SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३१५ चतुर्थगाथाव्याख्या। [ द्रव्यास्तिकैकप्रकृतिकयोः संग्रह-व्यवहारयोः शुद्धाशुद्धतया भेदनिरूपणम् ] 'दवढिओ य पजवणओ य' इत्यादिपश्चाद्धैकदेशस्य विवरणाय आह सूरिः दव्वद्रियनयपयडी सुद्धा संगहपरूवणाविसओ। पडिरूवे पुण वयणत्थनिच्छओ तस्स ववहारो॥४॥ इति गाथासूत्रम्। अत्र च संग्रहनयप्रत्ययः शुद्धो द्रव्यास्तिकः व्यवहारनयप्रत्ययस्त्वशुद्ध इति तात्पर्यार्थः । अवयवार्थस्तु द्रव्यास्तिकनयस्य व्यावर्णितस्वरूपस्य प्रकृतिः स्वभावः शुद्धा इत्यसङ्कीर्णा विशेषासंस्पर्शवती संग्रहस्य अभेदग्राहिनयस्य प्ररूपणा-प्ररूप्यतेऽनयेति कृत्वा-उपवर्णना १० पदसंहतिस्तस्या विषयोऽमिधेयः । विषयापकारेण विषयिणो वृत्तस्य विषयव्यवस्थापकत्वादुपचा रेण विषयेणा(ण) विषयिप्रकथनमेतत् अन्यथा का प्रस्तावः शुद्धद्रव्यास्तिकेऽमिधातुं प्रक्रान्ते संग्रहेप्ररूपणाविषयाभिधानस्य ? [संग्रहस्य सत्तामात्रविषयकत्वसाधनम् ] सुबन्तस्य तिङन्तस्या(स्य) वा पदस्य वाक्यस्य वा प्ररूपणास्वभावस्य विषयः संग्रहामि-१५ प्रायेण भाव एव । तथाहि-जाति-द्रव्य-गुण-क्रियापरभाषितरूपेण स्वार्थ-द्रव्य-लिङ्ग-कर्मादिप्रकारेण वा सुबन्तस्य योऽर्थः(र्थः स) भावाद् व्यतिरिक्तो वा भवेत्, अव्यतिरिक्तो वा? यदि व्यतिरिक्तस्तदा निरू(रु)पाख्यत्वादत्यन्ताभाववत् न द्रव्यादिरूप इति कथं सुबन्तवाच्यः? अव्यतिरिक्तश्चेत् कथं न भावमात्रता सुबन्तार्थस्य ? तिङन्तार्थस्यापि क्रिया-काल-कारक-पुरुषउपग्रह-वचनादिरूपेण परिभाष्यमाणस्य सत्तारूपतैव । तथाहि-'पचति' इत्यत्र क्रिया विक्लित्तिल-२० क्षणा, काल आरम्भप्रवृत्ति(प्रभृति)रवर्ग(रपवर्ग)पर्यन्तो वर्तमानस्वरूपः, कारकं कर्ता, पुरुषः परभावात्मकः, उपग्रहः परार्थता, वचनमेकत्वम् यद्यपि प्रतिपत्तिविषयस्तथापि सत्त्वमेवैतत् यतः क्रिया घसती चेत् कारकैर्न साध्येत खपुष्पादिवत्,सती चेत् अस्तित्वमेव,सा कारकैश्चाभिव्यज्यत इति । एवं कालादयोऽप्यसन्तश्चेद् न शशशृङ्गाद् भिधेरन् , सदात्मकाश्चेत् कथं न अस्तित्वादभिन्ना इति सत्त्व तिङन्तस्यार्थः। 'घटोऽस्ति' इति वाक्यार्थ(\) यद वाक्यं प्रयुज्यते 'घटः सन्' इति तत्र भावाभि-२५ धायिता पदद्वयस्यापि । तथाहि-'घटः' इति विशेषणम् 'सन्' इति विशेष्यम् अत्र द्वयेनापि चाभावविपरीतेन भाव्यम् न ह्यन्यथा तद् विशेषणम् नापि तद् विशेष्यं स्यात् निरू(रु)पाख्यत्वाद् अत्यन्ताभाववत् । यदि पुनरभावविपरीतं तद् इष्यते, विशेषण-विशेष्ययोः कथं न भावरूपता? तेन यदेव पटस्य (घटस्य) भावो घटत्वं तदेव घटः, यच्च सतो भावः सत्त्वं तदेव 'सन्' इति सर्वत्र संग्रहामिप्रायतः प्ररूपणाविषयो भाव एव । उक्तं चैतत् समयसद्भावमभिधावता अन्येनापि-३० "अँस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् । अपूर्वदेवताशब्दैः समप्रा(मा)हुर्गवादिषु" ॥ [वाक्यप० द्वि० का० श्लो० १२१] १पृ. २७१ पं० ८। २-कवेण प-आ० । शोधनाय व्यापार्यमाणासु सर्वासु टीकाप्रतिषु 'पडिरूवं' इत्येव प्रतीकं टीकाकृता निरदेशि, व्याख्यायि च 'प्रतिरूपम्' इति । ३-या कारण-वा० बा०। ४-ण विषयणा विषआ० ।-ण विषयेणो विष-वि०।-ण विषयिप्र० भ० मां०।-ण विषयिप्रथन-वा. बा०। ५-हरूप-वा० बा० विना। ६-स्याव्याप-वा. बा०।-स्यात्वाप्ररू-भां० मां० ।-स्याचाप-वि०। ७-योर्थः स्वभावा स्वभावाद् व्यति-वा० बा०। ८-भावात्तद्र-वा० बा०। ९-मात्रस्य वा० बा०। १०-वृत्तिपपवर्ग-आ० । वृत्तिपवर्ग-भां. मां. हा० वि०। ११-रभवात्म-वा० बा०। १२-ति अस्याथै यद वा. बा. विना। १३-ववैपरीत्येन वा. बा०। १४-भावतया य-वा० बा०। १५ तद्विशेष्यते आ०। १६-च कटस्थ वा० बा०। १७ “यथाहुः" इति निर्दिश्य श्लोकोऽयमुद्धतः तन्त्रवार्तिके पृ० २५१ पं० १३ । तत्र च "अपूर्वदेवताखगैं: सममाहुः" इति पाठः।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy