SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। लोकव्यवहारोच्छेदश्च सत्कार्यवादाभ्युपगमे । तथाहि-हिताऽहितप्राप्ति-परिहाराय लोका प्रवर्तते, न च तत्पक्षे किञ्चिदप्राप्यम् अहेयं वा समस्तीति निर्व्यापारमेव सकलं जगत् स्यादिति कथं न सकलव्यवहारोच्छेदप्रसङ्गः ? निषिद्धे च सत्कार्यवादे 'असत् कार्य कारणे' इति सिद्धमेव-सदसतोः परस्परपरिहारस्थितत्वेन प्रकारान्तरासम्भवात्-तथापि परोपन्यस्तदूषणस्य दूषणाभासताप्रतिपादनप्रकारो लेशतः ५ प्रदर्श्यते-तत्र यत् तावदुक्तं परेण 'असत् कर्तुं नैव शक्यते, निःस्वभावत्वात्' इति, तदसिद्धम् । वस्तुस्वभावस्यैव विधीयमानत्वाभ्युपगमात् तस्य च नैरूप्यासिद्धेः । अथ प्राग उत्पत्तेनिःस्वभावमेव तत्, न; तस्यैव निःस्वभावत्वायोगात् । न यतः सस्वभाव एव निःस्वभावो युक्तः वस्तुस्वभावप्रतिषेधलक्षणत्वान्निःस्वभावत्वस्य । न च क्रियमाणं वस्तु उत्पादात् प्रागस्ति येन तदेव नि:स्वभावं सिद्ध्येत् । न च वस्तुविरहलक्षणमेव धर्मिणं निरूपं पक्षीकृत्य 'नैरूप्यात्' इति हेतुः प(क)-१० क्षीक्रियत इति वक्तव्यम्, सिद्धसाध्यताप्रसङ्गात् यतो न वस्तुविरहः केनचिद् विधीयमानतयाऽ भ्युपगतः । अनैकान्तिकश्चायं हेतुः विपक्षे बाधकप्रमाणाऽप्रदर्शनात् कारणशक्तिप्रतिनियमाद्धि किञ्चिदेवासत् क्रियते यस्योत्पादको हेतुर्विद्यते; यस्य तु शशशृङ्गादे त्यु(नास्त्यु)त्पादकः तन्न क्रियत इति अनेकान्त एव, यतो न सर्व सर्वस्य कारणमिष्टम् । न च 'यद असत् तत् क्रियत एवं' इति व्याप्तिरभ्युपगम्यते किं तर्हि ? यद् विधीयते उत्पत्तः प्राक् तत् असदेवेत्यभ्युपगमः। अथ १५ तुल्येऽपिं असत्कारित्वे हेतूनां किमिति सर्वः सर्वस्यासतो हेतुर्न भवतीत्यभिधीयते, असदेतत्, भवत्पक्षेऽप्यस्य चोद्यस्य समानत्वात् । तथाहि-तुल्ये सत्कारित्वे किमितिं सर्वः सर्वस्य सतो हेतुर्न भवतीत्यसत्कार्यवादिनाऽप्येतदभिधातुं शक्यत एव । न च भवन्मतेन किश्चिदसदस्ति येन तन्न क्रियते, न च कारणशक्तिनियमात् सदपि नभोऽम्बुरुहादिन क्रियते इत्युत्तरमभिधानीयम् , इतरत्राप्यस्य समानत्वात् । तदुक्तम्"त्रैगुण्यस्याविशेषेऽपि न सर्व सर्वकारकैम्"। [तत्त्वसं० का०२८] अभ्युपगमे(म)वादेन च 'यवत् तद्वत्' इति साम्यमुक्तम् न पुनस्तदस्ति । तथाहि-सत्यपि कार्य-कारणयोर्भेदे कस्यचित् किञ्चित् कारणं भवति-स्वहेतुपरम्परायातत्वात् तथाभूतखभावप्रतिनियमस्य-अमेदे च तयोरेकस्यैकत्रैकस्मिन्नेव काले हेतुकत्वं चान्योन्यविरुद्धं कथं सम्भवेत् २५ विरुद्धधर्माध्यासनिबन्धनत्वात् वस्तुमेदस्य? तदुक्तम् "भेदे हि कारणं किञ्चिद् वस्तुधर्मतया भवेत् । अभेदे तु विरुद्ध्येते तस्यैकस्य क्रियाऽक्रिये" ॥ २० अथ असत्कार्यवादिनः कारणानां प्रतिनियताः शक्तयो न घटन्ते कार्यात्मकानामवधीनाम-३० निष्पत्तेः न हवधिमन्तरेणावधिमतः सद्भावः सम्भवति । प्रयोगश्चात्र-ये सद्भूतकार्यावधिशून्याः न ते नियतशक्तयः, यथा शशङ्गादयः, सद्भूतकार्यावधिशून्याश्च शालिबीजादयो भावा इति व्यापकानुपलब्धिः । सत्कार्यवादे तु कार्यावधिसद्भावाद् युक्तः कारणप्रतिनियमः। उक्तं च १ पृ. २८२ पं० २२ तथा ३८ । २ "प्रागू उत्पत्तेस्तन्निःस्वभावमेवेति चेत्, न; तस्यैव निःखभावत्वायोगात्। न हि स्वभाव एव निःस्वभावो युक्तः"-तत्त्वसं० पजि० पृ० ३० पं० १२। ३-त् नियतः सस्व-मां०। ४ "नीरूपं धर्मिणं पक्षीकृत्य 'नरूप्यात्' इति हेतुः क्रियते"-तत्त्वसं० पञ्जि. पृ. ३० पं० १५। ५-दको स्तन कि-वा. बा० । अत्र 'नास्त्युत्पादको हेतुस्तन्न' इति पाठः संभाव्यते । “यस्य तु वियदब्जादेर्नास्ति कारणं तन्न क्रियते"-तत्त्वसं० पजि. पृ.३०पं०१८॥ ६ असत्तल्येऽपि वा० बा० विना । ७-पि सत्-वा० बा०। ८ सर्वस्य सतो हेतुर्भव-वा. बा०। ९-ति सर्वस्य सतो हेतु भव-वा० बा० । १०-दिनोऽप्येत-वा. बा. विना । ११ "त्रैगुण्यस्याविभेदेऽपि सर्व सर्वकारकम् । यद्वत् तद्वदसत्त्वेऽपि न सर्व सर्वकारकम्" ॥ तत्त्वसं० का० २८ पृ० ३० । १२ "एतच अभ्युपगम्योकम्-'यद्वत् तद्वत्' इति, न पुनः साम्यमस्ति"-तत्त्वसं. पजि० पृ. ३० पं० २७ । १३ काले नुतमहे कत्वं चान्यो-वा. बा. । “काले हेतुत्वमहेतुत्वं च परस्परविरुद्धम्"-तत्त्वसं० पजि. पृ० ३१ पं०३। १४ तत्त्वसं० पजि. पृ. ३१५० ४ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy