SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३१६ प्रथमे काण्डे "घटादीनां ने वाकारात्() प्रत्यापयति वाचकः । वस्तुमात्रनिवेशित्वात् तद्नतिर्नान्तरीयकैः" ॥[ वाक्यप० द्वि० का० श्लो० १२५] अत एव “यत्र विशेषक्रिया नैव श्रूयते तत्रास्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानो. गम्यते" ] इत्युक्तं शब्दसमयवेदिभिः। अवगतिश्चैवं युक्ता यदि सत्तां पदार्थों ५व्यभिचरेत्, अव्यभिचारे च तदावेशात् तदात्मकतैव सत्तापरित्यागे वा स्वरूपहानमिति मेवाध्यक्षस्य शब्दस्य वा विषयः अन्तैनी(नी)ताशेषम् । पत् । भेदप्रतिभासस्तु भेदप्रतिपादकागमोपहतान्तःकरणानां लस्यानेकत्वावभासनवत असत्य इति सर्वमेदान् अपहृवानः सवे सन्मात्रतया संगृह्वन् शुद्धा द्रव्यास्तिकप्रकृतिरिति स्थितम् । 1 [व्यवहारस्य विशेषमिश्रितसत्ताविषयकत्वसाधनम् ] तामेवाऽशुद्धम्(द्धाम्) पडिरूवं पुण इत्यादिगाथापश्चार्द्धन दर्शयत्याचार्यः-प्रतिरूपं बिम्बम् प्रतिनिधिरिति यावत् । विशेषेण घटादिना द्रव्येण सङ्कीर्णा सत्ता, पुनरिति प्रकृति स्मरयति तेनायमर्थः-विशेषेण संकीर्णा सत्ता प्रकृतिः स्वभावः वचनार्थनिश्चयः इति णीयवस्तुविषयनिवृत्ति-प्रवृत्त्युपेक्षालक्षणव्यवहारसंपादनार्थमुच्यत इति वचनम् तस्य–'घटः' १५विभक्तरूपतया 'अस्ति' इत्यविभक्तात्मतया प्रतीयमानो व्यवहारक्षमः-अर्थस्तस्य निश्चयः निर्गतः पृथग्भूतः चयः परिच्छेदः तस्य इति द्रव्यास्तिकस्य व्यवहारः इति नंपरः नयः । सोऽभिमन्यते यदि हि हेयोपादेयोपेक्षणीयस्वरूपाः परस्परतो विभिन्नस्वभावाः सदू पतया शब्दप्रभवे संवेदने भावाः प्रतिभान्ति ततो निवृत्ति-प्रवृत्त्युपेक्षालक्षणो व्यवहारस्तद्विषयः प्रवृत्तिमासादयति नान्यथा; न चैकान्ततः सन्मात्राऽविशिष्टेषु भावेषु संग्रहाभिमतेषु पृथक् स्वरू२० पतया परिच्छेदोऽबाधितरूपो व्यवहारनिबन्धनं संभवतीति । तथाहि-यद्यद्याका ( यत् यदाका)रनिरपेक्षतया स्वग्राहिणि ज्ञाने प्रतिभासमाधत्तेतत् तथैव 'सत्' इति व्यवहर्तव्यम्, यथा प्रतिनियतं सत्तादिरूपम् , घटाद्याकारनिरपेक्षं च पटादिकं स्वावभासिनि शाने स्वरूपं सन्निवेशयतीति स्वभावहेतुः। घटादिनिरपेक्षत्वं च पटादेः घटाद्यभावेऽपि भावात् अवभासमीनाञ्च(सनाच) सिद्धम् । __ यद्वा प्रतिशब्दो वीप्सायाम् रूपशब्दश्च वस्तुन्यत्र प्रवर्त्तते । तेनायमर्थः-रूपं रूपं प्रति, २५वस्तु वस्तु प्रति यो वचनार्थनिश्चयस्तस्य प्रकृति(तिः) स्वभावःस व्यवहार इति । तथाहिप्रतिरूपमेव वचनार्थ निश्चयो व्यवहारहेतुर्न पुनरस्तित्वमात्रनिश्चयः, यतः 'अस्ति' इत्युक्तेऽपि श्रोता शङ्कामुपगच्छन् लक्ष्यते अतः 'किमस्ति' इत्याशङ्कायाम् 'द्रव्यम्' इत्युच्यते, तदपि 'किम् ? पृथिवी, सापि का ? वृक्षः, सोऽपि कः? चूतः तत्राप्यर्थित्वे यावत् 'पुष्पितः' 'फलितः' इत्यादि तावन्निश्चिनोति यावद् व्यवहारसिद्धिरिति । व्यवहारो हि नानारूपतया सत्तां व्यवस्थापयति तथैव संव्यव३० हारसंभवात् । अतो व्यवहरतीति व्यवहार इत्यन्वर्थसंज्ञां बिभ्रत् अशुद्धा द्रव्यास्तिकप्रकृतिर्भवति ॥४॥ १न चाका मां० वि०। 'न चाकारान्'-वाक्यप०। २-गतिना वा० बा०। "तदतिर्नान्तरीयकी" वाक्यप। "न हि सकलविशेषसहितमर्थ शब्दः प्रत्याययितुमलमिति तत्राकारविशेषावगतिर्नान्तरीयक्येव अनुनिष्पादिन्येव बोद्धव्या"वाक्यप० टी०। ३-रुषे यु-वा० बा० विना। “अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति"-महाभाष्ये अ० २,३,१ वार्ति० ११, वार्ति० ४ भा० तथा महाभा० २, ३, ४६ वार्ति० ४ भा० । हैमश० अ०३ पा० ३० सू ३ बृ० वृत्तौ पृ. ५८ प्र० पं० ८ । हैमधातुपा० पृ. २ पं० ४ । पातज. यो. पा. ३ सू० १७ वाच. टी. पृ० १४२ पं० २५ आनन्दा०। ४ अथ ग-हा०। ५-न्तनीता-वा० बा० विना । ६-रोद्धत-वि०।-रोपहृत-आ०। ७ तमेवाऽशुद्धा-वा० बा० । तमेवाशुद्ध-हा०। ८-विशेषणसं-वा. बा०। ९-वहारणसं-आ. हा०वि० । १०-नपुरो न-वा. बा० विना। ११ यदाद्याका-भां० मा. आ. हा० । यद्या-वि०। १२-मानत्वसि-वि०। १३ प्रवृत्तिः स्व-वा० बा०। १४-हारे हि भां० मा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy