SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३२४ प्रथमे काण्डे न च क्रम-योगपद्याभ्यां सामर्थ्यलक्षणं सत्त्वं व्याप्तम् क्रमाऽक्रमनिवृत्तौ च नित्यात् सत्वं निवर्तमानं क्षणिकेम्वेवावतिष्ठत इति सत्त्वयुक्तस्य कृतकत्वस्य गमकत्वम्, यतः क्षणिकत्वे सति क्रमाऽक्रमप्रतिपत्तरसंभव एव । तथाहि-येन ज्ञानक्षणेन तत्पूर्वकं वस्तु प्रतिपन्नं न तेनोत्तरकालभावि, येन चोत्तरकालसङ्गतं न तेन पूर्वकालालीढमिति कथं क्रमप्रतीतिः? योऽपि पूर्ववस्तु५प्रीत्य(प्रतीत्य)नन्तरमपरस्य ग्राहकः स क्रमग्राही भवेत् तथा च क्षणिकत्वमस्य स्यात् बौद्धस्यच काल एव नास्ति इति कथं तस्य क्रमग्रहः? भिन्नकालवस्त्वग्रहा(हे) कालाभावे चानेकवस्तुरूप एव कम (मः) तथा, नित्यस्यापि क्रमकर्तृत्वं न विरुध्यते-यथा च नित्यस्य क्रमकर्तृत्वादनेकरूपस्वात्(त्वं) तथा क्षणिकस्यापि स्यात् । अथ क्षणवद् द्वितीये क्षणे नित्यस्याप्यभावो भवेत् कार्या भावात् , अयुक्तमेतत् ; कालाभावाद् भवन्मतेन । भवतु वा ग्रहस्तथापि कथं क्रमाऽक्रमाभ्यां सत्त्वस्य १०व्याप्तिः क्रम-योगपद्यव्यतिरिक्तप्रकारान्तरेणाप्यर्थक्रियासंभवात् न च प्रकारान्तराभावनिश्चयो दृश्यानुपलम्भात् ततो विशिष्टदेशादावेवाभावनिश्चय!सक्तेः न सर्वत्र सर्वदा वा। नाप्यदृश्यानुपलम्भात् तदा(द)भावनिश्चयः तस्य संदेहहेतुत्वात् । तस्मान्नित्येषु क्रमाक्रम(मा)योगेऽपि संत्त्वानिवृत्तेः कथं सत्त्वस्य "क्षणिकभा(कस्वभा)वत्वं प्रमाणतः सिद्धं येनाऽन्वय-व्यतिरेकनिश्चयो भवेत् ? यद्यपि क्रमाक्रमाभ्यां सत्त्वस्य व्याप्तिः प्रकारान्तराभावात् "सिद्धा त्त(त)थापि क्रमाक्रमायोगो न नित्येषु १५ प्रत्यक्षादिना सिद्धः नित्यानामतीन्द्रियत्वात् तदसिद्धौ न तेषु सत्त्वनिवृत्तिसिद्धिस्तदसिद्धौ च न सत्त्वस्य क्षणिकस्वभावत्वसिद्धिः । किञ्च, सत्त्वात् क्रम-योगपद्यानुमानं स्यात् ताभ्यां तस्य व्याप्तत्वात् नेतु क्षणिकत्वानुमानम् तत्र क्रमकर्तृत्वासंभवादिति ।। ___ अत्र केचित् प्रतिविदधति-"प्रत्यक्षसिद्ध( ) एव क्रम-योगपद्ये । तथाहि-सहभावो भावानां योगपंद्यम् क्रमस्तु पूर्वापरभावः, स च ऋमिणामभिन्न एकप्रतिभासश्च तत्प्रतिभासः। अथै२० कप्रतिभासानन्तरमपरस्य प्रतिभासः क्रमप्रतिभासः नत्वेकस्यैव अतिप्रसङ्गात्, एवमेतत् किन्तु यदै. कप्रतिभासः न तदा परस्य, तदा तत्प्रतिभासे योगपद्यप्रतिभासप्रसक्तेः । तस्मात् क्रमिणोः पूर्वाऽपरशा. नाभ्यां ग्रहणे तदभिन्नक्रमोऽपि गृहीत एंव, केवलं पूर्वानुभूतपदार्थाऽऽहितसंस्कारप्रबोधात् 'इदमस्मादनन्तरमुत्पन्नम्' इत्यादिविकल्पप्रादुर्भावे क्रमो गृहीत इति व्यवस्थाप्यते । केंमे(मि)णोद्महेऽपि कथञ्चिदानुपूा विकल्पानुत्पत्तौ क्रमग्रहव्यवस्थापनायोगात् अत एव ऋमिणामेकग्रहेऽपि न २५क्रमग्रहो व्यवस्थाप्यते । अपि च, कथं कालाभ्युपगमवादिनोऽपि क्रमग्रहः सर्वकार्याणामेककालत्वात् ? न च भिन्नकालकारणोपाधिक्रमात् कार्यक्रमो युक्तः, कालस्याऽभिन्नत्वेनाभ्युपगमात् त(नत)द्योगाद् भावानां क्रमसद्भाव इति । न च पूर्वापररूपत्वात् 'कालः क्रमवान्' इति वक्तव्यम्, यतस्तस्याऽपि यद्यपरकालापेक्षः क्रमस्तदाऽनवस्थाप्रसक्तिः। अथ स्वरूपेण तस्य क्रमस्तथासति कार्या णामपि बहूनामसहायानां क्रमो भवेत् अस्माकं तु लोकप्रतीत्या 'पूर्वाह्न'आदिप्रत्ययविषयो महाभूत३० विशेषः कालोऽस्त्येव तद्भात् क्रमादिप्रतीतिर्युक्तैव । नापि नित्यस्य प्रकारान्तरेण कर्तृत्वसङ्गतिः यत एकदेशकार्यकारणानेक (?) करणे ह्यन्यदा प्रकारान्तरेण करणेऽङ्गीक्रियमाणे वस्तुना स्वभा. वभेदाद् भेदप्रसक्तिरिति नैकत्वम् पुनः पुनः कार्यकरणे च क्रम एव न प्रकारान्तरसद्भावः । न च १-नक्षणेम तत्पूर्व-भां० मा० ।-नक्षणेन त्पूर्व-वा० बा० । २ “न चैतच्छक्यं वक्तुम् क्रम-योगपद्ये एव भावानां न सिद्धे व्यतिरिक्तकालपदार्थानभ्युपगमादिति"-तत्त्वसं० पञ्जि. पृ० १४४ पं० १५। ३ कालो भावा. बा०। ४ क्रम तथा हा० वि०। ५ क्षणस्यापि वा. बा०। ६ भव वा वा० बा०। ७-प्रसक्तेः तत्सर्वदा वा भां० मा० ।-प्रसक्तेः तत् सर्वत्र सर्वदा वा हा० वि०। ८ वादयुक्तह-वा० बा०। ९त. स्यानित्यत्वेषु वा० बा०। १० सत्त्वान्निवृत्तिः आ. हा. वि. । सत्त्वानिवृत्तेः भां० मां०। ११क्षणिकाभा-वा. बा०। १२ सिद्धो त-भां० मां० आ० । सिद्धो भिन्नथापि त्तमाक्रमायो न नित्ये-हा० । सिद्धो मिनथापित्तथापि त्तकमायो न नित्ये-वि०। १३-सिद्धिच वा. बा. विना। १४ न क्षहा०वि०। १५-पद्य क-वि. विना। १६-सश्चात-वा० बा०। १७-स अ-आ० हा० वि०। १८ एवं हा० वि०। १९-कल्प्यप्रा-भां० मा हा०।-कल्पाप्रा-वा. बा. आ०। २० क्रमेणोन-भां. आ. हा०वि०।. क्रमणोन-मां०। २१ विकल्पानुपपत्तौ वा. बा. विना। २२-कल्प्यानु-हा०। २३-त्वात् कालान् कालक-वा० बा० वि० विना। २४-दा-वा. बा. आ०। २५ कर्तृसं-वा. बा. विना। २६ कारणे । धन्यदा भां. मां० । कारणात्येक करणे व्यत्पदा वा० बा०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy