________________
नयमीमांसा।
३०९
सालयस्य तौ प्रसिद्धौ न तथा बौद्धस्येति कथं नान्यतरासिद्धता? ने च शब्दमात्रसिद्धौ हेतुसिद्धिः, वस्तुसिद्धौ वस्तुन एव सिद्धस्य हेतुत्वात् । तदुक्तम्
"तस्यैव व्यभिचारादौ शब्देऽप्यव्यभिचारिणि ।
दोषवत् साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः” ॥ [ अथ प्रसङ्गसाधनमिति पक्षस्तदा साध्यविपर्यये बाधकप्रमाणाप्रदर्शनादनैकान्तिकता, न छत्र ५ प्रतिबन्धोऽस्ति चेतनस्योत्पाद-नाशाभ्यां न भवितव्यमिति । यदपि प्रकल्पितम्
_ "वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य” ॥ [ साक्ष्यका० ५७ ] इति, तदपि न सम्यक् यतः क्षीरमपि न स्वातन्येण वत्सविवृद्धिं चेतस्याधाय प्रवर्तते किं तर्हि ११० कादाचित्केभ्यः स्वहेतुभ्यः प्रतिनियतेभ्यः समुत्पत्तिमासादयति; तच्च लब्धात्मलाभं वत्सवि. द्धिनिमित्ततामुपयातीत्यचेतनमपि प्रवर्तत इति व्यपदिश्यते, न त्वेवं प्रधानस्य कादाचित्की प्रवृत्तिर्युक्ता नित्यत्वात् तस्य अन्यहेत्वभावाच्च । तथाहि-न तावत् कादाचित्ककारणसन्निधानायत्ता कादाचित्की शक्तिरस्य युक्ता तदभावात् । नापि स्वाभाविकी सदा सन्निहिता अविकलकारणत्वेन सर्वस्याभ्युदयनिःश्रेयसलक्षणस्य पुरुषार्थस्य युगपदुत्पत्तिप्रसङ्गात् । न च बुद्धि-चैतन्ययोरभेदेऽपि १५ चैतन्यस्यात्मत्वमप्रतिषिद्धमेव, यतो नास्माभिः चैतन्ये आत्मशब्दनिवेशः प्रतिषिध्यते किं तर्हि ? यस्तत्र नित्यत्वलक्षणो धर्मः समारोपितः स एव निषिध्यते, तन्नित्यत्वेऽक्षसंहतेर्वैफल्यप्रसक्तेः तदुत्पत्त्यर्थत्वात् तस्यानित्यत्वे चोत्पत्तेरसम्भवात्-नहि वह्नेः सदाऽस्तित्वे तदर्थ जनतेन्धनमाददीत । तन्न नित्यैकरूपं चैतन्यं युक्तिसङ्गतम्। यदपि "परार्थाश्चक्षुरादयः” [
] इत्याद्युक्तम्, तत्र आधेयातिशयो वा२० परः साध्यत्वेनाभिप्रेतः, यद्वा अविकार्यनाधेयातिशयः, आहोस्वित् सामान्येन चक्षुरादीनां पाराyमात्रं साध्यत्वेनाभिप्रेतमिति विकल्पत्रयम । तत्र यदि प्रथमः पक्षः स न युक्तः, सिद्धसाध्यतादोषाऽऽघ्रातत्वात् यतोऽस्माभिरपि विज्ञानोपकारित्वेनाभ्युपगता एव चक्षुरादयः "चक्षुः प्रतीत्य रूपादि चोत्पद्यते चक्षुर्विज्ञानमें” [
] इत्यादिवचनात् । अथ द्वितीयः पक्षोऽङ्गीक्रियते तदा हेतोविरुद्धतालक्षणो दोषः विकार्युपकारित्वेन चक्षुरादीनां साध्यविपर्ययेण २५ दृष्टान्ते हेतोाप्तत्वप्रतीतेः। तथाहि-अविकारिणि अतिशयस्याधातुमशक्यत्वात् शयनाऽऽसनादयोऽनित्यस्यैवोपकारिणो युक्ता न नित्यस्येति कथं न हेतोविरुद्धता? यदि पुनः सामान्येन आधेयानाधेयातिशयविशेषमपास्य पारार्थ्यमात्रं साध्यत इत्ययं पक्षः कक्षीक्रियते तदापि सिद्धसाध्यतैव,
१ "शब्दमात्रसिद्धावपि न हेतुसिद्धिः, वस्तुन एव हेतुत्वेन वस्तुनो हि वस्तुसिद्धिः । तस्यैव व्यभिचारादौ शब्देऽप्यव्यभिचारिणि । दोषवत् साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः" ॥
प्रमेयर० को० पृ० २९ पं० १२ वादिघटमुद्गरवादे । २-पि चेतन्यस्यात्मत्वमप्रति-भां. मां० ।-पि चैतस्यात्मत्वमपि प्रति-वा० बा० ।-पि चेतन्यस्यात्मत्वमपि प्रति-आ० । ३ स्य वा. विना। ४ पृ. ३०७ पं० १६ । माठरवृ० पृ. २९ पं० १८ का०१७ साङ्ख्य० को० पृ. ९. पं. ९ का० १७ । सायद० अ० १ सू. १४० पृ० ९१५० २।।
५ "चक्खं च पटिच्च रूपे च उप्पजति चक्खुविआणं"-संयुत्तनि० निदानसं० गहपतिव० पृ०७२ अं०११भा०२। मध्यमकवृत्ति पृ. ६५०३।।
"अभिध. क. व. (२३४ b5): प्रतिर् वीप्सार्थ इत्येवमादिका कल्पना अत्रैव प्रतीत्यसमुत्पादसूत्रे युज्यते इह कथं भविष्यतिः चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानमिति ? न हि 'प्रतीत्यानां चढूंषि प्रतीत्यचक्षूषि' इति समासः संभवति अर्थायोगात् चक्षुर्हि प्रतीत्य रूपाणि प्राप्य चोत्पद्यते चक्षुर्विज्ञानमिति अयमर्थो गम्यते प्रतीत्यसमुत्पादसूत्र (सूत्रान्तरः महानिदानपर्यायसूत्र, सहेतुसप्रत्ययसनिदानसूत्र) चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज इति सूत्रे वचनात् (अभिध. क. व. २२७ b 2)" Vallée Poussin इत्यनेन संपादितमध्यमकवृत्ति पृ. ६ टिप्प. ४। ६ दोषोऽविका-वा. बा. विना। -रादीनां साध्यसाध्यविप-वा० ।-रादीनां साध्ये साध्यविप-भां० मा० आ०। ८ सामान्येनाधेयानाधेयानाधेयातिश-भां. मां। सामान्येनाधेयानातिश-वा. बा.। सामान्येनाधेयातिश-वि• डे० ।