SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ २९८ प्रथमे काण्डेदिषु दध्यादीनि कार्याणि रस-वीर्यविपाकादिना विभक्तेन रूपेण मध्यावस्थावत् सन्ति तदा तेषांकित परमुत्पाद्यं रूपमवशिष्यते यत् तैर्जन्यं स्यात् ? ने हि विद्यमानमेव कारणायत्तोत्पत्तिकं भवति प्रकृति चैतन्यरूपवत् । अत्र प्रयोगः-यत् सर्वात्मना कारणे सत् न तत् केनचिजन्यम् , यथा प्रकृतिश्चैको वा. तदेव वामध्यावस्थायां कार्यम्,सत् तत् सवोत्मना परमतेन क्षीरादौ दध्यादि इति व्या ५पलब्धिप्रसङ्गः । न च हेतोरनैकान्तिकता, अनुत्पाद्याऽतिशयस्यापि जन्यत्वे सर्वेषां जन्यत्वप्रसकि अनवस्थाप्रसक्तिश्च-विपर्यये बाधकं प्रमाणम्-जनितस्यापि पुनर्जन्यत्वप्रसङ्गात् । तदेवं कार्यत्वालि मतानामकार्यत्वप्रसक्तिः सत्कार्यवादाभ्युपगमे। कारणाभिमतानामपि मूलप्रकृति-बीज-दुग्धादी पदार्थानां विवक्षितमहदादि अङ्कुर-दध्यादिजनकत्वं न प्राप्नोति अविद्यमानसाध्यत्वात् मुक्ताता वत् । प्रयोगः-यद् अविद्यमानसाध्यं न तत् कारणम् , यथा चैतन्यम्, वि(अवि)द्यमानसाध्या १० भिमतः पदार्थ इति व्यापकानुपलब्धिः । प्रसङ्गसाधनं चैतद् द्वयमपि अतो नोभयसिद्धोदाहरणेन प्रयोजनम् । भोगं प्रत्यात्मनोऽपि कर्तृत्वाभ्युपगमे मुक्तात्मा उदाहर्तव्यः । न च पँथमप्रयोगे अब व्यक्ता(क्त्या)दिरूपेणापि संविशेषणे हेताव(वु)पादीयमाने असिद्धता न ह्यस्माभिरभिव्यक्त्यादि रूपेणापि सत्त्वमिष्यते कार्यस्य किं तर्हि ? शक्तिरूपेण निर्विशेषणे तु तस्मिन्ननैकान्तिकता यतोऽखि व्यक्त्यादिलक्षणस्यातिशयस्योत्पद्यमानत्वान्न सर्वस्य(स्या)कार्यत्वप्रसङ्गो भविष्यति अत एव द्विती१५योऽपि हेतरसिद्धः विद्यमानत्वात साध्यस्याभिव्यक्त्यद्रेकानुद्रेकाद्यवस्थाविशेषस्ये यतोऽत्र विकल्पद्वयम्-किमसावतिशयोऽभिव्यक्त्याद्यवस्थातः प्रागासीत्, आहोश्चिन्नेति ? यद्यासीत् न तहसिद्धतादिदूषणं प्रयोगद्वयोपन्यस्तहेतुद्वयस्य । अथ नासीत् एवमप्यतिशयः कथं हेतुभ्यः प्रादुर्भावमश्नुवीत ? 'असदकरणात्' इति भवद्भिरभ्युपगतत्वात् । तत् स्थितम्-सदकरणान्न सत् कार्यम् । यथोक्तनीत्या सत्कार्यवादे साध्यस्य(स्या)भावादुपादानग्रहणमप्यनुपपन्नं स्यात् तत्साध्य २०फलवाञ्छयैव प्रेक्षावद्भिरुपादानपरिग्रहात्, नियतादेव च क्षीरादेर्दध्यादीनामुद्भव इत्येतदप्यनुपपणे स्यात् साध्यस्यासम्भवादेव; यतः सर्वस्मात् सम्भवाभाव एव नियताजन्मेत्युच्यते तञ्च सत्कार्यवादपक्षे न घटमानकम् । तथा, 'शक्तस्य शक्यकरणात्' इत्येतदपि सत्कार्यवादे न युक्तिसङ्गतम् साध्याभावादेव, यतो यदि किश्चित् केनचिदमिनिर्व]त तदा निर्वर्तकस्य शक्तिर्व्यवस्थाप्येत निर्व१ “हेतुजन्यं न तत् कार्य सत्तातो हेतुवित्तिवत् । अतो नाभिमतो हेतुरसाध्यत्वात् परात्मवत्" ॥ तत्त्वसं० का० १८ पृ० २५ । २ कार्य सर्व (सच्च) सर्वात्मना वा० बा०। “सदेव च कार्य मध्यावस्थायाम् , सच्च सर्वात्मना परमतेन दध्यादि"तत्त्वसं० पजि० पृ. २५ पं० १७। ३ यदि विद्यमानसाध्यं तत् कार-वा० बा०। ४ "अविद्यमानसाध्यश्चामिमतः पदार्थः"-तत्त्वसं० पजि. पृ० २६ पं० २। ५ “यस्तु मन्यते सालयः पुरुषस्यापि प्रतिबिम्बोदयन्यायेन भोगे प्रति कर्तृत्वमस्तीति । तं प्रत्येवं व्याख्या-परश्चासावात्मा च-(प्र० पृ० पं० २४) मुक्त इत्यर्थः"-तत्त्वसं. पजि. पृ० २६ पं० ३। “अथास्त्यतिशयः कश्चिदभिव्यक्त्यादिलक्षणः । यं हेतवः प्रकुर्वाणा न यान्ति वचनीयताम्" ॥ तत्त्वसं. का० १९ पृ. २६ । ७ प्र० पृ. पं० ३। ८ प्र० पृ. पं० १२ । ९ सविशेषणो हेतोरुपादीयमानऽसिद्ध्यत । ना ह्य-वा. बा०। १० हेतावपादीयमानोऽसिद्धता न ह्य-आ० । ११-भिव्यक्तादि-वा० बा० विना। १२ व्यक्कादि-वा. बा० । १३ प्रसङ्गश्चायम्-प्र० पृ. पं०५। १४ एव वं द्वि-वि० डे० । एवं द्वि-हा। १५प्र.पृ. पं०९। १६ साध्यस्यापि व्यक्त्यु-वा. बा० । साध्यस्यापि भिव्यक्त्यु-वि• डे० । १७ "प्रागासीद् यद्यसावेषं न किञ्चिद् दत्तमुत्तरम् । नो चेत् सोऽसत् कथं तेभ्यः प्रादुर्भावं समश्नुते?"॥ तत्त्वसं० का० २० पृ. २६ । १८ पृ. २८२५० १८ । १९ "नातः साध्यं समस्तीति नोपादानपरिग्रहः । नियतादपि नो जन्म न च शक्तिर्न च क्रिया" ॥ तत्त्वसं० का० २१ पृ. २६ । २०-ध्यक्षाभावा-वा. बा.। २१ स्यात् तत्साध्यकस्यासंभवादेव हा० । स्यात् साध्यसासंभवाभाव एव वा० बा० । स्यात् तत्साधकस्यासंभवादेव वि० । २२ पृ. २८२ पं० १९ । २३ "निव(र्षय॑स्य च करणं सिध्ये"-तत्वसं० पशि• पृ. २७ पं०६।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy