SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे-- [ ऋजुत्रविषयतया क्षणभङ्ग-विज्ञानमात्र-शून्यवादानामुपक्षेपः ] [१ क्षणभङ्गवादः] [ पूर्वपक्षः-स्थैर्यवादिभिः क्षणभङ्गस्य निराकरणम् ] नेनु च क्षणक्षयपरिणामसिद्धावेवं वक्तुं युक्तम्, प्रमाणरहितस्य वचसो विपश्चितामनादरणी. ५यत्वात् । न च क्षणक्षयावगमे प्रमाणव्यापार:-यतो न तावदध्यक्षं क्षणक्षयितां भावानामवगच्छत् प्रतीयते परैरभ्युपगम्यते वा यतः परैरन्त्यक्षणदर्शिनामेव प्रत्यक्षतः क्षणिकताया निश्चयः प्रकल्प्यते भ्रान्तिकारणसद्भावान्न प्राक् । उक्तं च "क्वचित् तदपरिज्ञावं सदृशापरसंभवात् । भ्रान्तेरपश्यत(?)भेदं मायागोलकभेदवत्"॥ [ ] इति। १० नाप्यनुमानात् तन्निश्चयः अनुमानस्य लिङ्गबलादुपजायमानत्वात् । सामान्यलक्षणं च तस्य "पक्षधर्मत्वम् सपक्षे सत्त्वम् विपक्षे चाऽसत्त्वमेव निश्चितम्" [ ] इति परैर्गीयते। तत्र पक्षधर्मतानिश्चयः-"प्रत्यक्षतोऽनुमानतो वा" [ a ] इति वचनात्यद्यपि प्रमाणद्वयनिबन्धनः सिद्धस्तथापि सपक्षे सत्त्वं सत्त्वादेर्हेतोर्निश्चेतुमशक्यम् क्षणिकतया सर्वार्थानां साधयितुमभिलषित्वात्(षितत्वात्) सपक्षस्यैवाभावात् साध्यस्य तन्मात्रानुबन्धः स्वभाव१५ हेतोर्विशेषलक्षणम् क्षणक्षयस्य चाऽनध्यक्षत्वात् तत्र सोऽपि नाध्यक्षतो निश्चितः । नाप्यनुमानात् तन्निश्चयः अनवस्थाप्रसङ्गात् । तत्कार्यताऽवगमः कार्यहेतोरपि विशेषलक्षणम् । न च क्षणिकस्तु(कवस्तु)कार्यतया किञ्चित् प्रसिद्ध वस्तु, प्रत्यक्षाऽनुपलम्भसाधनत्वात् तस्याः । न च क्षणिकस्य किञ्चित् कार्य सम्भवति । तथाहि-न विनष्टात् कारणात् कार्यजन्म असतोऽजनकत्वात् । नाप्यवि. नष्टात् व्यापारालीढस्य द्वितीयक्षणावस्थितेर्जनकत्वे क्षणभङ्गभङ्गप्रसङ्गात् निर्व्यापारस्य च शश२० शृङ्गवदजनकत्वात् कार्य-कारणयोरेककालताप्रसक्तेः । अनुपलब्धेश्चाऽत्राधिकार एवाऽसम्भवी प्रतिषेधसाधकत्वात् तस्याः क्षणिकतांविधिस्त्वत्र साध्यत्वेनाभिप्रेतः। न चापरो हेतुः सौगतैरभ्युपगम्यते । नापि प्रत्यक्षानुमानव्यतिरिक्तं प्रमाणान्तरं तदभिप्रायेण विद्यत इति कुतः क्षणिकतानिश्चयः? प्रत्यभिज्ञाप्रत्यक्षास्व(क्षाच्च) भावानां स्थैर्यप्रतिपत्तेः क्षणिकाभ्युपगमोऽसंमत एव । न च प्रत्यभिक्षा न प्रमाणम्। "तत्र(वा)पूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । अदुष्टकारणारब्धं प्रमाणं लोकसंमत " ॥ [ २५ १ ननु क्ष-आ० हा० वि०। २ कल्पते-वा. बा. विना। ३ -श्यतं मे-आ०। ४ "पक्षधर्मत्वम् सपक्षे सत्त्वम् विपक्षे चासत्त्वम् इति"-न्यायप्र०सू० पृ० १५० ९ । “त्रैरूप्यं पुनर्लिङ्गस्य अनुमेये सत्त्वमेव ॥५॥ सपक्ष एवं सत्त्वम् ॥ ६॥ असपक्षे चासत्त्वमेव निश्चितम् ॥७॥"-न्यायबि० द्विती०प० पृ० १८-१९ । ५-मभिलयित्वा-हा० ।-मभिलब्धिता-आ० ।-मभिलषितत्वा-वि० सं० । ६ "स्वभावः खसत्ताभाविनि साध्यधर्मे हेतुः" ॥ १६ ॥-न्यायबि० द्विती०प० पृ. २३ । ७-क्षणं क्षय-वा० बा० विना। ८-स्य वा न-वि. विना। ९-त्वात्त सो-भां. मां० । १०-क वस्तु प्रत्यक्षा-वा० बा० विना। ११ तस्य न च वा. बा. विना । १२-तावधिस्त्वत्रा सा आ० हा० वि०। १३ “त्रिरूपाणि च त्रीण्येव लिङ्गानि ॥ ११ ॥ अनुपलब्धिः खभाव-कार्य चेति" ॥ १२॥ (न्यायबि. द्विती० प० पृ. २१) इति वचनात् बौद्धमते खभाव-कार्याऽनुपलब्धिरूपं हेतुत्रयमेव । १४ "द्विविधं सम्यग्ज्ञानम्" ॥ २॥ “प्रत्यक्षमनुमानं च" ॥३॥ (न्यायबि० प्रथ० प० पृ. ५-६) इत्युक्तेः। १५-पत्तिः वा. बा. विना। १६-गमो नमो न च भां. मां -गमो न च आ. हा०वि०। अत्र'-गमोऽसंगत एव' इति सुचारु। १७ “न च प्रत्यभिज्ञा न प्रमाणम् । "तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम्"। इति प्रमाणलक्षणयोगात्"-हेतु० टी० ता० लि. पृ० ८७ प्र. पं० ४ । नयोप० पृ० ३३ द्वि.पं०९। १८ प्रमाणपरीक्षा पृ० ६३ पं०५-८ । तत्त्वार्थश्लोकवा० पृ. १७३ श्लो. ७१ । प्रमेयक पृ० १६ द्वि.पं. १२ । “भाहेन" उक्तमेतत्-प्रमेयक पृ० १६ द्वि.टिप्प. अं०५१।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy