SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। २९३ अन्यथासर्वत्र भेदोपरतिप्रसक्तिः ? नापि द्वितीयकल्पना, यतः तत्रापि पूर्वदृगधुना नास्तीति कथमसती सा ग्राहिका भवेत् ? अथ पूर्व तया गृहीतमित्युच्यते तत्रापि किं वर्तमानं रूपं तया गृहीतम्, उतान्यत् ? यद्यन्यत् कथमेकता ? अथ तदेव, तत्रापि न प्रमाणमस्ति, पूर्वाऽपरदृशोरसंस्पर्शस्तु प्रतिभासभेदात् प्रतिभास्यमपि भिनत्ति । नापि तृतीया कल्पना, यतः स्मृतिरेव पूर्वरूपतां निरन्तरदर्शिनोऽवभासयति न दृगिति प्राप्त ; तच्चेष्टमेव । तथाहि-यस्य स्मृतिर्नास्ति तदैवागतस्य ५ नासौ मासादिपरिगतमर्थमध्यवस्यति । ननु च स्मृतावपि पूर्वरूपता यदि चकास्ति तथापि सत्येव "उपलब्धिः सत्ता" [ ] इति वचनात्, असदेतत्; यतः स्मृतिरपि न वर्त. मानकालपरिगतमवतरति तमनवतरन्ती च त(न त )दभिन्नं पूर्व रूपमादर्शयितुं समर्थेति न साप्यमेदग्रहदक्षा । तस्मात् पूर्वदृगनुसारिणी स्मृतिरपि वर्तमानदृशो भिन्नविषयैव। ___अथ 'तंदेवेदम्' इति दर्शनसमानाधिकरणतया स्मृत्युत्पत्तेः पूर्वापराभिन्नार्थता; ननु किमिदं १० सामानाधिकरण्यम् ? यदि दर्शन-स्मृत्योरभिन्नावभासिता, तदयुक्तम् । प्रतिभासभेदात् । तथाहिदर्शनं स्फुटप्रतिभासं वर्तमानार्थविषयतयाऽवभाति, स्मरणमप्यस्पष्टप्रतिभासं विभ्राणं परोक्षोल्लेखेवदा(दाभा)ति तत् कथमेकः प्रतिभासः ? प्रतिभासवभेदाव(भासनभेदे च ) रूप-स्पर्शसंविदोरिव विषयभेदः, तत एवैकत्वं न क्वचिदपि भातीति न वस्तु सत् । भवतु वा कल्पनोल्लेखविषयोऽभेदः तथापि प्रतिभासभेदान्नाभेद इत्युक्तम् । अनेनैव न्यायेन दर्शनस्याप्यभेदो निपेद्धव्यः। तथाहि-दर्शनमपि निरस्तवहिरर्थप्रतिभासमात्मानमेवोद्दयोतयितुं समर्थम् तत्रैव पर्यवसितत्वात् न बहिरर्थम् नापि" त(न)रान्तरसंवेदनम् । तवेदने च न ततोऽभिन्नमात्मानमाख्यातुमलम् । न च ततो भेदावेदनमेवाभेदवेदनम् विपर्ययेऽप्यस्य समानत्वात् । तथाहि-भेदवादिनाऽप्येतच्छक्यते वक्तुम्-अन्यतोऽभेदावेदनमेव भेदवेदनं संवेदनस्य । किञ्च, स्वसंवेदनेऽन्यानुद्भासनमेव ततो भेददर्शनम् । तथाहि-यद् यथा प्रतिभाति २० तत् तथाऽभ्युपगन्तव्यम्, यथा 'नीलं नीलरूपतया प्रतिभासमानं तथैवाभ्युपगमविषयः बहिरर्थनरान्तरसंवेदनविविक्ततया च दर्शनं खसंवित्ती प्रतिभातीति तथैव तयवहारविषयः अन्यथा सकलव्यवहारोच्छेदप्रसङ्गात् । न च स्वदर्शनमेवाऽपरोक्षतया स्ववपुषि प्रतिभातीति तदेव सदस्तु परसंविदादयस्तु न निर्भान्ति कथं ता (ताः) सत्याः ? कथं वा ततः स्वसंविदो भेदः? अनुमानेनापि न तासामधि(ग)तिः प्रत्यक्षाप्रवृत्तौ तत्रानुमानानवतागत् तदवतारेऽपि न तद् वस्तुसनां साध:२५ यितुं क्षमम् व्यवहारमात्रेणैव तस्य प्रामाण्यादिति वक्तव्यम्, यतो यदि स्वदर्शनं परदर्शनंसंविदादा(परसंविदादी) न प्रवर्तते परसंवेदनमपि स्वदर्शनादौ न प्रवर्तन इति कथं स्वदर्शनस्यापि सत्यता? अथ स्वदर्शनमपरोक्षतया स्ववपुषि प्रतिभातीति सत्यम् । नन्वेवं परदर्शनमपि तथैव प्रतिभातीति कथं न सत्यम ? नहि स्वविषयं प्रतिभासमाविभ्राणा भावा अन्यत्रान्यथा प्रतिभासमनवतरन्तः स्वरूपेणाप्यसन्तो नाम । यथा च परसंविदादीनामसत्यत्वे न ततः स्वदर्शनस्य भेद.३० सिद्धिः तथाऽभेदस्यापीत्युक्तम् । परसंवेदने च प्रत्यक्षानवतारेऽप्यनुमानप्रवृत्तिरुपपन्नैव, वसन्ततौ निश्चितसंवेदनप्रतिबन्धव्यापारव्याहारादेर्लिङ्गस्य परसन्ततावुपलम्भात् परसंवेदनप्रसिद्धिरनुमान १-तीया क-मां०। २ पूर्वतया कां० । ३-ता तथा तदे-मा० ।-ता तथा तत्रा-भां०। ४-पि प्र-वा० बा०। ५-म् नवेष्ट-भां० मां० ।-म् नन्वेट-वा. वा०। ६-तदेवा-वा. बा० । ७-तरर्पित तमनव-भां० मां०। ८-दमिन्नं सर्वरू-वा० वा० ।-दभिन्नपूर्वरू-आ० हा० वि०। ९ तदैवे-भां० मां० । तदेवमि-वा. बा.। १०-भास विभ्राण प-भां०। ११-खदा भाति वा० वा० । १२-भासेव भेदाव रूप-हा० ।-भासे च भेदाच्च रूप-भां. मां. आ० वि०। १३ तत एव कत्वं-भां० म० हा। तत एकत्वं-वा. बा. आ.। १४ प्र. पृ.पं०४। १५-पि ररा-वा० दा०। १६-दने च ततो-वा. बा. । -दने वनं ततो-हा०वि०-इने व ने ततोगां० म०। १७ किश्चास्वे सं-वा. बा. । किञ्च स्खे सं-भां० मा०। १८ नीलनी-भां० मां० हा.। १९ बहिरर्थान्तरान्तर-वा० बा• विना। २०-भति वा० बा. हा. वि.। २१-थं नास-कां०। २२-पत्तिः भां० मा० । २३ यदि स्वदर्शनं संविदादौ न प्र-भां० मां० । यदि परदर्शनं संविदादी ननु वर्त-वा० बा० । यदि स्वदर्शनं परदर्शनसंविदादौ न प्र-कां० । य स्वदर्शनपरदर्शनं संविदादौ न प्र-आ०। २४-क्षया वा. बा. विना ।-क्षया वपु-आ० । २५-चा अन्यथा वा० बा०। २६ स्वसंवित्तौ नि-वा. बा.। २७-दन-भां० कां• विना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy