SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। २९९ यस्य च का(क)रणं सिद्धिमध्यासीतेति, नान्यथा। कारणभावोऽपि भावानां साध्याभावादेव सत्कार्यवादे न युक्तिसङ्गतः न चैतद् दृष्टमिष्टं च । तस्मान्न सत् कार्य कारणावस्थायामिति प्रसङ्गविपर्ययः पञ्चखपि प्रसङ्गसाधनेषु योज्यः।। ____ अपि च, सर्वमेव हि साधनं स्वविषये प्रवर्त्तमानं द्वयं विदधाति-स्वप्रमेयार्थविषये उत्पद्यमानौ संशय-विपर्यासौ निवर्त्तयति, स्वसाध्यविषयं च निश्चयमुपजनयनि । न चैतत् सत्कार्यवादे युक्त्या ५ सङ्गच्छते । तथाहि-सन्देह -विपर्यासो भवद्भिः किं चैतन्यस्वभावावभ्युपगम्येने, आहोश्विद् बुद्धिमनःस्वरूपौ? तत्र यदि प्रथमः पक्षः, स न युक्तः; चैतन्यरूपतया तयोर्भवद्भिरनभ्युपगमात्, अभ्युपगमे वा मुक्त्यवस्थायामपि चैतन्याभ्युपगमात् तत्स्वभावयोस्तयोरप्युत्पत्त्यनिवृत्तेरनिर्मोक्षप्रसङ्गः, साधनव्यापारात् तयोरनिवृत्तिश्च चैतन्यवन्नित्यत्वात् । द्वितीयपक्षोऽपि न युक्तः, बुद्धिम(मनसोनित्यत्वेन तयोरपि नित्यत्वान्निवृत्ययोगात्। न च निश्चयोत्पत्तिरपि साधनात् सम्भवति १० तस्या अपि सर्वदाऽवस्थितेः अन्यथा सत्कार्यवादो विशीर्यंत इति साधनोपन्यासप्रयासो विफलः कापिलानाम् । स्ववचनविरोधश्च प्राप्नोति-तथाहि-निश्चयोत्पादनार्थ साधनं ब्रुवता निश्चयस्य असत उत्पत्तिरजीकृता भवेत् 'सत् कार्यम्' इति च प्रतिज्ञया सा निषिद्धेति स्ववचनविरोधः स्पष्ट एव । अथ साधनप्रयोगवैयर्थ्य ना(मा) प्रापदिति निश्चयोऽसन्नेव साधनादुत्पद्यत इत्यङ्गीक्रियते तर्हि 'असद-१५ करणात्' इत्यादेहेतुपञ्चकस्यानैकान्तिकता स्वत एवाभ्युपगता भवति निश्चयवत् कार्यस्याप्यसत उत्पत्त्यविरोधात्। तथाहि-यथा निश्चयस्य असतोऽपि करणम् तदुत्पत्तिनिमित्तं च यथा विशिष्टसाधनपरिग्रहः-न च यथा तस्य सर्वस्मात् साधनाभासादेः सम्भवः यथा चासन्नप्यसौ शक्तैहेतुमिर्निर्वय॑ते, यथा च कारणभावो हेतूनां समस्ति तथा कार्येऽपि भविष्यति इति कथं नानैकान्तिका निश्चयेन 'असदकरणात्'इत्यादिहेतवः । न च यद्यपि प्राक् साधनप्रयोगात् सन्नेव निश्चयस्तथापि २० न साधनवैयर्थ्यम् यतः प्रागनभिव्यक्तो निश्चयः पश्चात् साधनेभ्यो व्यक्तिमासादयतीत्यभिव्यक्त्यर्थ साधनप्रयोगः सफल इति नानर्थक्यमेषामिति वक्तव्यम् , व्यक्तेरसिद्धत्वात् । तथाहि-किं स्वभावातिशयोत्पत्तिरभिव्यक्तिरभिधीयते, आहोश्चित् तद्विषयं ज्ञानम् , उत तदुपलम्भावारकापगमः इति पक्षाः। तत्र न तावत् स्वभावातिशयोत्पत्तिरभिव्यक्तिः यतोऽसौ स्वभावातिशयो निश्चयस्वभावाद्व्यतिरिक्तः स्यात्, व्यतिरिक्तो वा? यदि अव्यतिरिक्तस्तदा निश्चयस्वरूपवत् तस्य सर्वदैवाव-२५ स्थितेर्नोत्पत्तियुक्तिमती। अथ व्यतिरिक्तस्तथापि तस्यासौ' इति सम्बन्धानुत्पत्तिः। तथाहि-आधाराधेयलक्षणः, जन्यजनकस्वभावो(वो वाऽ)ऽसौ भवेत् ? न तावत् प्रथमः, परस्परमनुपकार्योपकारकयोस्तदसम्भवात्, उपकाराभ्युपगमे चोपकारस्यापि पृथग्भावे सम्बन्धासिद्धिः-अपरोपकारकल्प नायां चानवस्थाप्रसक्तिः-अपृथग्भावे च साधनोपन्यासवैयर्थ्यम् निश्चयादेवोपकोरापृथग्भूतस्या १ "सर्वात्मना च निष्पत्तेर्न कार्यमिह किञ्चन । कारणव्यपदेशोऽपि तस्मान्नैवोपपद्यते"॥ तत्त्वसं. का. २२ पृ० २७ । २-टं वा त-आ० । ३ "सर्व च साधनं वृत्तं विपर्यासनिवर्तकम् । निश्चयोत्पादकं चेदं न तथा युक्तिसंगतम् ॥ न संदेह-विपर्यासौ निवत्यौ सर्वदा स्थितेः । नापि निश्चयजन्माऽस्ति तत एव वृथाऽखिलम् ॥ तत्त्वसं• का० २३-२४ पृ. २७ । ४ “चैतन्य-बुद्धि-मनसां नित्यत्वेन"-तत्त्वसं० पजि० पृ० २७ पं० २५ । ५-नार्थसाध-आ० हा० । ६ “अथापि निश्चयोऽभूतस्समुत्पद्येत साधनात् । ननु तेनैव सर्वेऽमी भवेयुर्व्यभिचारिणः" ॥ तत्त्वसं० का० २५ पृ० २८ । ७ पृ. २८२ पं० १८। ८ "अव्यक्तो व्यक्तिभाक् तेभ्य इति चेद् व्यक्तिरस्य का ? । न रूपातिशयोत्पत्तिरविभागादसंगतेः" ॥ तत्त्वसं० का० २६ पृ० २८ । . "आधाराधेयलक्षणो वा संबन्धो भवेत् , जन्यजनकभावलक्षणो वा ?"-तत्त्वसं० पजि. पृ. २८ पं० २२ । १०-भावाऽसौ वि. डे। ११ अथ पृथग्भू-वा० बा० विना०। १२-कारपृथ-वा० बा० विना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy