SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ संपादकीयं निवेदनम्। वयमद्याऽयं तृतीयः संमतेर्विभागो विदुषां समक्षमुपस्थापयन्तो लेशमात्रसंकल्पसिद्धिकतेन कियन्मात्रेण भारलाघवेन स्वल्पं श्रमापनोदमिव अनुभवामः । प्रस्तुतविभागसंशोधनकर्म वर्षद्वयात प्रागेव प्रारभ्यत किन्तु यदि तत् सततं नाऽकरिष्यत न वा अस्मदपेक्षिता सकलाऽपि साधनसम्पत्तिः पुरातत्त्वमन्दिरेण इतरैश्च विद्याप्रियमहानुभावैः यथासमयमुपाहरिष्यत तदा प्रस्तुतविभागप्रकाशनं द्वितीयविभागाऽनन्तरमेकेनैव वर्षेण कथमपि शक्यविधानं नाऽभविष्यत् । प्रस्तुतभागगतग्रन्थ-तदीयसंशोधनसम्बन्धिनः कतिपये विशिष्ट विषया अत्र लेशतः स्पष्टीकर्तमभिप्रेतास्सन्ति । तत्र मूलगाथापरिमाणं टीकागतमशुद्धत्वं चेति द्वावेव ग्रन्थसम्बन्धिनौ विषयौ प्रधानतया वक्तव्यौ स्तः। (१) प्रथमप्रभृतिगाथाचतुष्टयस्य प्रकाशितपूर्वे विभागद्वये शेषगाथापञ्चाशतश्च प्रकाश्यमानेऽस्मिन् विभागे लब्धसमावेशतया प्रथमं काण्डं प्रस्तुतविभाग एव परिपूर्यते । मूलकारैः श्रीमद्भिदिवाकरैरखिलेऽपि प्रथमे काण्डे सूक्ष्मतया, व्यवस्थिततया, विशदतया च मीमांसिता नया एवं टीकाकारैः श्रीमद्भिरभयदेवैरतिविस्तरवत्या दार्शनिकविविधतत्त्वचर्चया विशदीकृता वर्तन्ते । प्रस्तुतविभागप्रकाशनेन च मूलकार-टीकाकारकृतनयगोचरसंक्षिप्तविस्तृतसमग्रमीमांसापरिज्ञानसामग्री सुलभतया समुपतिष्ठते । (२) प्रस्तुतविभागसन्निविष्टायां गाथापञ्चाशट्टोकायां षष्ठयाष्टीका विस्तृततरा पञ्चम्याश्च विस्तृततमा विद्यते । पञ्चमगाथाटीका विस्तरेणेवाऽशुद्ध्याऽपि शेषसमस्तगाथाटीकामतिशेते। सप्तमीप्रभृतिसमस्तगाथाटीका सुनिवारविरलाऽशुद्धिमती समासीत् । अत एव सा सर्वत्र शुद्धप्राया समपद्यत । षष्ठगाथाटीकायां किंचिदधिकाऽप्यशुद्धिः पञ्चमगाथाटीकातः स्वल्पतमैवाऽऽसीत् पञ्चमगाथाटीकायां तु यादृशी यावती चाऽशुद्धिरायाता तादृशी तावती च क्वाऽपि टीकांशे नाऽवलोकनपथमवतीर्णा । यद्यपि द्वितीयविभागसन्निविष्टा द्वितीयगाथाटीकाऽप्यशुद्धतरैवाऽऽसीत् तथापि तत्त्वसंग्रहसाहायकेन सा सर्वात्मना शुद्धीकृत्य मुद्रयितुमशक्यत । पञ्चमगाथाटीकां शुद्धीकर्तुं तथाविधं किमपि साधनमद्ययावन्नाऽलभ्यत । द्वितीयगाथाटीकायामिव पञ्चमगाथाटीकायामपि बौद्धतत्त्वगोचरैव चर्चा मुख्यतामनुभवति । यथा द्वितीयगाथाटीकाचर्चितं बौद्धप्रकरणं संशोधयितुं तत्त्वसंग्रहीयं तदेव प्रकरणमविकलतया उपायुज्यत तथा पञ्चमगाथाटीकाचर्चितसौत्रान्तिक-वैभाषिक-योगाचार-माध्यमिकाख्यचतुर्विधबौद्धशाखामन्तव्यप्रतिपादकाः टीकाकारैरक्षरशोऽनुकृता मूलप्रकरणग्रन्था एव तां टीका संशोधयितुं सर्वात्मना उपयुज्येरन् ; परन्तु सत्यपि यत्ने तत्त्वसंग्रवत् संमतिटीकाऽविकलतुलनोपयोगिनां केषांचित् बौद्धतत्रीयाणामन्यतत्रीयाणां वा ग्रन्थानामिदानीं यावदप्राप्ततया पञ्चमगाथाटीकायाः सर्वाङ्गीणं शुद्धत्वं अस्माकमशक्याऽनुष्ठानमेव परिशिष्यते । __ श्रीमदभयदेवसूरिभिः पञ्चमगाथाटीकायां पर्यायास्तिकनयस्य विभागमुत्तरोत्तरसूक्ष्मत्वं च प्रदर्शयितुम् ऋजुसूत्र-शब्द-समभिरूद्वैवंभूतनयचतुष्टयस्य विस्तृतं स्वरूपं सौत्रान्तिकादिशाखाचतुष्टयसम्बन्धिनो यान् ग्रन्थान समाश्रित्य व्यावर्णितं समन्वितं च, ते मूलभूतबौद्धग्रन्था अक्षरशस्तदुपजीविनोऽपरे मन्या वा यावन्नोपलभ्येरन् तावत् पञ्चमगाथाटीकायाः सर्वथा शुद्धिविधानं कथमपि
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy