SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३१० प्रथमे काण्डेचक्षुरादीनां विज्ञानोपकारित्वेनेष्टत्वात् । न च चित्तमपि साध्यधर्मित्वेनोपात्तमित्यपरस्य तद्यतिरिक्तस्य परत्वमत्राभिप्रेतम्, चित्तादिव्यतिरेकिणोऽपरस्याविकारिण उपकार्यत्वासम्भवात् चक्षुरूपाऽऽलोक-मनस्काराणामपरचक्षुरादिकदम्बकोपकारित्वस्यान्यायप्राप्तत्वात् विज्ञानस्य वा अने. ककारणकृतोपकाराध्यासितस्य संहतत्वं कल्पितमविरुद्धमेवेति नात्र साध्ये हेतोरप्यसिद्धता सङ्ग५च्छते? । तन्न साङ्ख्योपकल्पितचैतन्यरूपस्य नित्यस्यात्मनः कुतश्चित् सिद्धिः । तन अशुद्धद्रव्यास्तिकमतावलम्बिसाङ्ख्यदर्शनपरिकल्पितपदार्थसिद्धिरिति पर्यायास्तिकमतम् । [नयलक्षणानि ] [ संग्रह-नगमनयस्वरूपम् ] अत्र च नैगम-संग्रह-व्यवहारलक्षणास्त्रयो नयाः शुक्यशुद्धिभ्यां द्रव्यास्तिकमतमाश्रिताः १० ऋजुसूत्र-शब्द-समभिरुढ-एवम्भूतास्तु शुद्धितारतम्यतः पर्याया(य)नयमेदाः । तथाहि-संग्रहमतं तावत् प्रदर्शितमेव, येषां तु मतेन नैगमनयस्य सद्भावस्तैस्तस्य स्वरूपमेवं वर्णितम्-राश्यन्तरो. पलब्धं नित्यत्वमनित्यत्वं च नयतीति निगमव्यवस्थाभ्युपगमपरो नैगमनयः। निगमो हि नित्याऽ. नित्य-सदसत्-कृतक(काऽ)कृतकस्वरूपेषु भावेवपास्तंसाकर्यस्वभावः सर्वथैव धर्मधर्मि मेदेन सम्प द्यत इति । स पुनर्नेगमोऽनेकधा व्यवस्थितः प्रतिपत्रभिप्रायवशान्नयव्यवस्थानात्। प्रतिपत्तारच १५ नानाभिप्रायाः। यतः केचिदाहुः-"पुरुष एवेदं सर्वम्" [ श्वेताश्वत० उ० अ० ३, १५] इत्यादि, यदाश्रित्योक्तम् "ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्" [गीता अ० १५ श्लो०१] पुरुषोऽप्येकत्व-नानात्वभेदात् कैश्चिदभ्युपगतो द्वेधा, नानात्वेऽपि तस्य कर्तृत्वाऽकर्तृत्वमेदो२० रप(भेदोऽप)रेराश्रितः, कर्तृत्वेऽपि सर्वगतेतरभेदः, असर्वगतत्वेऽपि शरीरव्याप्त्यव्याप्तिभ्यां "भेदः, अव्यापित्वेऽपि मूर्तेतरविकल्पादू भेद एव । अपरैस्तु प्रधानकारणिकं जगद् अभ्युपगतम्, तत्रापि सेश्वर-निरीश्वरभेदाद् भेदाभ्युपगमः । अन्यैस्तु परमाणुप्रभवत्वमभ्युपगतं जगतः, तत्रापि सेश्वर-निरीश्वरभेदाद् भेदोऽभ्युपगतः, सेश्वरपक्षेऽपि स्वकृतकर्मसापेक्षत्वाऽनपेक्षत्वाभ्यां तदवस्थ एव भेदाभ्युपगमः । "कैश्चित् स्वभाव-काल-यदृच्छादिवादाः समाश्रिताः, तेष्वपि सापे. २५क्षत्वाऽनपेक्षत्वाभ्युपगमाद् भेदव्यवस्था अभ्युपगतैव । तथा, कारणं नित्यम् कार्यमनित्यमित्यपि द्वैतं कैश्चिदभ्युपगतम्, तत्रापि कार्य स्वरूपं नियमेन त्यजति न वेत्ययमपि भेदाभ्युपगमः । एवं मूत्तरेव मूर्त्तमारभ्यते, मूतैर्मूर्त्तम् , मूतैरमूर्त्तमित्याद्यनेकधा प्रतिपत्रभिप्रायतोऽनेकधा निगमनान्नैगमोऽनेकभेदः। [ व्यवहारनयस्वरूपम् ] ३० व्यवहारनयस्तु-अपास्तसमस्तभेदने (मे)कमभ्युपगच्छतोऽध्यक्षीकृतभेदनिबन्धनव्यवहारविरोधप्रसक्तेः-कारक-ज्ञापकभेदे(द)परिकल्पनानुरोधेन व्यवहारमाचर(मारच)यन् प्रवर्तते इति कारणस्यापि न सर्वदा नित्यत्वम् कार्यस्यापि न सर्वदा नित्यत्वम् कार्यस्यापि नैकान्ततः प्रक्षय इति । ततश्च न कदाचिदनीदृशं जगदिति प्रवृत्तोऽयं व्यवहारो न केनापि प्रवर्त्यते अन्यथा प्रवर्तकान १-त्वमात्रा-भां. वि. कां. विना। २-कारिण उपकारिण उपकार्यत्वा-वा० बा० विना। ३-त्वस्य न्याय-वा० बा० आ० हा० विना। ४-स्य चा-वि०। ५ साध्य हे-वा० बा० विना। ६-न्न सङ्ख्योपकां. आ. हा० वि० विना। ७-दर्शनक-वा. बा. विना। ८ पृ. २७२ पं. १६। ९-पमेव वणितमां-पमेव वर्णितराश्य-भां० हा० । १०-स्तसाङ्कार्य-वि० डे० ।-स्तस्यांकार्य-वा० ।-स्तसाकार्य-भा० मां. हा० ।-स्तमाकार्य स्व-आ०। ११ कर्तृत्वाकर्तृत्वमेदो रपरैरा-भां० मां० । कर्तृत्वाकर्तृत्वे मेदोरपरैरा-आ० वि० । कर्तृत्वाभेदोरपरैरा-वा० बा० । १२ भेदो व्यापि-वा. बा. विना। १३-श्वरभेदा. भ्युप-वा० बा० विना। १४-दाभेदोपग-वा० बा० विना। १५ कैश्चितु वा. बा०। १६ एवं मू वा. बा। १७ अनवधारणमत्र विशेषः। १८-स्तमेदानेक-वा. बा. विना। ..
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy