SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। बाधकं प्रमाणम् । न च यथा प्रत्यक्षेण गृहीतेऽपि सर्वात्मना वस्तुनि अभ्यासादिवशात् क्वचिदेव क्षणिकत्वादौ निश्चयोत्पत्तिर्न सर्वत्र तद्वद् अदृष्टादिवलाद् एकाकारा संविद् उदेष्यतीत्यभिधातुं ममम, क्षणिकादिविकल्पस्यापि परमार्थतो वस्तुविषयत्वानभ्यपगमात, वस्तुनो विकल्पागोचरत्वात् परम्परया वस्तुप्रतिबन्धात् तथाविधतत्प्राप्तिहेतुतया तु तस्य प्रामाण्यम् । उक्तं च "लिङ्ग-लिङ्गिधियोरेवं पारंपर्येण वस्तुनि । प्रतिबन्धात् तदाभासशून्ययोरप्यवन्धनम्" ॥ [ ] इति । परैस्तु परमार्थत एव वस्तुविषयत्वमिष्टं प्रीत्यादिप्रतिपत्तीनाम्; अन्यथा सुखाद्यात्मनां शब्दादीनामनुभवात् सुखानुभवख्यातिरित्येतदसङ्गनं स्यात् । सुखादिसंविदां च सविकल्पकत्वान्न किञ्चिदनिश्चितं रूपमस्तीति सर्वात्मनाऽनुभवख्यातिप्रसक्तिः यतः स्वार्थप्रतिपत्ति(त्तिः) निश्चयानामियमेव यत् तन्निश्चयनं नाम । १० ____ यदपि 'प्रसाद-ताप-दैन्यायुपलम्भात् सुखाद्यन्वितत्वं सिद्धं शब्दादीनाम्' इत्यभिहितम्, तदनैकान्तिकम् । तथाहि-योगिनां प्रकृतिव्यतिरिक्तं पुरुपं भावयतां तमालम्ब्य प्रकर्षप्राप्तयोगान प्रसादः प्रादुर्भवति प्रीतिश्च, अप्राप्तयोगानों त(च) द्रुततरमपश्यतामुद्वेग आविर्भवति, जडमतीनां च प्रकृत्यावरणं प्रादुर्भवति। न च परैः पुरुषस्त्रिगुणात्मकोऽभीष्ट इति 'प्रसाद-ताप-दैन्यादिकार्योपलब्धेः' इत्यस्यं कथं नानैकान्तिकता? न च सङ्कल्पात् प्रीत्यादीनि प्रादुर्भवन्ति न पुरुषादिति १५ वाच्यम, शब्दादिष्वप्यस्य समानत्वात् । सङ्कल्पमात्रभावित्वे च सुखादयो बाह्या न स्युः सङ्कल्पस्य संविदूपत्वात् । बाह्यविषयोपधानमन्तरेणापि पुरुपदर्शने प्रीत्यायुत्पत्तिदर्शनात् 'बाह्यसुखाद्युपधानबलात् सातादिरूपं संवेदनस्य' इत्यपि सव्यभिचारमेव इटानिष्टविकल्पादनावाश्रित(दनाश्रित)बाद्यविषयसन्निधानं प्रसिद्धमेव हि सुखादिवेदनं कथं तत् परोपधानमेव युक्तम् ? न च मनोऽपि त्रिगुणं तदुपधानवशात् तदाविर्भवतीति वक्तव्यम् , 'यदेव हि प्रकाशान्तरनिरपेक्षं स्वयं सिद्धम्'२० इत्यादिना संविद्रूपत्वस्य तत्र साधितत्वात् अतः 'समन्वयात्' इत्यसिद्धो हेतुः । नैकान्तिकश्च प्रधा. नाख्येन कारणेन हेतोः क्वचिदप्यन्वयासिद्धेः । तथाहि-व्यापि नित्यमेकं त्रिगुणात्मकं कारणं साधयितुमिष्टम् , न चैवंभूतेन कारणेन हेतोः प्रतिवन्धः प्रसिद्धः । न चायं नियमः-यदात्मकं कार्य कारणमपि तदात्मकमेव, तयोर्भेदात् । तथाहि हेतुमदादिभिर्धमैर्युक्तं व्यक्तमभ्युपगम्यते तद्विपरीतं चाव्यक्तमिति कथं न कार्य-कारणयोर्भेदादनकान्तिको हेतुः? धर्मिविशेषविपरीतसाधनाद् २५ विरुद्धोऽप्ययं हेतुः । तथाहि-एको नित्यस्त्रिगुणात्मकः कारणभूतो धर्मी साधयितुमिष्टः तद्विप रीतश्च अनेकोऽनित्यश्च ततः सिद्धिमासादयति, यतो व्यक्तं नैकया त्रिगुणात्मिकया स्वात्मभूतया जात्या समन्वितमुपलभ्यते किं तर्हि ? अनेकत्वाऽनित्यत्वादिधर्मकलापोपेतमेव अतः कार्यस्याऽनि १ वञ्चनम्'-तत्त्वार्थश्लोकवा० अ० १ स. ११ श्लो० १३ । २ "मुखाद्यनु-" तत्त्वसं० पजि. पृ०३६ पं० २२ । ३ "इयमेव हि निश्चयानां स्वार्थप्रतिपत्तिः यत् तन्निश्चयनं नाम"-तत्त्वसं० पजि० पृ० ३६ पं० २३ । ४ पृ० २८३ पं०४३ तथा पृ० २८४ पं० ११ । ५ "प्रसादोद्वेगवरणान्येकस्मिन् पुंसि योगिनाम् । जायन्ते न च तद्रूपः पुमानभिमतः परैः" ॥ तत्त्वम० का० ४० पृ. ३६ । ६ “अजितयोगानां क्षिप्रतरमपश्यतामुद्वेगः, ये च प्रकृया जडमतयस्तेषां वरणमुपजायते"-तत्त्वसं० पजि. पृ. ३७ पं० ३.। ७-नां तदद्भुतर-कां० । ८ "गुरु वरणकमेव तमः"-माठरवृ. का० १३ पृ. २३ । ९ पृ. २८४ पं० १२। १. पृ. ३०४ पं० १७। ११ “यच्च इष्टानिष्टविकल्पादनपेक्षितबाह्यविषयसन्निधानं सुखादिसंवेदनं प्रसिद्धं तत् कथं परोपधानात् स्यात् ?"-तत्त्वसं० पञ्जि. पृ० ३७ पं० १०। १२ पृ. ३०४ पं० ७॥ १३ पृ. २८४ पं०१०। १४ "सिद्धेऽपि त्रिगुणे व्यक्त न प्रधानं प्रसिध्यति । एकं तत्कारणं नित्यं नैकजात्यन्वितं हि तत्"। तत्त्वसं० का० ४१ पृ. ३७ । १५ धर्मी वि-भां. मां. वा. बाधर्मविशेष-वि. डे० । “धर्मविशेषविपरीतभावनात्"-तत्त्वसं० पजि. पृ. ३७पं० २३। १६ "एको नित्यस्त्रिगुणात्मकः कारणभूतो धर्मः साधयितुमिष्टः"-तत्त्वसं० पजि. पृ०३७ पं०२४॥ स० त०३९
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy