SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ १८ णवतो जीर्णताडपत्रपुस्तकस्य उपलब्धि सूचितवन्तः । यदि प्रस्तुतसंशोधने तत् पुस्तकमुपयोक्कुमशक्ष्यव तदा कतिपया अशुद्धीर्दूरीक मशक्ष्यन्त । परन्तु तथाविधीयमाने प्रारब्धमुद्रणप्रस्तुतविभागप्रकाशनं बहु विलम्बमानमवेक्ष्याऽस्माभिः तद्विवरणतुलना भाविविशिष्टपरिशिष्टतश्रीकृता। विशिष्टविद्यारुचिभ्यो महानुभावेभ्योऽस्माभिः प्रस्तुतविभागस्य संपादने या विविधरूपा सहायता समासादि तां निर्दिश्य कृतज्ञता प्रकाशयितुं लब्धावसरा भवामः । विख्यातनामधेयश्रीमआत्मारामजीपट्टधरप्रशिष्यश्रीमदूविजयवल्लभसूरिप्रबोधितलाहोरपत्तनीयश्रीश्वेताम्बरसंघसमर्पितद्रव्यसहायकसमासादितसहकारिकार्यकर्तृका वयं प्रस्तुतकर्मणि प्रशस्यरूपामनुकूलतां प्राप्तवन्तः। प्रवर्तकश्रीकान्तिविजयप्रशिष्यसुशीलमुनिश्रीपुण्यविजयकृतैरङ्गभूतैर्विविधकार्यैः प्रस्तुवसंशोधनं शीघ्रतरतामगात् । एतद्व्यतिरिक्तं चाऽस्मिन्नवसरे तैरन्यदपि स्मरणीयमुपयोगि कार्य व्यधायि सब हेतुबिन्दुप्रतिकृतिरूपम्-दुष्पठतरप्राचीनलिपिकलिताम् अतिजीर्णाम् घृष्टत्रुटिताक्षरवतीम् नाशसविधवर्तिनी ताडपत्रीयप्रतिमवलम्ब्य बहु परिश्रम्य तैर्या सुन्दरतमाऽक्षरशालिनी प्रतिकृतिः कृत्वोपयोगार पुरातत्त्वमन्दिरीयपुस्तकसंग्रहे समर्पितास्ति । सा तत्रैव तेषां नाम्ना सहैव संरक्षिता वर्त्तते । सुखलाल: बेचरदासश्च ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy