SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ] इति ३०० प्रथमे काण्डेतिशयस्योत्पत्तेः । न चातिशयस्य कश्चिदाधारो युक्तः अमूर्तत्वेनाधः प्रसर्पणाभावात् अधोगतिप्रतिबन्धकत्वेनाधारस्य व्यवस्थानात् । जन्यजनकभावलक्षणोऽपि न सम्बन्धो युक्तः, सर्वदेव सम्बन्धाख्यस्य (निश्चयाख्यस्य) कारणस्य सन्निहितत्वान्नित्यमतिशयोत्पत्तिप्रसक्तेः। न च साधन प्रयोगापेक्षया निश्चयस्यातिशयोत्पादकत्वं युक्तम् अनुपकारिण्यपेक्षाऽयोगात्, उपकाराभ्युपगमे ५वा दोषः पूर्ववद् वाच्यः। अपि च, अतिशयोऽपि पृथग्भूतः क्रियमाणः किमसन् क्रियते, आहोस्वित् सन् इति कल्पनाद्वयम् । असत्त्वे पूर्ववत् साधनानामनैकान्तिकता वाच्या, सरवे च साधनवैयर्थ्यम् तत्रापि अभिव्यक्त्यभ्युपगमे 'केयमभिव्यक्तिः' इत्याद्यनवस्थाप्रसङ्गो दुर्निवार इति व्यतिरेकपक्षोऽपि सङ्गत्यसम्भवादसम्भवी । अतो न स्वभावातिशयोत्पत्तिरभिव्यक्तिः। नापि तद्विषयज्ञानोत्पत्तिस्वरूपा अभिव्यक्तियुक्तिसंगता, तद्विषयज्ञानस्य भवदभिप्रायेण नित्य१० त्वात् । तथाहि-तद्विषयाऽपि संवित्तिः सत्कार्यवादिमतेन नित्यैव किमुत्पाद्यं तस्याः स्यात् ? अपि च, एकैक(कैव) भवन्मतेन संविद् -"आ सर्ग-प्रलयादेका बुद्धिः " [ कृताता(न्ता)त्-सैव च निश्चयः तत्र कोऽपरस्तदुपलम्भोऽभिव्यक्तिस्वरूपो यः साधनैः सम्पा घेत? ने च त(न च न तद्वद्धिस्वभावा तद्विषया संवित्तिः किन्तु मनःस्वभावेति वक्तव्यम. 'बुद्धिः' 'उपलब्धिः' 'अध्यवसायः' 'मनः' 'संवित्तिः' इत्यादीनामनन्तरत्वेन प्रदर्शयिष्यमाणत्वात् १५तद्विषयोपलम्भाऽऽवरणक्षयलक्षणाप्यभिव्यक्तिर्न घटां प्राश्चति द्वितीयस्योपलम्भस्यासम्भवेनोपल. म्भावरणस्याप्यभावात् न ह्यसत आवरणं युक्तिसंगतम् तस्य वस्तुसद्विषयत्वात् । न चासतस्तदावरणस्य कुतश्चित् क्षयो युक्तः। सत्वेऽपि तदावरणस्य नित्यत्वान्न क्षयः सम्भवी, तिभा(तिरो. भा)वलक्षणोऽपि क्षयस्तस्याऽयुक्तः अपरित्यक्तपूर्वरूपस्य तिरोभावानुपपत्तेः तद्विषयोपलम्भस्या(स्य) सत्वेऽपि नित्यत्वान्नावरणसम्भव इति कुतस्तत्क्षयोऽभिव्यक्तिः? न चाप्यावरणक्षयः केनचिद् २० विधातुं शक्यः तस्य निःस्वभावत्वात् । ततोऽभिव्यक्तेरघटमानत्वात् सत्कार्यवादपक्षे साधनोपन्यासवैयर्थ्यम् । एवं बन्ध-मोक्षाभावप्रसङ्गश्च तत्पक्षे। तथाहि-प्रधान-पुरुषयोः कैवल्योपलम्भलक्षणतत्त्वझानप्रादुर्भावे सति अपवर्गः कापिलैरभ्युपगम्यंते, तत्र(तच) तत्त्वज्ञानं सर्वदा व्यवस्थितमेवेति सर्व एव देहिनोऽपवृक्षाः(वृत्ताः) स्युः। अत एव न बन्धोऽपि तत्पक्षे सङ्गतः मिथ्याज्ञानवशाद्धि बन्ध २५इष्यते तस्य च सर्वदाऽव्य(दा व्य)वस्थितत्वात् सर्वेषां देहिनां बद्धत्वमिति कुतो मोक्षः? "सर्वदैव निश्चयाख्यस्य कारणस्य"-तत्त्वसं. पजि. पृ. २८ पं० २७। २ पृ. २९९पं० २८ । ३ पृ. २९९ पं० २२। ४-दसम्भवो अतो डे०।-दसम्भवा अतो हा०।-दसम्भवे अतो वि०। ५ न तद्विषयसंवित्तिर्नोपलम्भावृतिक्षयः। नित्यत्वादुपलम्भस्य द्वितीयस्याऽप्यसंभवात्" ॥ तत्त्वसं० का० २७ पृ. २९ ।। ६ तद्विषयस्यापि वा. बा. विना। -त्पाद्य तं स्यादपि वि० हा०।-त्पाद्यं त स्यादपि आ.। -त्पाद्यं ते स्यात् अपि वा. बा० । “सत्कार्यवादिनो मतेन नित्यैवेति किं तस्या उत्पाद्यम्"-तत्त्वसं० पञ्जि.पृ० २९ पं० १०। ८ एक व भवन्म-वा. बा. । “एकैव भवतां मतेन"-तत्त्वसं० पञ्जि. पृ. २९ पं० १३ । ९-द्धिरिकृता तात् सौव वि. हा०।-द्धिरिति कृतिरित्याद्यव वा. बा०।१० “ 'आ सर्ग-प्रलयादेका बुद्धिः' इति सिद्धान्तात्"-तत्त्वसं० पजि. पृ. २९ पं० १३। ११"न बुद्धिखभावा तद्विषयसंवित्तिः किं तर्हि ? मनःखभावेति, तदसम्यक्"-तत्त्वसं. पजि. पृ. २९ पं० १५। १२ न वाऽसत-वि. विना। १३-णनित्य-वा. बा.। १४-वीति विरोधाभावल-वा. बा० । “नापि तिरोभावलक्षणः क्षयो युक्तः अत्यक्तपूर्वरूपस्य तिरोभावासंभवात्"तत्त्वसं० पञ्जि. पृ. २९ पं० १९। १५ “अथवा 'नित्यत्वात्' इति, तद्विषयायाः संवित्तर्नित्यत्वान्नावरणं संभवति तदसंभवान्न क्षयो युक्तः"-तत्त्वसं० पजि० पृ. २९ पं० २२। १६-म्यते न च तत्त्वज्ञानं सर्वदाऽव्यवस्थितमेवेति सर्व एव देहिनोऽपवृक्षाः भां० मा० ।-स्यते त च तत्त्वज्ञानं सर्वदा वेस्थितमेवेति सर्व एव देहिनोऽपवृक्षाः वा. बा० । “तत्त्वज्ञानस्योत्पत्तौ सत्यां मोक्षो भवद्भिरिष्यते, तच्च तत्त्वज्ञानं सर्वदाऽवस्थितमेवेति मुक्का: सर्व एव देहिनः स्युः"-तत्त्वसं० पजि. पृ. २९ पं० २६ । १७ "तस्य च सर्वदाऽवस्थितत्वेन"-तत्त्वसं. पजि. पृ. २९ पं० २७॥
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy