SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - निबन्धना युक्तैव, अतिसूक्ष्मेक्षिकया सन्तानान्तरप्रतिपत्त्यभावाभ्युपगमे स्वसंविन्मात्रस्याप्यभावप्रसक्तेः ज्ञानाद्वैतवादस्य दत्त एव जलाञ्जलिः । तदेवं संविदो देशाभेदो नावगन्तुं शक्यः । २९४ नापि काल (ला) भेदोsवगमार्हः । तथाहि--यदा संविद् वर्तमाना भाति तदा न पूर्विकाः तदनवभासे च न तदपेक्षया 'अभिन्ना' इत्यवसातुं शक्या । अथ पूर्वसंवित् स्मरणे प्रतिभातीति ५ प्रकाशमान स्मर्यमाणयोः संविदोरभेदावगमः, अयुक्तमेतत् यतः स्मृतावपि संविद् वर्तमाना न ते पूर्वदर्शनमेव (न एव) स्मृतेर्व्यापारात् । सा हि पूर्वदर्शनमेवाध्यवत्यन्ती प्रतिभातीति कथमप्रतिभासमानं वर्तमान संवेदनं पूर्वसंविदाऽभिन्नमा (पूर्वसंविदात्मानमभिन्नमा ) दर्शयितुं प्रभुः ? अपि च, स्मरणमपि स्वतत्त्वमुद्भासयत् तत्रैवोपरतव्यापारं प्रतिभाति, न तु तत्र पूर्व दर्शनं स्वरूपेण चकास्ति प्रच्युतस्वरूपत्वात् तस्य । न चोपरतस्वरूपमपि पूर्वदर्शनं स्मृतौ प्रतिभातीति युक्तम् १० चकासतो रूपस्य स्मृतावपायात् । चकासंद्रूपसम्भवे च वर्तमानं तद् दर्शनं स्यात् नातीतम् यत इदमेवातीतस्यातीतत्वं यत् चकासदूपविरहः । तथात्वाभ्युपगमे च ेन ग्रहणमिति कथमभेदावगंमः ? अथ यदा स्मृतौ न पूर्वदर्शनावभासः तथासति प्रतिभासविरहीत् स्मृतिरेव स्वरूपेणाssभाति सी च स्वरूपेणाभिन्नयोगक्षेमत्वादभिन्नेति कथं नाभेदप्रतिभासः ? असदेतत्; अन्यानुप्रवेशेन प्रतिभासे सति तदपेक्षयाऽभेदव्यवस्थितेः । यदा च स्मृतौ पूर्वदर्शनं नावभाति तदा तदपेक्षया १५ कथं तस्याऽभेदावगतिः इति न कालाभेदोऽपि संविदः प्रत्येतुं शक्यः । भेदस्त्वेकस्मिन्नेव काले बहिर्नीलात्मा प्रतिभासमानवपुः अन्तश्च सुखादिसंवेदनं स्वप्रकाशतनु प्रतिभातीति कथं न प्रतीतिगोचरः ? तथा मधुर-शीतादिसंवेदनमनेकं स्वप्रकाशवपुर्युगपत् सर्वप्राणिनां प्रसिद्धमिति न तद्भेदः पराकर्तुं शक्यः यतः सुखादिसंवेदनमात्मनि पर्यवसितम् - तदात्मकत्वत्-न नीलनिर्भासमवैति नीलनिर्भासोऽपि-अप्रत्यक्षनीलात्मकत्वात् तत्रैव परिनिष्ठित इति कथं परस्पररूपानवभासने २० सुख - नीलसंविदोर्न भेदावगतिः ? अभेदो ह्यन्यापेक्ष इत्यन्यानवगमेऽवगन्तुमशक्यः भेदस्तु सकलान्यपदार्थव्यावृत्तभावस्वरूपः सोऽन्यप्रतिभासरहित स्वरूपप्रतिभाससंवेदनादेवावगत इति कथं न स्वप्रतिभासेऽपरसंवेदनाऽप्रतिभासनमेव स्वसंविदो भेदवेदनम् ? पूर्वाऽपरसंवेदनादपि स्वसंवेदनस्य भेदोऽवगम्यत एव । तथाहि तदपि वर्तमानाऽपरोक्षाकारं स्वसंवेदने प्रतिभाति न पूर्वापररूपतया; संनिहितग्रहणं हि पूर्वापररूपग्रहणम् । न च तत् संनिहित२५ स्वरूपसाक्षात्कारणस्वभावस्वसंवेदन मात्मसात्करोति तयोर्विरोधात् । तदेवं स्वसंवेदनमपि न पूर्वापरंभावे वृत्तिमदितिं सर्व विशदप्रतिभाससङ्गतं वर्तमानमेव । यच्च मनागपि न पूर्वापरभावसंस्पर्श तत् क्षणभेदसङ्गतिमनुभवतीति सिद्धः संविदोऽपि कालभेदः । तथा, एकक्षणनियतोऽपि प्रतिभासः प्रतिपरमाणुभिन्नः इतरेतरसंवित्परमाण्वननुप्रवेशे वा एकाणुमात्रः संवित्परमाणुपिण्डः स्यात् । ततश्च पुनरप्यपर संवित्परमाणोरभावेनाप्रतिभासने भेदावगम एव । तदेवं देश-कालाss३० कारैर्जगतः परस्परपरिहारेणोपलम्भप्रवृत्तेर्भेदाधिगतिर्व्यवस्थिता । न वा (चा) भेदवादिनः परः स्परपरिहारेण देशादीनामुपलम्भोऽसिद्धः अध्यक्षसिद्धे असिद्धतोद्भावनस्य चैय (या) त्यप्रकटनपरत्वात् । भेर्दैवादिनोऽपि परस्परं तदनुप्रवेशः स्यादित्यभिहितत्वाच्च । यदपि 'अथाकौरा (र) भेदाद् भेदः स च समानासमानसमयभिन्नसंवेदनाग्राह्योऽभिन्नसंवेद. नानवसेयश्च' इत्यादि दूषणमभ्यधयि, तदपि प्रतीतिबाधितत्वादनुद्धोष्यम्, विज्ञान - शून्यवा १ - भिन्ने सत्य - वा० वा० विना । २ पूर्व सं-भां०म० । ३ प्रवर्तते वा० वा० । प्रथमाते वि० । प्रथमते हा० । ४- ते पूर्वदर्शनमेवाध्यवस्यती प्रतिभातीति भ० मां० । ५- मानसंवेदनसंवेदनं चिदात्मानमभिन्नं वा दर्श- मां० मां० । मानसंवेदनं विदात्मानमभिन्नं वा दर्श-आ० हा ० वि० । ६ पूर्वदर्शनस्वा-भां० मां० विना । ७- सद्रूपं संभवे वर्त - भ० मां०] हा० । ८ तत्वाभ्यु वा० बा० विना । ९- गमो घटादा स्मृतो न पूर्व-वा० बा० विना । १० - हा स्मृ-वा० बा० । ११ सा च स्वरूपनवा स्वरूपेण भिन्नयोग - वा० वा० । १२- प्रवेशनप्र - वा० बा० वि० विना । १३ -संवेदं स्व वा० बा० । त्वाद् नील - वा० वा० विना । १५- समवेति भां० मां० हा० वि० । १६ परिनिश्चित वा० बा० । १७हितास्व वा० वा० । १८ - वसंवे - वा० बा० । १९- पराभावे वा० बा० विना । २० - ति पूर्व २१- भास प्र-वा० बा० विना । २२- भावेन प्रति - वि० । २३ वैयावृत्य - वा० बा० विना । दिनो - मां० । २५ - काराद् भेदाद् भेदः आ० । काराद् भेदः वि० । २६ पृ० २७४ पं० २७ । १४ वा० बा० । २४ - दवे
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy