SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ संमतितर्क-प्रकरणम् । तृतीयो विभागः । पञ्चमगाथाव्याख्या । [ पर्यायास्ति कैकप्रकृतिकानाम् ऋजुसूत्रादीनां शुद्धाशुद्धभावेन विभजनम् ] विशेष प्रस्तारस्य पर्यायनयो मूलव्याकरणी, शब्दादयश्च शेषाः पर्यायनयभेदा इति प्रागुक्तम् ५ तत्समर्थनार्थम् - मूलर्णिमेणं पज्जवणयस्स उज्जुसुयवयणविच्छेदो । तस्स उ सद्दाईआ साहपसाहा सुहुमभेया ॥ ५॥ इति गाथासूत्रम् । अस्य तात्पर्यार्थः - पर्यायनयस्य प्रकृतिराद्या ऋजुसूत्रः स त्वशुद्धा, शब्दः शुद्धा, शुद्धतरा १० समभिरूढः, अत्यन्ततः शुद्धा त्वेवंभूत इति । अवयवार्थस्तु - मूलादिः ने (णि) मेणं आधार: पर्यायो विशेषः तस्य नय उपपत्तिबलात् परिच्छेदः तस्य, ऋजु - वर्तमानसमयं वस्तु स्वरूपावस्थितत्वात् तदेव - सूत्रयति परिच्छिनत्ति नातीतानागतम् तस्याऽसत्त्वेन कुटिलत्वात् तस्य वचनम् - पदं वाक्यं वा तस्य विच्छेदोऽन्तःसीमेति यावत् । 'ऋजुसूत्रवचनस्य' इति कर्मणि षष्टी, तेन 'ऋजुसूत्रस्य एवमयमर्थो नान्यथा' इति १५ प्ररूपयतो वचनं विच्छिद्यमानं यत् तत् मूलनिमेनम् अत्र गृह्यते । ननु कथं वचन विच्छेदः शब्दरूपः परिच्छेदस्वभावस्य नयस्याधारः ? नैष दोषः, विषयेण विषयी ( यि) कथनरूपत्वादस्य । न च वचनार्थोऽस्य विषयः न शब्द इति वक्तव्यम्, वचनार्थयोरभेदात् वचनमपि यतो विषयः । अथ विषय एव किं नोक्त इति न प्रेरणीयम्, शब्दनयानां यत् शब्दहतस्यैव प्रमाणत्वमिति ज्ञापनार्थत्वादेवमभिधानम्, तस्य च पूर्वापरपर्याये वि (यैर्वि) विक्ते एक पर्याय एव प्ररूपयतो वचनं विच्छिद्यते एकपर्यायस्य २० परपर्य(या संस्पर्शात् । उक्तं च तन्मतमर्थ प्ररूपयद्भिः "पलालं न दहत्यग्निर्दह्यते न गिरिः क्वचित् । ] नासंयतः प्रव्रजति भैव्यजीवो न सिद्ध्यति ॥ " [ पलालपर्यायस्य अग्निसद्भाव पर्यायादत्यन्तभिन्नत्वात् यः यः पलालो नासौ दह्यते यश्च भस्मभावमनुभवति नासौ पलालपर्याय इति । २५ १ पृ० २७१ पं० ७-८ । २ " णिमेणमवि ठाणे” “ णिमेणं स्थानम् " - देशीना० च० व० गा० ३७ टी० पृ० १५० पं० १७ । ३- त्यन्तः शु-आ० वा० वा० विना । ४- मादिर्निर्माणमा वा० बा० विना । ५ दोत:सी-वा० बा० विना । ६- न्यस्येति वा० वा० विना । ७ मूलनियमेन मत्र वा० वा० । मूलंनियमेनमत्र आ० । मूलंनि मेनमत्र हा० । ८ यच्छब्दहतस्येव आ० । यच्छहाहतस्यैव वा० बा० । यच्छब्द इती हतस्यैव वि० । ९-पर्यायविक्ते भां० मां०।- पर्यायवत्यन्त (यायादत्यन्त) विविक्ते वा० वा० । १०- क एव पर्यायआ० हा० । ११ तत्त्वार्थ० टी० पृ० ४०२ पं० २२ । भगवतीसू० टी० पृ० २०५ प्र० पं० ४ । - " त्यग्निर्भिद्यते न घटः क्वचित्” १२ " भव्योऽसिद्धो न सिध्यति " - नयोप० पृ० ४० द्वि० श्लो० ३१ । ४१ स० त०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy