SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। प्रवृत्तिः सिद्धा स्वात्मभूतत्वाच्छक्तीनाम् । निरन्वयविनाशावष्टब्धत्वात् सर्वभावानां क्वचिदपि लयासिद्धेः 'अविभागाद् वैश्वरूप्यस्य' इत्ययमपि हेतुरसिद्धः लयो हि भवन् पूर्वस्वभावापगमे वा भवेत् , अनपगमे वा? यद्याद्यः पक्षः तथा(दा) निरन्वयविनाशप्रसङ्गः। अथ द्वितीयः तदा लयानुपपत्तिः यतो नाविकलं स्वरूपं बिभ्रतः कस्यचिल्लयो नाम अतिप्रसङ्गात्-अतिविरुद्धमिदं परस्परतः 'अविभागः''वैश्वरूप्यं च' इति । विरुद्धा वा एते हेतवः प्रधानहेत्वभाव (भाव एव) स्वकार- ५ शक्तिमेदतः कार्यस्य परिमाणादिरूपेण वैचित्र्यस्य कार्यकारणभावादिना(दीनां) चोपपद्यमानत्वात् । तथाहि-प्रधानं यदि व्यक्तस्य कारणं भवेत् तदा सर्वमेव विश्वं तत्स्वरूपवत् तदात्मकत्वादेकमेव द्रव्यं स्यात्, ततश्च 'बुद्धिरेका एकोऽहङ्कारः पञ्च तन्मात्राणि' इत्यादिकः परिमाणविभागोऽसङ्गतः स्यादिति निष्परिमाणमेव जगत् स्यात् । तथा, प्रधानहेत्वभावे एव-प्राक्तनन्यायेन 'अमेदे न शक्तिर्न क्रिया' इत्यादिना-घटादिकरणे कुम्भकारादीनां शक्तितः प्रवृत्तिरुपपद्यते.१० कार्यकारणविभागोऽपि प्रधानहेत्वभावे एव युक्तो न तु तत्सद्भावे इति प्राक् प्रतिपादितम् । प्रधानसद्भावे वैश्वरूप्यमनुपपत्तिकमेव, सर्वस्य जगतः तन्मयत्वेन तत्स्वरूपवदेकत्वप्रसक्तस्तदविभागो दूरोत्सारित एवेति न कुतश्विद्धेतोः प्रधानसिद्धिः। यदपि प्रधानविकारबुद्धिव्यतिरिक्तं चैतन्यमात्मनो रूपं कल्पयन्ति “चैतन्यं पुरुषस्य स्वरूपम्" ] इत्यागमात् पुरुषश्च शुभाशुभकर्मफलस्य प्रधानोपनीतस्य भोक्ता न तु कर्ता १५ सकलजगत्परिणतिरूपायाः प्रकृतेरेव कर्तृत्वाभ्युपगमात् । प्रमाणयन्ति चात्र-यत् सङ्घातरूपं वस्तु तत् परार्थ दृष्टम् , यथा शयनाऽऽसनाद्यङ्गादि, सङ्घातरूपाश्च चक्षुरादय इति स्वभावहेतुः, यश्चासौ परः स आत्मेति सामर्थ्यात् सिद्धम् । अत्र च 'चैतन्यं पुरुषस्य स्वरूपम्' इत्यादि वदता चैतन्यं नित्यैकरूपमिति प्रतिज्ञातम् तस्य नित्यैकरूपात् पुरुषादव्यतिरिक्तत्वात् , अध्यक्षविरुद्धं चेदम् रूपादिसंविदां स्फुटं स्वसंवित्या भिन्न स्वरूपावगमात् एकरूपत्वे त्वात्मनोऽनेकविधार्थस्य २० भोक्तृत्वाभ्युपगमो विरुद्ध आसज्येत अभोकवस्थाव्यतिरिक्तत्वात् भोक्रवस्थायाः, न च दिक्षादियोगादविरोधः दिक्षा-शुश्रूषादीनां परस्परतोऽभिन्नानामुत्पादैरात्मनोऽप्युत्पादप्रसङ्गः तासां तदव्यतिरेकात्, व्यतिरेके च 'तस्य ताः' इति सम्बन्धानुपपत्तिः उपकारस्य तन्निबन्धनस्याभावात्, भावे वा तत्रापि भेदाभेदविकल्पाभ्यामनवस्था-तदुत्पत्तिप्रसङ्गतो दिक्षाद्यभावान्न भोक्तुत्वम् । प्रयोगः-यस्य यद्भावव्यवस्थानिबन्धनं नास्ति नासौ प्रेक्षावता तद्भावेन व्यवस्थाप्यः, यथा आकाशं २५ मूर्तत्वेन, नास्ति च भोक्तृत्वव्यवस्था निबन्धनं पुरुषस्य दिदृक्षादि इति कारणानुपलब्धिः । न चायमसिद्धो हेतुरिति प्रतिपादितम् । कर्तृत्वाभावाद् भोक्तृत्वमपि तस्य न युक्तम् न ह्यकृतस्य कर्मणः फलं कश्चिदुपभुङ्क्ते अकृताभ्यागमप्रसङ्गात् । न च पुरुषस्य कर्माकर्तृत्वेऽपि प्रकृतिरस्याभिलषितमर्थमुपनयतीत्यसौ भोक्ता भवति, यतो नासावप्यचेतना सती शुभाशुभकर्मणां की युक्ता येनासौ कर्मफलं पुरुषस्य सम्पादयेत् । अथ यथा पङ्गन्धयोः परस्परसम्बन्धात् प्रवृत्तिस्तथा महदादि "लिङ्गं ३० चेतनपुरुषसम्बन्धाच्चेतनावदिव धर्मादिषु कार्येष्वध्यवसायं करोतीत्यदोष एवायम्-उक्तं च "पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य । पङ्गन्धवदुभयोरभिसंयोगात् तत्कृतः सर्गः" ॥ [ साडयका० २१] इति, १ पृ. २८४ पं०२। २ "तदा"-तत्त्वसं० पजि. पृ० ४० पं०६। ३ “प्रधानहेत्वभाव एव कारणशक्ति मेदेन हेतुना कार्यस्य परिमाणादिरूपेण वैचित्र्य (व्यस्य) कार्यकारणतादेश्च उपपद्यमानत्वाद् विरुद्धता हेतूनाम्"-तत्त्वसं. पजि.पृ.४०५० १२। ४ "तथा, कुलालादीनां घटादिकरणे शक्तितः प्रवृत्तिः प्रधानहेत्वभाव उपपद्यते, न तु तद्भावे । यथोक्तं प्राक्-'न च शक्तिर्न च क्रिया' इति"-तत्त्वसं. पजि. पृ. ४० पं० १६। ५ पृ. २९८ पं० १९ तथा ४० । ६ तद्भावे वा. बा०। ७ पृ. २९९ पं० १ तथा ३०। ८ योगद. समा० पा० सू० ९ भा० पृ. ३१ पं०७॥ ९-सनाव्यंगादि आ० भ० म०-सनात्मंगादि वि. डे०।-सनात्प्रगादि हा० । “पर्यक-रथ-शरणादयः-" माठरवृ. पृ. २९पं० २२। "शयनाऽऽसनाऽभ्यङ्गादिवत्"-साङ्ख्य. कौ० पृ. ९१ पं० २ का. १७। १०-त्र चैवि० डे। ११ प्र. पृ.पं. १४ । १२-त्वे चात्म-भां० म०। १३-स्य सद्भा-वि० डे०। १४ लिन चे-वा. बा. विना । माठरवृ. पृ. ३३ पं० २४ । १५ कार्येषु व्यव-वा० बा०। १६-"रपि संयोगस्तत्कृतः सर्गः"-सायका
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy