SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३०६ प्रथमे काण्डेत्यत्वाऽनेकत्वादिधर्मान्वयदर्शनात् कारणमपि तथैवानुमीयता(ते) । क्रम-योगपद्याभ्यामर्थक्रियाविरोधान्न नित्यस्य कारणत्वम् कारणभेदकृतत्वाच्च कार्यवैचित्र्यस्य अन्यथा निर्हेतुकत्वप्रसङ्गाकरूपस्यापि कारणत्वमिति विपर्ययसिद्धिप्रसक्तेन नित्यैकरूपप्रधानसिद्धिः। यदि तु अनित्याऽनेकरूपे कारणे 'प्रधानम्' इति संज्ञा क्रियते तदा अविवाद एव । यद्यपि 'सत सत्' इत्येकरूपेण 'स ५एवायम्' इति च स्थिरेण स्वभावेनानुगता अध्यवसीयन्ते कल्पनाशानेन भावास्तथापि नैषामेक जात्यन्वयः स्वस्वभावव्यवस्थिततया देश-काल-शक्ति-प्रतिभासादिभेदात्, नापि स्थैर्यम् क्रमोत्पत्तिमतां तथैव प्रतिभासनात् । 'प्रतिभासभेदश्च भावाद्(न्) भिनत्ति' इत्यसकृत् प्रतिपादितम् । 'मृद्विकारादिवत्' इति दृष्टान्तोऽपि साध्यसाधनविकलः एकजात्यन्वयस्य एककारणभवत्वस्य च तत्राप्यसिद्धत्वात् । ने चकं मृत्पिण्डादिकं कारणं मृदादिजातिश्चैकानुगता तत्र सिद्धेति वक्तव्यम्, १० यतो नैकोऽवयवी मृत्पिण्डादिरस्ति एकदेशावरणे सर्वावरणप्रसङ्गात्, नाप्येका जातिः, प्रतिव्यक्तिप्रातभासमंदादिति प्रतिपादितत्वात् प्रतिपादायष्यमाणत्वाच्च। 'समन्वयात्' इत्यस्य हेतोः पुरुषैश्चानैकान्तिकत्वम । तथाहि-चेतनत्वादिधरन्विता: पुमांसोऽभीष्टाः न च तथाविधैककारणपूर्वकास्त इष्यन्ते । न च चेतनाद्यन्वितत्वं पुरुषाणां गौणम् यतः अचेतनादिव्यावृत्ताः सर्व एव पुरुषाः अतोऽर्थान्तरव्यावृत्तिरूपा चैतन्यादिजातिस्तदनुगामिनी १५ कल्पिता न तु तात्त्विकी समस्तीति वक्तव्यम् , अन्यत्रापि समानत्वात्-यतः शब्दादिष्वपि अमुख्यं सुखाद्यन्वितत्वमसत्यप्येककारणपूर्वकत्वे पुरुषेष्विव भविष्यतीति कथं नानैकान्तिकत्वं हेतोः । मूलप्रकृत्यवस्थायां च सत्त्वरजस्तमोलक्षणा गुणाः गुणत्वाऽचेतनाऽभोक्तृत्वादिभिरन्विताः प्रधानपुरुषाश्च नित्यत्वादि(दिभि)रन्वितास्तथाभूतैककारणपूर्वकाश्च न भवन्तीत्यनैकान्तिकत्वमेव । तदेवं 'समन्वयात्' इत्यस्य हेतोरसिद्ध-विरुद्धाऽनैकान्तिकदोषदृष्टत्वान्न प्रधानसाधकत्वम । अने२० नैव न्यायेन 'परिमाणात्' 'शक्तितः प्रवृत्तेः' 'कार्यकारणभावात्' 'वैश्वरूप्यस्याविभागात्' इत्यादि कानामपि न प्रधानास्तित्वसाधकत्वम् । तथाहि-साध्यविपर्यये च बाधकप्रमाणाप्रदर्शनात् सर्वेऽ. प्येतेऽनैकान्तिकाः। नहि प्रधानाख्यस्य हेतोरभावेन परिमाणादीनां विरोधः सिद्धः। तथाहियदि तावत् कारणमात्रस्यास्तित्वमत्र साध्यते तदा सिद्धसाध्यता न ह्यस्माकं कारणमन्तरेण कार्य स्योत्पादोऽभीष्टः, न च कारणमात्रस्य 'प्रधानम्' इति नामकरणे किश्चिद् बाध्यते । अथ प्रेक्षावत् २५ कारणमस्ति यद् व्यक्तं नियतपरिमाणमुत्पादयति शक्तितश्च प्रवर्तत इति साध्यते तदाऽनैकान्ति कता, विनाऽपि हि प्रेक्षावता विधात्रा स्वहेतुसामर्थ्यात् प्रतिनियतपरिमाणादियुक्तस्योत्पत्त्यविरोधात् । न च प्रधानं प्रेक्षावत् कारणं युक्तम्, अचेतनत्वात् तस्य प्रेक्षायाश्च चेतनापर्यायत्वात् । अपि च, 'शक्तितः प्रवृत्तेः' 'इत्यनेन किमव्यतिरिक्तशक्तिमत् कारणं साध्यते, आहोखिद् व्यतिरिक्तानेकशक्तिसम्बन्धि तदेकत्वादिधर्मकलापाध्यासितमिति कल्पनाद्वयम् । तत्र यद्याद्या कल्पना तदा ३०सिद्धसाधनं कारणमात्रस्य ततः सिद्ध्यभ्युपगमात् । द्वितीयायां हेतोरनैकान्तिक कचिदप्यन्वयासिद्धेहेतुश्चासिद्धः यतो न विभिन्नशक्तियोगात् कस्यचित् क्वचित् कार्ये कारणस्य १-नुमायताम् । भां. मां० विना। २ "अयःशलाकाकल्पा हि क्रमसंगतमूर्तयः। दृश्यन्ते व्यक्तयः सर्वाः कल्पनामिश्रितात्मिकाः" ॥ तत्त्वसं० का० ४२ पृ.३८ । ३ पृ० २८४ पं० ११। ४-प्रसवत्वस्य हा०वि० । ५ "मृद्विकारादयो मेदा नैकजात्यन्वितास्तथा । सिद्धा नैकनिमित्ताश्च मृत्पिण्डादेविमेदतः" ॥ तत्त्वसं० का० ४३ पृ. ३८। ६ चैकमृ-वा० बा० विना। ७ "चैतन्याद्यन्धितत्वेऽपि नैकपूर्वत्वमिष्यते । पुरुषाणाममुख्यं चेत् तदिहापि समं न किम्" । तत्त्वसं. का. ४४ पृ. ३९ । ८ "गुणत्वाऽचेतनत्वाऽभोक्तृत्वादिभिरन्विताः प्रधानपुरुषाश्च नित्यत्वादिभिर्युक्ताः"-तत्त्वसं० पजि.पृ. ३९ पं०१२। १ "प्रधानहेत्वभावेऽपि ततः सर्व प्रकल्पते । शक्तेर्भेदेन वैचित्र्यं कार्यकारणतादिकम्" । तत्त्वसं० का० ४५ पृ. ३९ । १. पृ. २८४ पं०१। ११ पृ० २८४ पं० १॥
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy