SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३११ वस्थाप्रसक्तिः। ततो न व्यवहारशून्यं जगत् । न च प्रमाणाविषयीकृतः पक्षोऽभ्युपगन्तुं युक्तः अदृष्टपरिकल्पनाप्रसक्तेः, दृष्टानुरोधेन ह्यदृष्टमपि वस्तु कल्पयितुं युक्तम् अन्यथा कल्पनासम्भवादिति संग्रह-नैगमाऽभ्युपगतवस्तुविवेकाल्लोकप्रतीतपथानुसारेण प्रतिपत्तिगौरवपरिहारेण प्रमाण-प्रमेयप्रमितिप्रतिपादनं व्यवहारप्रसिद्ध्यर्थ परीक्षकैः समाश्रितमिति व्यवहारनयाभिप्रायः । ततः स्थितं नैगम-संग्रह-व्यवहाराणां द्रव्यास्तिकनयप्रभेदत्वम् । विषयभेदश्चैपां प्रतिपादितः "शुद्ध द्रव्यं समाश्रित्य संग्रहस्तदशुद्धितः। नैगम-व्यवहारौ स्तां शेषाः पर्यायमाश्रिताः" ॥ [ तदुक्तम् "अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते निगमो नयः" ॥[ ] १० "सद्रूपतानतिकान्त-स्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् संग्रहो मतः” ॥ [ "व्यवहारस्तु तामेव प्रतिवस्तुव्यवस्थिताम् । तथैव दृश्यमानत्वात् व्यवहारयति देहिनः"॥ [ ] इति। [ऋजुसूत्रनयस्वरूपम् ] पर्यायनयभेदाः ऋजुसूत्रादयः "तत्रर्जुसूत्रनीतिः स्यात् शुद्ध पर्यायसंश्रिताः (ता)। नश्वरस्यैव भावस्य भावा(वात्) स्थितिवियोगतः" ॥ [ देश-कालान्तरसम्बद्धस्वभावरहितं वस्तुतत्त्वं साम्प्रतिकम् एकस्वभावम् अकुटिलम् ऋजु सूत्रयतीति ऋजुसूत्रः । न हि एकस्वभावस्य नानादिक-कालसम्बन्धित्वस्वभावमनेकत्वं युक्त एकस्यानेकत्वविरोधात् । न हि स्वरूपमेदादन्यो वस्तुभेदः स्वरूपस्यैव वस्तुत्वोपपत्तेः। तथाहिविद्यमानेऽपि स्वरूपे किमपरमभिन्नं वस्तु यद् रूपनानात्वेऽप्येकं स्यादिति ? यद् वस्तुरूपं येन स्वभावेनोपलभ्यते तत् तेन सर्वात्मना विनश्यति न पुनः क्षणान्तरसंस्पर्शीति क्षणिकम् , क्षणान्तरसम्बन्धे तत्क्षणाकारस्य क्षणान्तराकारविशेषाप्रसङ्गात् अतो जातस्य यदि द्वितीयक्षणसम्बन्धः प्रथमक्षणस्वभावं नापनयति तदा कल्पान्तरावस्थानसम्बन्धोऽपि तन्नापनयेत्, स्वभावभेदे वा२५ कथं न वस्तुभेदः अन्यथा सर्वत्र सर्वदा भेदाभावप्रसक्तिः? अक्षणिकस्य क्रम-योगपद्याभ्यामर्थक्रियानुपपत्तेरसत्त्वम्, सहकार्युपढौकितातिशयमनङ्गीकुर्वतस्तदपेक्षाऽयोगादक्षेपेण कार्यकारिणः सर्वकार्यमेकदैव विध्यादिति न क्रमकर्तृत्वम् , न वा कदाचनापि स्वकार्यमुत्पादयेत् निरपेक्षस्य निरतिशयत्वात् नहि निरपेक्षस्य कदाचित् करणमकरणं वा विरोधात्, तत्कृतमुका(मुपका)रं स्वभावभूतमङ्गीकुर्वतः क्षणिकत्वमेव । व्यतिरिक्तत्वे वा सम्बन्धासिद्धिः, अपरोपकारकल्पनेऽनवस्थाप्र-३० सक्तिः। युगपदपि न नित्यस्य कार्यकारित्वम् द्वितीयेऽपि क्षणे तत्स्वभावात् ततस्तदुत्पत्तितः तत्कमप्रसक्तेः । क्रमाऽक्रमव्यतिरिक्तप्रकारान्तराभावाच्च न नित्यस्य सत्त्वम् अर्थक्रियाकारित्वलक्षणत्वात् १ ततो व्यव-वा. बा. विना। २-रौ स्ता भां०। ३ “मन्यते नैगमो नयः"न्यायाव. टिप्प पृ० ११८ पं० १९। ४ न्यायाव० टिप्प० पृ० ११८ पं० २५ । ५ “सत्तारूपताम्"-न्यायाव० टिप्प० पृ० १२०५० २६ । ६-स्थितम् वा० बा०। ७-श्रितो वा० बा० विना । न्यायाव० टिप्प० पृ. १२४ पं० २४ । ८ नेश्वर-वा० भां० मां० वि० । नैश्वर-आ० हा०। ९ "भावात् स्थितिवियोगतः"-न्यायाव. टिप्प० पृ. १२४ पं० २५ । १०-म्बन्ध-वि० डे० । ११-स्थातत्सम्ब-वा० वा०। १२ तं न इत्यर्थः । १३-सक्तः वि० डे। १४-पि खं का-वा. बा. आ. वि. डे० विना। १५-त् कारणमकार-वा. वा.। १६-कतनुकारं भां० मां० हा०। १७-वात् तदुत्पत्ति-वा. बा०। १८-रित्वत्वे प्रकारा-वि• डे० ।-रिक्तत्वे प्रकारान्तरभावा-भां० मा. आ. हा० कां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy