SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३१४ प्रथमे काण्डे [ एवंभूतनयस्वरूपम् ] शब्दामिधेयक्रियापरिणतिवेलायामेव 'तद् वस्तु' इति भूत एवंभूतः प्राह-यथा संज्ञामेदाद् मेदवद् वस्तु तथा क्रियाभेदादपि, सा च क्रिया तनेत्री यदैव तामाविशति तदैव तन्निमित्तं तत्त. द्यपदेशमासादयति नान्यदेत्यतिप्रसङ्गात् । तथाहि-यदा 'घटते' तदैवासौ 'घटः' न पुनः 'घटि५तवान्' 'घटिष्यते' वा 'घटः' इति व्यपदेष्टुं युक्तः सर्ववस्तूनां घटतापत्तिप्रसङ्गात् । अपि च, चेष्टा समय एव चक्षुरादिव्यापारसमुद्भूतशब्दानुविद्धप्रत्ययमास्कन्दन्ति चेष्टावन्तः पदार्थाः यथावस्थितार्थप्रतिभास एवं च वस्तूनां व्यवस्थापको नान्यथाभूतः अन्यथा अचेष्टावतोऽपि चेष्टावत्तया शब्दानुविद्धेऽध्यक्षप्रत्यये प्रतिभास्यत्य(भास इत्य)भ्युपगमे तत्प्रत्ययस्य निर्विषयतया भ्रान्तस्यापि वस्तुव्यवस्थापकत्वे सर्वःप्रत्ययः सर्वस्यार्थस्य व्यवस्थापकः स्यादित्यतिप्रसङ्गः। तन घटनसमयात् १०प्राक् पश्चाद् वा 'घट' तयपदेशमासादयतीत्येवंभूतनयमतम् । उक्तं च "एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते" ॥ [ ] इति । तत् स्थितमेतत् ऋजुसूत्रादयः पर्यायास्तिकस्य विकल्पा इति । अस्याश्च गाथायाः सर्वमेव शास्त्रं विवरणम् ॥३॥ १तनेदत्री यदैव तमा-वा० बा०। २-व वस्तू-आ० हा० वि०। ३-भासात्यभ्यु-आ०।-भासत्यभ्यु-मा०। ४ सर्वस्य व्यव-आ० । सर्वस्याव्यव-भां० मा• हा• वि.। ५ न्यायाव• टिप्प. पृ. १२८ पं०२४। ६शासावि-बा. बा. भ.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy