SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । २९७ बम' इति व्यपदिश्यते महदादयस्तु तत्परिणामरूपत्वात् तत्कार्यव्यपदेशमासादयन्ति न च परिणामोऽ. मेदेऽपि विरोधमनुभवति एकवस्त्वधिष्ठानत्वात् तस्येति, असम्यगेतत् परिणामासिद्धेः । तथाहि-असौ पूर्वरूपप्रच्युतेर्भवेत् , अप्रच्युतेर्वेति कल्पनाद्वयम् । तत्र यदि अप्रच्युतेरिति पक्षः तदा अवस्थासाङ्कयो वृद्धाद्यवस्थायामपि युवत्वाद्यवस्थोपलब्धिप्रसङ्गः । अथ प्रच्युति(ते)रिति पक्षः तदा स्वरूपहानिप्रसक्तिरिति पूर्वकं स्वभावान्तरं निरुद्धम् अपरं च तदुत्पन्नमिति न कस्यचित् परिणामः सिद्धयेत् । ___ अपि च, तस्यैवान्यथाभावः परिणामो भवद्भिर्वर्ण्यते; स चैकदेशेन, सर्वात्मना वा ? न तावत् एकदेशेन, एकस्यैकदेशासम्भवात् । नापि सर्वात्मना, पूर्वपदार्थविनाशेन पदार्थान्तरोत्पादप्रसङ्गात् । अतो न तस्यैवान्यथात्वं युक्तम् , तस्य स्वभावान्तरोत्पादनिबन्धनत्वात् । व्यवस्थितस्य धर्मिणो धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भावलक्षणः परिणामोऽभ्युपगम्यते न तु स्वभावान्यथात्वमिति चेत् , असदेतत् यतःप्रच्यवमानः उत्पद्यमानश्च धर्मो धर्मिणोऽर्थान्तरभूतोऽभ्युपगन्तव्यः अन्यथा धर्मिण्य-१० वस्थिते तस्य तिरोभावाऽऽविर्भावासम्भवात् । तथाहि-यस्मिन् वर्तमाने यो व्यावर्त्तते स ततो मिन्ना, यथा घटेऽनुवर्तमाने ततो व्यावय॑मानः पटः, व्यावर्त्तते च धर्मिण्यनुवर्तमानेऽप्याविर्भावतिरोभावाऽऽसङ्गी धर्मकलाप इति कथमसौ ततो न भिन्न इति धर्मी तदवस्थ एवेति कथं परिणतो नाम? यतो नार्थान्तरभूतयोः कट-पटयोरुत्पाद-विनाशेऽचलितरूपस्य घटादेः परिणामो भवति अतिप्रसङ्गात्; अन्यथा चैतन्यमपि परिणामि स्यात् । तत्सम्बद्धयोर्धर्मयोरुत्पाद-विनाशात् तस्या-१५ सावभ्युपगम्यते नान्यस्येति चेत्, न; सदसतोः सम्बन्धाभावेन तत्सम्बन्धित्वायोगात् । तथाहिसम्बन्धो भवत्न्) सतो वा भवेत् , असतो वा भवेदिति कल्पनाद्वयम् । न तावत् सतः समधिमताऽशेषस्वभावस्यान्यानपेक्षतया क्वचिदपि पारतन्यासम्भवात् ।नाप्यसतः,सर्वोपाख्याविरह(हि)ततया तस्य क्वचिदाश्रितत्वानुपपत्तेः; नहि शशविषाणादिः क्वचिदप्याश्रित उपलब्धः । न च व्यतिरिक्तधर्मान्तरोत्पाद-विनाशे सति परिणामो भवद्भिर्व्यवस्थापितः, किं तर्हि ? यत्रात्मभूतैकस्वभावा-२० नुवृत्तिः अवस्थामेदश्च तत्रैव तद्यवस्था । न च धर्मिणः सकाशाद् धर्मयोर्व्यतिरेके सति एकस्वभावानुवृत्तिरस्ति, यतो धाव तयोरेक आत्मा; स च व्यतिरिक्त इति नात्मभूतैकस्वभावानुवृत्तिः । न च निरुद्धधमानोत्पद्यमानधर्मद्वयव्यतिरिक्तो धर्मी उपलब्धिलक्षणप्राप्तो दृग्गोचरमवतरति कस्यचिदिति तादृशोऽसद्यवहारविषयतैव । अथ अनर्थान्तरभूत इति पक्षः कक्षीक्रियते तथाप्येकस्माद् धर्मिखरूपाव्यतिरिक्तत्वात् तिरोभावाऽऽविर्भाववतोर्धर्मयोद्धयोरप्येकत्वम् धर्मिस्वरूपवदिति केन२५ रूपेण धर्मी परिणतः स्यात् धर्मों वा? अवस्थातुश्च धर्मिणः सकाशादव्यतिरेकाद् धर्मयोरवस्थातृस्वरूपवन्न निवृत्तिः नापि प्रादुर्भावः धर्माभ्यां च धर्मिणोऽनन्यत्वात् धर्मस्वरूपवत् । अपूर्वस्य चोत्पादः पूर्वस्य च विनाश इति नैकस्य कस्यचित् परिणतिः सिद्धयेदिति न परिणामवशादपि साङ्यानां कार्यकारणव्यवहारः सङ्गच्छते । न च परिणामप्रसाधकं प्रमाणं क्षणिकम् अक्षणिकं वा सम्भवतीति प्रतिपादितमभेदनिराकरणं कुर्वद्भिः। ३० ___ यच असत्कार्यवादे 'असदकरणात्' इत्यादि दूषणमभ्यधायि तत् सत्कार्यवादेऽपि तुल्यम् । तथाहि-असत्कार्यवादिनाऽपि शक्यमिदमित्थमभिधातुम् न सदकरणादुपादानग्रहणात् सर्वसम्भवाभावात्। . शक्तस्य शक्यकरणात् कारणभावाश्च सत् कार्यम् ॥ इति । अत्र च 'न सत् कार्यम्' इति व्यवहितेन सम्बन्धो विधातव्यः, कस्मात् ? 'सदकरणात्' 'उपादानग्रह-३५ णात्' इत्यादिहेतुसमूहात् । उभययो(भयो)र्यश्च दोषस्तमेकः प्रेर्यो न भवति । तथाहि-यदि दुग्धा प्रसक्तिः वि. । २“अथ परित्यागात्"-तत्त्वसं० पजि. पृ. २३ पं० १८। ३-रहितया वा० बा० विना। "सर्वोपाख्याविरहलक्षणतया"-तत्त्वसं० पजि० पृ. २४ पं० ५। ४-नाशि स-भा० मा.नाश मति वा. बा०। ५ षष्ट्यन्तम् । ६ “केन आश्रयेण"-तत्त्वसं० पजि० पृ. २४ पं० १३। ७-व्यतिरिकात मां. मां. वा. बा. विना। ८-णोऽन्यत्वा-वा. बा०।-णोऽन्यनन्यद्वात् भां० मां०। ९-स्य क्वचित् वि०। १. पृ. २८२५० १८। ११ तत्त्वसं० पजि० पृ० २४ पं० २१ । १२ उर्भये यश्चादो-वा० बा० । उभयोश्चदोवि. डे। उभययाश्चदो-हा० । “यश्चोभयोर्दोषः"-तत्त्वसं० पजि. पृ. २४ पं० २४ । १३ “यदि दध्यादयः सन्ति दुग्धायात्मसु सर्वथा । तेषां सतां किमुत्पाद्यं हेत्वादिसदृशात्मनाम्" । तस्वसं० का० १७पृ० २५ स० त०३८
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy