SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३०८ प्रथमे काण्डे असदेतत्; यतो यदि प्रकृतिरकृतस्यापि कर्मणः फलमभिलषितमुपनयति तदा सर्वदा सर्वस्य पुंसोऽभिलषितार्थसिद्धिः किमिति न स्यात् ? न च तत्कारणस्य धर्मस्याभावान्नासाविति वक्तव्यम्, यतो धर्मस्यापि प्रकृतिकार्यतया तव्यतिरेकात् तद्वत् सदैव भाव इति सर्वदा सर्वस्यामिलषितफलप्राप्तिप्रसक्तिः। अपि च, यदि अभिलषितं फलं प्रकृतिरुपनयति तदा नानिष्टं प्रयच्छेत, नहि ५कश्चिदनिष्टमभिलपति । किञ्च, उपनयतु नाम प्रकृति(तिः) फलम् तथापि भोक्तृत्वं पुंसोऽयुक्तम् अविकारित्वात्-नहि सुख-दुःखादिना आह्लाद-परितापादिरूपं विकारमनुपनीयमानस्य भोकृत्वमस्याकाशवत् सङ्गतम् । न च प्रकृतिरस्योपकारिणी अधिकृतात्मन्युपकारस्य कर्तुमशक्यत्वात्, विकारित्वे वा नित्यत्वहानिप्रसक्तिः अतादवस्थ्यस्यानित्यत्वलक्षणत्वात् तस्यापि विकारिण्यवश्य भावित्वात् । अथ न विकारापत्या आत्मनो भोक्तत्वमिदं किं तर्हि ? बुझ्यध्यवसितस्यार्थच्या १० प्रतिबिम्बोदयन्यायेन संचेतनात् । तथाहि-बुद्धिदर्पणसक्रान्तमर्थप्रतिविम्बकं द्वितीयदर्पणकल्पे पुंस्यध्यारोहति, तदेव भोक्तत्वमस्य न तु विकारापत्तिः न च पुरुष(पः) प्रतिबिम्बमात्रसका न्तावपि स्वरूपप्रच्युतिमान् दर्पणवदविचलितस्वरूपत्वात् , असदेतत्; यतो बुद्धिदर्पणारूढमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्प पुंसि सामत् ततः (ततः अव्यतिरिक्तम्) व्यतिरिक्तं वा इति वाच्यम् । यदि अव्यतिरिक्तमिति पक्षस्तदा तदेवोदय-व्यप(य)योगित्वं पुंसः प्रसज्येत उदयादि१५योगिप्रतिबिम्बाव्यतिरेकात् तम्वरूपवत् । अथ व्यतिरिक्तमित्यभ्युपगमस्तदा न भोक्तृता ने भोक वस्थातस्तस्य कस्यचिद् विशेषस्याभावात् । न चार्थप्रतिविम्बसम्बन्धात् तस्य भोक्तृत्वं युक्तम् अनु. पकार्योपकारकयोः सम्बन्धासिद्धेः उपकारकल्पनाया अपि भेदाभेद विकल्पतोऽनुपपत्तेः। अपि च, पुरुषस्य “दिदृक्षां प्रधानं यदि जानीयात् तदा पुरुषार्थ प्रति प्रवृत्तिर्युक्ता स्यात् न. चैवम् तस्य जडरूपत्वात् , सत्यपि चेतनारसम्बन्धे न पङ्गन्धदृष्टान्तादप्रवृत्तियुक्तिमती, यतोऽन्धो २० यद्यपि मागे नोपलभते तथापि पङ्गोविवक्षामसी वेत्ति तश्य चेतनायत्त्वात् न चवं प्रध वक्षामवगच्छति तस्याऽचेतनावत्त्वेन जडरूपत्वात् । न च तयोर्नित्यत्वेन परस्परमनुपकारिणोः पङ्गन्धवत् सम्बन्धोऽपि युक्तः । अथ प्रधानं पुरुषस्य दिदृक्षामवगच्छतीत्यभ्युपगम्यते तथा सति भोक्तत्वमपि तस्य प्रसज्यते करणशस्य भुजिक्रियावेदकत्वाविरोधात् । न च य एकं जानाति तेनाs. परमपि ज्ञातव्यमित्ययं न नियमः यतः प्रधानस्य कर्तृत्वे भोक्तृत्वमपि नियतसन्निधीति युक्तं २५ वक्तुम् यतो यदि प्रधानस्य बुद्धिमत्त्वमङ्गीक्रियते तदा पुरुषवच्चैतन्यप्रसङ्गः बुझ्यादीनां चैतन्यपर्या यत्वात् , यतो यत् प्रकाशात्मतयाऽपरप्रकाशनिरपेक्षं स्वसंविदितरूपं चकास्ति तत् चैतन्यमुच्यते, तद् यदि बुद्धेरपि समस्ति चिद्रूपा सा किमिति न भवेत् ? न च यथोक्तबुद्धिव्यतिरेकेणापरं चैतन्यमुपलक्षयामः यतस्तद्यतिरिक्तस्य पुरुपस्य सिद्धिर्भवेत् । यदपि चिद्रूपत्वादू बुद्धर्भेदप्रसाधनाय परैरनुमानमुपन्यस्यते यद् यद् उत्पत्तिमत्त्व-नाशि३० स्वादिधर्मयोगि तत् तद् अचेतनम् , यथा रसादयः, तथा च बुद्धिरिति स्वभावहेतुरिति । तत्रापि वक्तव्यम्-किमिदं स्वतन्त्रसाधनम् , आहोखित् प्रसङ्गसाधनमिति ? तत्र स्वतन्त्रसाधनेऽन्यतरासिद्धो हेतुः यतो यथाविधमुत्पत्तिमत्त्वमपूर्वोत्पादलक्षणम् नाशित्वं च निरन्वयविनाशात्मकं प्रसिद्ध बौद्धस्य न तथाविधं साक्ष्यस्य तयोराविर्भाव-तिरोभावरूपत्वेन तेनाङ्गीकरणात् यथा च १ अविकृता-वि० सं०। २ “वादमहार्णवोऽप्याह" इत्युल्लिख्य अतः 'विकारापत्तिः' इतिपर्यन्तोऽयं पाठः आचार्यमल्लिषेणेन स्याद्वादमार्या निर्दिष्टः-स्याद्वा० मू० श्लो. १५ पृ० ११९५०८-९-१०-११। एवमेव "वादमहार्णवोs प्यस्मिन् दर्शने स्थितः प्राह" इति निर्दिश्य समुद्धृतोऽयं पाठः आचार्यराजशेखरेण-न्यायाव० टिप्प. पृ० १५३ पं०८। तथैव च श्रीयशोविजयोपाध्यायेनापि "तथा चाह वादमहार्णवः” इति कृत्वा एष एव पाठः पठितः-शास्त्रवा० स्याद्वादक. पृ० १०९ प्र० पं०६। ३ ततः अव्यतिरिक्तम् व्यति-वि० सं०। ४-दय-व्यययो-वि० सं०। ५ इदं 'न' पदमधिकं भाति । ६-शेषाभावात् वा. बा. विना। ७ दिग्दृक्षां भां०। ८-धो यु-वा. बा. विना। ९-सज्येत मां. वि. डे०। १०-मित्यन्न का. आ० ।-मित्यत्र नि-भां. मां. वि. डे. हा । ११ प्रकाशतया-वि• डे० कां० । प्रकाशशतया-मां० मां० । प्रकाशशतयो-आ० हा०। १२-थाविधा सा-वा. बा. विना।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy