SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । २९५ दानुकूलतया च पर्यायास्तिकमतानुसारिणो न क्षतिमावहति । यदपि 'ग्रामाऽऽरामादिभेदप्रतिभासोऽविद्याविरचितत्वादपारमार्थिकः' इत्यभिधानम् , तदप्यसम्यक् इतरेतराश्रयप्रसक्तेः । तथाहिअविद्याविरचितत्वं भेदप्रतिभासस्य अपारमार्थिकस्वरूपसङ्गत्यधिगतेः तत्सद्भावाच्च अविद्यानिर्मितत्वप्रतिपत्तिरिति स्फुटमितरेतराश्रयत्वम् । अभेदप्रतिभासेऽपि कुतः पारमार्थिकत्वम् इति च वक्तव्यम्, यदि विद्यानिर्मितत्वात् इत्युच्येत तदाऽत्रापीतरेतराश्रयत्वं तदवस्थमित्यलमतिप्रसङ्गेन । ५ तन्न भेदे प्रमाणबाधा। तत्सद्भावप्रतिपादकप्रमाणभावस्तु दर्शितः। अभेदस्तु न प्रमाणावसेय इत्यपि दर्शितम् । अपि च, अद्वैते प्रमाण-प्रमेयव्यवहारस्य प्रत्यस्तमयान्न तदभ्युपगमो ज्यायान्, यतस्तद्यवहारश्चतुष्टयाक्षेपपूर्वकः । तदुक्तम्-"चतसृषु भेदविधासु तत्त्वं परिसमाप्यते यदुत प्रमाता प्रमेयम् प्रमाणम् प्रमितिः" [ ] इति कुतोऽद्वैतस्य प्रमाणाधिन्यता? यश्चागमो मन्त्र-ब्राह्मणरूपो भेद निषेधायोदाहृतः तस्यार्थवादत्वेन प्रतीयमानार्थे प्रामाण्य-१० मागमप्रमाणवादिनाऽभ्युपगन्तव्यम् अन्यथा प्रमाणविरुद्धत्वेन तदाभासत्वप्रसङ्गात् । वैचामेदपक्षे दूषणमाशङ्कयोत्तरमभ्यधायिं 'अद्वैते किल शास्त्राणाम् मुमुक्षुप्रवृत्तीनां च वैयर्थ्यम्' इत्याशय परिहाराभिधानम्-'अविद्यानिवर्तकत्वात् मुमुक्षुप्रवृत्तेः तस्याश्चातश्वरूपत्वान्न द्वैतापत्तिः नाप्यनिवर्त्यत्वम् वस्तुसत्त्वे ह्येतद द्वयं भवेत्' इति, तदप्यसारम्; यतो यदि अवस्तुसती अविद्या कथमेषा प्रयत्ननिवर्त्तनीया स्यात् ? न ह्यवस्तुसन्तः शशशुङ्गादयो यत्ननिवर्तनीयत्वमनुभवन्तो दृष्टाः।१५ अथ सत्त्वेऽपि कथं निवृत्तिः? तदनिवृत्तौ वा कथं मुक्तिः? न सदेतत् ; नहि सतां घटादीनां(नाम)निवृत्तिः तथाऽविद्याया अपि भविष्यति । अथ घटादीनामपि न परमार्थसत्त्वम् तेषामतादवस्थ्यात्, असदेतत् ; यतोऽतादवस्थ्यात् तेषामनित्यताऽस्तु नासत्त्वम् अन्यथा तेषां व्यवहाराङ्गता न स्यात् । अथ न तेषां परमार्थसत्त्वाद् व्यवहाराङ्गता किन्तु संवृत्येति व्यवहाराङ्गत्वेऽपि घटायोऽपि न परमार्थसद्रूपभाजः, असदेतत् ; संवृतेः स्वभावासंवेदनात् । तथाहि-सांवृतमुपचरितं काल्पनिकं २० रूपमभिधीयते, यञ्च कल्पनानिर्मितं रूपं तद् वाधकप्रत्ययेन व्यावर्त्यत इति कथं व्यवहाराङ्गतामश्रुवीत ? यच्च अपरमार्थसंतामपि सत्यकार्यनिर्वर्तकत्वमुपदर्शितम् तत् स्वरूपसङ्गतेद्वैतपक्षे कथश्चिदुपपत्तिमत् स्यात् । अभेदपक्षे तु सत्यव्यतिरिक्तस्यासत्यस्याभावात् न कथञ्चित् कार्यसाधकत्वमुपपत्तिमत् । यदप्यभ्यधायि 'भेदविषयाणामुपायानां ब्रह्मरूपेण सत्त्वात् कार्यका(क)रणम्', एतदप्ययुक्तम् । यतो येन रूपेण सत्त्वं तेन कार्यसामर्थ्यम् यञ्च कार्योपयोगं रूपं तेषाम् तदसदेवेति न२५ ब्रह्मरूपेणापि सन्त उपायात(याः) कार्यकरणक्षमाः ततः सकलव्यवहारप्रच्युतेरभेदस्य न प्रमाणगम्यता । यदपि 'सर्वमेकं सत्, अविशेषात्' इत्युक्तम्, अन्यत्रापि(अत्रापि) किमयमध्यक्षव्यापारो निर्दिष्टः, आहोखिदनुमानम् ? यदि प्रथमः पक्षः, स न युक्तः; सकलाद्वैतग्राहकत्वेनाध्यक्षस्य प्रतिषिद्धत्वात् । द्वितीयोऽप्ययुक्त एव, यतोऽनुमानं दृष्टान्त-दान्तिकभेदे सति प्रवृत्तिमासादयति; स चेत् पारमार्थिकः कुतोऽद्वैतम् ? अपारमार्थिकश्चेत् कथं ततः पारमार्थिकाद्वैतसिद्धिः? तथा,३० हेतुरपि तत्साधको यदि भिन्नस्तदाऽपि कथमद्वैतम् असतो भेदानुपपत्तेः शशविषाणादिवत् ? अभिन्नश्चेत् न ततः साध्यसिद्धिः प्रतिज्ञार्थंकदेशासिद्धत्वेनागमकत्वात् । न च कल्पितभेदादपि ततस्तत्सिद्धिः, कल्पनाविरचितस्य कार्यनिर्वर्तनाऽक्षमत्वात् । कल्पिताऽहिदंश-रेखागवयादीनामपि यत् असत्वे मरणादिकार्यकर्तृत्वं प्रतिपादितम् , तदपि न युक्तिक्षमम्; तेपामपि केनचिद् रूपेण पारमार्थिकत्वसङ्गतेः अत्यन्तासतस्तु पष्ठभूतस्यै(स्ये)य कार्यकारितानुपलब्धेः । तथा, वादि-३५ प्रतिवादि-प्राश्निकानामभावे नाद्वैतवादावतारः सम्भवी; तत्सद्भावे वाऽद्वैतविरोधो न्यायानुगत १ पृ. २७६ पं०८। २-सम्मत्यधिगतिस्तत्स-वा: बा०। ३-माणाभाव-भां० मा० आ०। ४ "प्रमाताxxx प्रमाणम् xxx प्रमेयम् xxx प्रमितिः चतसृषु चवंविधासु अर्थतत्त्वं परिसमाप्यते'--वात्स्या० भा. पृ. २५०२। ५-ति कुतोऽद्वैतस्य प्रमाणं प्रमितिरिति कुतोऽद्वैतस्य प्रमाणाधिगम्यता भां० मां० । ६ पृ. २७३ पं. ५-६। ७-णत्ववादिना-आ० वि०। ८ यच्च भे-भां० मा० आ० । यत्त्वमेद-वि.। ९ पृ. २७६ पं० २७-पृ. २७७ पं० २। १० अधीते किल वा० बा०। ११-सत्ये ह्ये-वा० बा० विना । १२-वर्त्तत-भां० विना। १३-सत्ताम-वा. बा. विना। १४-कम-वा. बा. विना। १५ पृ. २७९ पं. १५। १६ पृ. २७९ पं२०। १७-त्वात् कारणं-वा. बा. विना। १८-पयोगरूपं आ० वि०। १९ कार्यकार-वा. बा.। २. पृ० २८० पं० १९।-कन्यत्रापि वा. बा०। २१ पृ० २८० पं०१॥
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy