नियतं ज्ञेयं खहेतुभ्यस्तथोदयात्" ॥ "निर्निबन्धा हि सामग्री खकार्योत्पादने यथा । विनाशं प्रति सर्वेऽपि निरपेक्षाश्च जन्मिनः" ॥ -तत्त्वसं• का० ३५४-३५५ पृ० १३२ । १३ नाशनमनु-आ० हा० वि० । नशनमनु-भां० मा० । १४-नाशाद्भवेत् त-मां०।-नाशाद्भवे तभांकर-नाशौद्भिवेत् त-वि० ।-नाशौ वे त-हा। १५ अन्यादपेक्ष-भां० मा हा० वि० । अस्यादपेक्षवा. बा.। १६-शहेतुनपेक्ष-भा० मा० ।-शहेतुत्वनपेक्ष-आ० हा• वि.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy