________________
इव ते अपि अवशिष्टां टीकावर्तिनीमशुद्धिमपाकर्तुं बलवत्सहायप्रदे संपद्येयाताम् । यदि केवलपञ्चमगाथाटीकात्मकोऽपि ताडपत्रीयपूर्वाद्धाशः प्राप्स्यत तदा एतावत्यस्तदीया जटिला अशुद्धयः प्रायः अवशिष्टा नाऽभविष्यन् । उपलब्धयोः खण्डयोः चतुस्त्रिंशदधिकशतत्रयमितपत्रे बृहति ताडपत्रे षष्ठगाथाटीकामध्यांशप्रभृतिप्रथमकाण्ड-पूर्णद्वितीय-तृतीयकाण्डपरिमाणं सटीकसंमत्युत्तरार्द्ध पूर्णतया वर्त्तते । प्रथमाङ्कपत्ररहितसप्ताशीत्यधिकशतसंख्यकपत्रशालिनि अन्तराऽन्तरा विलुप्तानेकपत्रे घृष्टध्वस्तप्रचुरतराक्षरपतिके लघुनि ताडपत्रे तूत्तरार्द्धमपि अपूर्णद्वितीयकाण्डपर्यन्तमेव विद्यते । एतत्ताडपत्रद्वयवर्तिभ्यः सुन्दराऽक्षरेभ्यः शुद्धपाटेभ्यः उपयोगिभ्यश्च टिप्पणकेभ्यः संप्राप्तेन समाश्वासेन पञ्चमगाथाटीकाऽवशिष्टा त्रुटिः किंचिदूनं कण्टकायते । एनयोस्ताडपत्रप्रत्योरितराभिः पत्रप्रतिभिः सहवाग्रे विशिष्य परिचाययितुमिष्टतया सांप्रतमेतावदेव सूचयितुं पर्याप्तम् यत् उक्तताडपत्रप्रतिद्वयेन प्रस्तुततृतीयविभागस्येव प्रकाशयिष्यमाणयोः द्वितीयकाण्डशालिचतुर्थविभाग-तृतीयकाण्डशालिपञ्चमविभागयोः संशोधनमपि समभ्यधिकां समनसतां समासादयिष्यति ।
परन्तु एफत उपलब्धताडपत्रखण्ड द्वयं साधनसंपदं प्रगुणीकरोति अन्यतश्च खण्डितो वा० बा०. संज्ञकप्रतिद्वयस्याऽल्पीयान् भागः संशोधनकर्मणि शल्यायते । पञ्चमगाथाटीकाप्रान्त-षष्ठगाथाटीकाप्रारम्भभाजा कतिपयानां पत्राणां व्यपगतत्वेनाऽशुद्धतमयोरपि कचित् क्वचित शुद्धतमयोः समानयोः पा० बा०संज्ञकप्रत्योः खण्डितत्वं शल्यायतेतराम् । यदि तावन्ति पत्राणि प्राप्येरन् तदा तत्तत्स्थलीय. टीकागतामशुद्धिमंशतो व्यपनेतुमुपयुज्येरन् ।
(२) प्रस्तुत विभागे पाठान्तरकृत्यं प्राक्तनविभागद्वयात् किंचिद् भिन्नमिव संपन्नम् । प्राक्तनविभागद्वयसंशोधने पाठान्तरस्वीकारपरित्यागक्रमः समानप्राय एवाऽङ्गीकृत आसीत् किन्तु प्रस्तुतविभागे स क्रमो विचार्यैव परिवर्तितः । तथाहि-पञ्चमगाथाटीकाया अशुद्धिबहुलत्वात् जटिलाऽशुद्धिमत्सु स्थलेषु सर्वथा अशुद्धतया भासमानान्यपि पाठान्तराणि अधस्ताद् निर्दिष्टानि-यत: तत्र तत्र स्थले सर्वा अपि प्रतयः समानभावेन कीदृश्या कियत्या च विलक्षणविलक्षणरीत्याऽशुद्धाः संवृत्ताः ? इत्येतत् विज्ञातुं शक्युः संशोधनकुशलाः, अशुद्धयः कथमुत्पद्यन्ते ? उत्पन्नाः पुनः कथं प्रवर्धन्ते ? शुद्धौ क्रियमाणायामपि पुनः अशुद्धयः कथं जायन्ते ? इत्येतत सर्व सूक्ष्मतयाऽवगन्तुं पारयेयुरशुद्धीतिहास. रचनाकोविदाः, तानि पाठान्तराणि निरीक्ष्य पाठशुद्धिमपि परिकल्पयितुं प्रभवेयुः केचिद् व्युत्पन्नाःअतो वैपरीत्येन च षष्ठीप्रभृतिसमस्तगाथाटीकायाः शुद्धप्रायत्वात् सर्वथा शुद्धेषु शुद्धप्रायेषु च स्थलेषु उपयोगीन्येव पाठान्तराणि बहुधा स्वीकृतानि अन्तर्गडुकल्पानि च शेपाणि परित्यक्तानि ।
(३) प्राक्तनविभागद्वयसंशोधनानुपयुक्ता अपि अनेके प्रन्थाः प्रस्तुतविभागसंशोधने कृतोपयोगाः। टीकागतानामवतरणानां मूलस्थानानि ज्ञापयितुम प्रतिपाद्यं विषयम् अन्तर्गतं पाठं च तोलयितुम कल्पितं शुद्धपाठं संवादयितुम् युगपद्भाविनामसमानतश्रीयग्रन्थकाराणां क्रमभाविनां च समानतबीयप्रन्थकाराणामेकमेव विषयमधिकृत्य प्रवर्त्तमानां चर्चाशैलीमवगमयितुम् काऽपि विषये प्रेक्षावतां दृष्टिं विस्तार्य अभ्यासमार्ग सरलीकत्तुं कस्को अन्थो ग्रन्थकारो वा कस्य कस्य कियता कियता प्रभावेणाऽनुवासितः इत्येतत् पृथकरणविधानं सुकरीकर्तुं चेच्छद्भिः एवंभूतान् अन्यानपि लाभान् संभावयद्भिः अस्माभिरनुष्ठितः प्रचुरपन्थराशेरुपयोगः परिशीलनपटिष्ठैः स्वयमेव दृष्टिगोचरीकरिष्यते ।
एवंसत्यपि एकस्योपयोगिनो प्रन्थस्योपयोगविधानं प्रस्तुतसंशोधने परिशिष्यत एव । वयं पूर्वमेव संमतिद्वितीयविभागीयनिवेदने बौद्ध भिक्षुधर्मकीर्तिकृतहेतुबिन्दुमूलका मातकर्तृकदुर्लभविवर