SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ शक्याऽनुष्ठानं नैव प्रतिभाति । तट्टीकासंशोधनोपयोगिनां मौलिकानां महत्त्वभाजां च साधनानामनुपलब्धत्वेऽपि अन्यान्युपलब्धानि साधनानि असंकुचिततया अखिन्नमनस्कतया च तत्संशोधनकर्मणि कृतोपयोगानि । यद्यपि उपयुक्तेषु तेषु साधनेषु वौद्ध-जैन-वैदिकतत्रीया अनेके ग्रन्थाः समाविशन्ति तथापि शुद्धिकार्योपयोगदृष्ट्या प्रमेयकमलमार्तण्ड एव तेषु सर्वेषु प्रथमतामुपयाति। लेखकानां मूलप्रतिस्थलिपिवाचनगोचरेण भ्रमेण, अर्थाऽज्ञान-विपर्यासाभ्याम् , पठन-पाठनाइ भावेन, प्रतिस्थपत्राणां खण्डिततया अस्तव्यस्ततया वा अन्यैश्च बहुभिर्हेतुभिरशुद्धयोऽपि विविधाकारास्समुत्पन्नाः दृश्यन्ते । ताः परिष्कत्तुं तिस्रः पद्धतयोऽत्र मुख्यतयाऽस्माभिः समाश्रीयन्त । तद्यथा-पूर्ववर्तिभिः उत्तरवर्तिभिर्वा समानविषयकैर्ग्रन्थैः संमतिटीकायास्तुलना, अर्थदृष्टिर्भाषादृष्टिश्चेति । यत्र टीकां संशोधयितुं ग्रन्थान्तरतुलनाऽकारि तत्रापि नाऽर्थदृष्टि षादृष्टिश्च उपैक्षिषाताम् परन्तु यत्र तथाविधतुलनासाधनं नालम्भि तत्राऽर्थदृष्टिं प्रधानीकस्य भाषादृष्टिसाहाय्येन. यत्र चाऽर्थदृष्टेरपि अकिंचित्करत्वमन्तभावि तत्र केदलां भाषादृष्टिमुपष्टभ्य पाठशुद्धिं कल्पयित्वा यथापूर्वसंकेतं मौलिकपाठं स्थापयित्वैव कल्पितः पाठः कोष्ठके न्यवेश्यत । यथासाध्यं च कल्पिततत्पाठसंवादभागिन उल्लेखा अधस्तात् टिप्पण्यां तत्तद्न्थान् नामग्राहमुपन्यस्ताः । एतस्य च पद्धतित्रयस्य यथाशक्ति सर्वात्मना कृतोपयोगत्वेऽपि पञ्चमगाथाटीका बहुषु स्थानेषु बाहुल्येन अशुद्धाऽसंलग्ना च स्थितैवाऽऽस्ते । ये येऽशाः अस्माकं खण्डिततया, पुनरुक्ततया, विपर्यस्ततया, असंलग्नतया च प्रतिभान्ति स्म ते सर्वे आदौ (??) अथवा [?? अन्ते च (??) अथवा ??] एतादृशचिरैरङ्कयित्वा मुद्रिताः । तद्यथा पृ० ३२२ तथा ३३३ प्रभृति । यद्यपि पञ्चमगाथाटीकायाः पूर्वार्द्धवर्त्तिन्यः बह्वयोऽशुद्धयः भूयसा प्रयत्नेन निराक्रियन्त तथापि तस्या उत्तरार्द्धवर्तिन्यः विशेषतस्तु तत्प्रा. न्तवर्त्तिन्यः शल्यायमाना महत्यो बह्वयोऽशुद्धयः परिशिष्टा आसत एव । षष्ठगाथाटीकान्तर्गतः कियन्मात्रः प्राथमिकोंऽशः (पृ० ३७९-३८५) अक्षरशः तत्त्वसंग्रहीयशब्दब्रह्मपरीक्षाप्रकरणप्रतिकृतितया तत्साहाय्येन न केवलं सर्वथा शुद्ध एव प्रत्युताऽधस्तात् टिप्पण्यां तुलनायै निवेशिताभिः तत्त्वसंग्रहीयमूलकारिकाभिः कचित् कचित् पञ्जिकापतिभिश्च द्वितीयगाथाटीकावत् गवेषकदृष्ट्या उपयुक्ततरः समपद्यत । ततोऽग्रेतनस्तु पृ० ३८६ प्रभृति तदीयः सर्वोऽप्यंशः बहुधा बौद्धमन्तव्यस्पर्शिन्या चर्चया व्याप्तो वर्त्तते । तत्र च भूयसीनामशुद्धीनां निराकृतत्वेऽपि अक्षरशः तुलनोपयोगिनो ग्रन्थस्याऽशक्यलाभतया काचित् काचिदशुद्धिः अवशिष्यत एव परन्तु सा पञ्चमगाथाटीकाऽशुद्धिवद् गूढा नैवाऽस्ति । फलतः पञ्चमगाथाटीकावजै पश्यतां प्रस्तुते विभागे शिष्यमाणा अशुद्धयो विरलतमा एव दृष्टिपथमुपयास्यन्ति । अथाऽतः प्रस्तुतग्रन्थसंशोधनसंबन्धिनो विषयान् गृह्णीयाम । ते पुनः प्रतिगोचरतया, पाठान्तरगोचरतया, ग्रन्थान्तरोपयोगगोचरतया च मुख्यालय एवाऽत्र चर्चितुमुद्दिष्टाः।। (१) प्राक्तनविभागद्वयसंशोधनोपयुक्तप्रतिव्यतिरिक्ताभ्यां द्वाभ्यां ताडपत्रमयीभ्यां विशिष्टप्रतिभ्यां प्रस्तुतविभागस्य संशोधनं निष्प्रत्यवायं प्रकर्षपात्रं च संपन्नम् । तत्र च एकं ताडपत्रं दीर्घम् , अन्यच्च ह्रखं विद्यते। द्वयमप्येतत् शुद्धप्रायं क्वचित् कचिच्च सटिप्पणिकं वर्तते । प्रथमादारभ्य क्रमवर्धिष्णुभिरकैरुपेततया तद् बृहल्लघुताडपत्रद्वयमपि संमति उत्तरार्द्धयुक्तं संलक्ष्यते । प्रथमगाथाटीकाप्रभृतिषष्ठगाथाटीकाऽर्द्धपर्यवसानसंमतिपूर्वार्द्धवती बृहल्लघुताडपत्रद्वयसंबन्धिनी द्वे अपि खण्डे अद्यापि नोपलब्धे । यदि ते द्वे अपि पूर्वार्द्धवती खण्डे विनाशग्रहविमुक्ते क्वापि स्थाने सुरक्षिततयाऽवशिष्येयातां भाग्यवशाच कदाचित् केनचिदवाप्येयातां तदा इमे उत्तरार्द्धवती खण्डे
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy