SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। इति प्रमाणलक्षणयोगात् । प्रत्यक्षं च प्रत्यभिज्ञा आत्मेन्द्रियार्थसम्बन्धानुविधानतस्तदन्यप्रत्यक्षवत् सिद्धम् । न च स्मृतिपूर्वकत्वात् ‘स एवायम्' इत्यनुसन्धाना(न)ज्ञानस्य प्रत्यक्षत्वमयुक्तमिति वाच्यम् , सत्संप्रयोगजत्वेन स्मरणपश्चाद्भाविनोऽप्यक्षप्रत्ययस्य लोके प्रत्यक्षत्वेन प्रसिद्धत्वात् । उक्तं च "न हि स्मरणतो यत् प्राक् तत् प्रत्यक्षमितीदृशम्" ॥ "वचनं राजकीयं वा लौकिकं नापि विद्यते।। न चाऽपि स्मरणात् पश्चादिन्द्रियस्य प्रवर्तनम्" ॥ "वार्यते केनचिन्नापि तत् तदानी प्रदुष्यति । तेनेन्द्रियार्थसम्बन्धात् प्रागूवं वापि यत् स्मृतेः" ॥ "विज्ञानं जायते सर्व प्रत्यक्षमिति गम्यताम्"। [श्लो० वा० प्रत्यक्ष० श्लो०२३४-२३५-२३६-२३७] १० इति अनेकदेश-कालाऽवस्थासमन्वितं सामान्यम् द्रव्यादिकं च वस्तु अस्याः प्रमेयमित्यपूर्वप्रमेयसद्भावः। तदुक्तम् "गृहीतमपि गोत्वादि स्मृतिस्पृष्टं च यद्यपि । तथापि व्यतिरेकेण पूर्वबोधात् प्रतीयते" ॥ "देश-कालादिभेदेन तत्रास्त्यवसँरो मितेः। यः पर्वमवगतो नाशः(नांशः) सच नाम प्रतीयते"॥ "इदानींतनमस्तित्वं नहि पूर्वधिया गतम्"। [ श्लो० वा० प्रत्यक्ष० श्लो०२३२-२३३-२३४ ] इति । नन्वेवं भिन्नाभिन्नवस्तुविषयोनिबन्धा( योऽनुसन्धा)नप्रत्ययः प्राप्तः इष्यत एवैतत् यतो न भिन्नत्वे न प्रत्यभिज्ञानम् अभिन्नत्वेऽपि न प्रमेयभेदः । प्रत्यभिज्ञाव्यपदेशोऽप्यस्य भेदाभेदालम्बनत्वमेव २० द्योतयति यतो नैककालैकप्रमेयगोचराणां भिन्नप्रमातृसम्बन्धिानानां 'प्रत्यभिज्ञा' इति व्यपदेशः, नापि सर्वथा भिन्नेषु घट-पटादिषु । न च कालस्यातीन्द्रियत्वोंदू मिन्नकालैकप्रमेयप्रत्य भिक्षाने न प्रमेयातिरेक इति वक्तव्यम् , यतो यद्यपि न कश्चित् तत्र प्रमेयातिरेकस्तथापि घटादयः कदाचिदुपलक्षिताकारा अन्यदाऽनुपलक्ष(क्ष्य)माणाःसदसत्तया सन्देहविषयतामापद्यन्ते तत्वभावा. वेदिका च प्रत्यभिज्ञा तेषां सन्देहविषयतामपाकुर्वाणाप्रमाणतामश्नुते यतोन विषयातिरेक एंव प्रामा-२ ण्यनिबन्धनं प्रत्ययानाम् किन्तु सन्देहाऽपाकरणमपि सन्दिग्धस्य, यदा त्वविरतोपलब्धिसन्तानाः पुनः पुनरपेतसन्देहसङ्गाः प्रत्यभिज्ञायन्ते भावास्तदा सन्देहविच्छेदाधिकफलाभावात् मा भूत् प्रत्यभिज्ञा प्रमाणम् । न च सविकल्पकमेवैकं प्रत्यभिज्ञाज्ञानम् अविकल्पकस्याऽपि एकत्वग्राहिणः प्रत्यभिज्ञाज्ञा. नस्य सद्भावात्। तथाहि-एकप्रमातृसम्बन्धिप्रथमप्रत्ययाऽभिन्नविषयाकारानुभवतोऽत्रुट्यदूपार्थनायविकल्पकं शानमनुभूयत एव एकत्वग्राहि च ज्ञानं प्रत्यभिज्ञाज्ञानमुच्यते इति क्षणिकाभिव्यक्तिध्वपि ३० १ "प्रत्यक्षं प्रत्यभिज्ञा अक्षान्वय-व्यतिरेकानुविधानात् तदन्यप्रत्यक्षवत् । न च स्मरणपूर्वकत्वात् तस्याः प्रत्यक्षत्वाभावः सत्संप्रयोगजस्वेन स्मरणपश्चाद्भावित्वेऽपि अस्याः प्रत्यक्षत्वाविरोधात्" इत्यादि-प्रमेयक. पृ. ९७ द्वि० पं० ७॥ २-सन्धानात् ज्ञा-वा. बा. विना। ३-कीयं वा लौकिकं ना विद्य-भां. मां. हा०।-कीयं चालौकिक वा विद्य-वि० ।-कीयं चालौकिकं वा विविद्य-आ० ।-कीयं वा वैदिकं वाऽपि विद्य-श्लो. वा० । ४-गूर्वचा-वा. बा०। ५-धान् प्रताय-भां० मां०। ६ “व्यक्ति-कालादिमेदेन"-श्लो. वा०। ७-सरे वा.बा. विना। ८-वगतांशः वा. बा०। “यः पूर्वावगतोऽशोऽत्र स न नाम प्रतीयते"-श्लो. वा० । “ननु गृहीतमपि गृह्यते इति कथं प्रामाण्यम् ? अत आह-'यः' इति । तस्मिन्नशे मा भूत् प्रामाण्यम् अगृहीतकालान्तरसम्बन्धा. पेक्षमेव तु प्रामाण्यम्" इति-श्लो. वा. पार्थ. व्या० पृ. २०३ पं० १६। ९-षयोऽनुबन्धन-वा. बा। १०-तत य-वा. बा०। ११ यतो न भिन्नत्वेऽपि प्रमेयभेदः वा. बा. विना। १२-वाभिनकाले प्र-वा. बा०। १३-विषयातिरेकस्य(स्ये)व संदेहापाकरणस्यापि प्रामाण्यनिबन्धनत्वात्-" नयोप० पृ. ३३ द्वि. पं. १३। १४ एवा प्रा-हा. वि.। १५-नयोप० पृ. ३४ प्र. पं. १ १६-त्यभिज्ञानं वा. बा। १७-था प्र-वा० बा०। १८-कासिव्य-आ०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy