SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २९० प्रथमे काण्डे-- नुभवाभावेऽप्युपजायते तर्हि भाविदर्शनपरिगतेऽपीदानीन्तनदृसंस्पर्शभाजि स्मृतिरुदीयताम्। अथापि पूर्वरूपता पूर्वमनुभूतेति इदानीन्तनदर्शनाभावेऽपि पूर्वतामात्रे स्मृत्युदयः; नन्वेवं पूर्वता. मात्रमेव पूर्वदर्शनावगतम् नेदानीन्तनरूपव्यापितयापि तद् अवगतं स्यात् । तन्न पूर्वाऽपररूपतयो. रेकतावगमः सिद्धः । न च पुनदर्शने सति ‘स एवायं मया यः प्राक् परिदृष्टः' इति प्रतिपत्तेरमेदा५वगमः पूर्वाऽपरयोः यतः पूर्वाऽपराभ्यां प्रत्ययाभ्यां न पूर्वापररूपग्रहणम् सर्वस्य स्वकालावधिपदार्थस्वरूपग्राहकत्वादू दर्शनस्य । न च तत्कालभाविस्वरूपं पूर्व परं वा भवितुमर्हति, साम्प्रतिकरूपव्य वहारोच्छेदप्रसक्तेः । न च 'साम्प्रतिकरूपं पूर्व मया परिदृष्टम्' इति निश्चयो युक्तः तस्य वैतथ्यप्रसङ्गात् । नन्वेवं पूर्वरूपता वर्तमाने रूपे कथमवसीयते 'इदं मया पूर्व दृष्टम्' इति भेदसद्भावात् ? तीभेदेऽपि कथं वर्तमानस्य रूपस्य पूर्वदृष्टताऽवगमः ? पूर्वदृष्त्वात् इति न वक्तव्यम् । यतो दृष्टता १. पूर्वदर्शनगोचरीकृतं रूपम् तद्दर्शनं चेदानीमतीततयाऽसत् तदृष्टताप्युपरतेति नाऽसती वर्तमान दर्शनपथमवतरतीति । न च तदर्शने पॅच्युते तदृश्यमानताप्युपरतेति न सा साम्प्रतिकदर्शनाव. सेया, दृष्टता तूत्पन्नेति वर्तमान दर्शनावसेया, यतो यदि दृष्टता पदार्थानां तदात्वे सन्निहिता तदा यथा नीलता सन्निहिता तदानीमनुत्पन्नेऽपि पूर्वदर्शने प्रतिभाति तथा दृष्टतापि सकलतनुभृताम नुत्पन्नेऽपि पूर्वदर्शने स्फुटवपुषि दर्शने प्रतिभासताम् न किञ्चित् पूर्वदर्शनस्मरणेन ? एवं च येना१५प्यसावर्थः पूर्वान्नावगतः सोऽपि दृष्टतामवगच्छेत् । ततो 'नीलादिकमेतत्' इति पश्यति 'पूर्वदृष्टम्' इत्येतच्च स्मरणादध्यवस्यति न तु 'पूर्वदृष्टमेतत्' इत्येका प्रतीतिः । ननु 'इदं प्रतिभासमानमतीतसमये मया दृष्टम्' इत्येवं स्मृतिरनुभूयते न च पूर्वदृष्टताऽनुभवव्यतिरेकेण दृश्यमानस्य स्मृतिः सम्भवत्येवमाकारा, असदेतत् ; यतो 'दृष्टम्' इति मतिः स्मृतिरूपमासादयन्ती तत्कालावधि दर्शनविषयम ध्यवस्यन्ती लक्ष्यते न नु (न तु) वर्तमानकालपरिगतमर्थखरूपमधिगच्छति; वर्तमानकालतां तु २० दर्शनमनुभवति पूर्वरूपासङ्गतामिति न काचित् प्रतिपत्तिरस्ति या वर्तमानं 'पूर्व दृष्टम्' इत्यवगच्छति । तन्न प्रत्यभिज्ञाऽपि पूर्वापरयोरभेदमधिगन्तुं समर्था । अथ अस्मद्दर्शनविरतावप्युपलभ्यते वज्रोपलादिरर्थो नरान्तरेणेत्यभिन्नः, नैतत् सौरम्। मद्दर्शनानु(नाप)गमे नरान्तरदर्शनमवतरतीति नात्र किञ्चित् प्रमाणमस्ति । तथाहि-न प्रत्यक्षं परटेग्गोचरमर्थमवगमयितुमलम् परदृशोऽनवगमात् , तदनवर्गमे च तत्प्रतिभासितत्वस्याप्यनवगतेः । २५न च तद्विषयव्यवहारदर्शनात् परोऽपि 'इदमर्थजातं पश्यति' इत्यनुमानात् परदृष्टतां स्वदर्शनविष यस्य प्रतिपद्यते जनः अनुमानेनाभेदाऽप्रतिपत्तेः। तद्धि सदृशव्यवहारदर्शनादुदयमासादयत् स्वहः ष्टतुल्यतां परदृग्विषयस्यावगन्तुमीशं न पुनरभेदम्, यथा धूमान्तरदेर्शनादुद्भवन्त्यनुमितिः पूर्वदहनसदृशं दहनान्तरमध्यवस्यति न पुनस्तमेव दहेनविशेषम् सामान्येनान्वयपरिच्छेदात् । यदि पुनः सदृशव्यवहारदर्शनात् स्व-परदृष्टस्याभेदावगमस्तदा रोमाञ्चलक्षणतुल्यकार्यदर्शनात् स्व-परमु(सु)३० खाभेदानुमितिप्रसक्तिः। अथ पुलकोद्गमादौ तुल्येऽपि सन्तानभेदात् भेदः स्व-परस्थप्रीतेः; ननु सन्ततेरपि कुतो भेदः ? यद्यपरसन्ततिभेदात् तदाऽनवस्था । अथ स्वभावभेदात् सन्तानभेदः तथा. सति सुखमपि स्वरूपभेदाद् भिद्यताम् , यी च स्वरूपभेदात् स्व-परसन्ततिवर्तिनः सुखस्य भेदः तथा कालभेदात् स्व-परदृष्टस्यार्थस्य किं न भेदः? न च परस्परपरिहारेणोपलम्भप्रवृत्तेः स्व-परसन्ततिवर्तिन्या:प्रीतेर्भेदः, अर्थस्यापि स्व-परदृष्टस्याऽयुगपदन्योन्यपरिहारेणोपलम्भवृत्तेर्भेदप्रसक्तेः। यतो ३. यदा स्वदृग्गोचरचारी न तदा परदृशि प्रतिभाति यदा चोत्तरसमये परसंवेदनमवतरति न तदा खसंवेदनमिति कथं न भेदः ? अतो विच्छिन्नदर्शनस्यार्थस्य पुनदर्शने दलितोद्गतनखशिखरदर्शन १ पूर्वरूपता-भां० मां०। २-स्य च तत्-भां० मां० विना। ३ पूर्वप-आ० हा० वि०। ४ पूर्वभां० मां० विना। ५-ष्टत्वादिति दर्श-आ० हा० वि०। ६ प्रच्यवते आ०। -ति न साम्प्र-वा. बा० ।-ति ता साम्प्र-हा० वि० ।-ति साम्प्र-आ०। ८-रणेनैवं वा ये-आ०। ९-तस्वस्म-वा० बा०। १० ननु भां० मां० हा० विना। ११ नत्विदं प्रतीभा-वि० । नत्विदं प्रतीतिभा-भां० मां०। १२क्ष्यते तनु व-हा। १३ सार मद्देशनानुगमे च न-हा०वि०। १४ नगरा-भां० मां०। १५ दृष्टगोभां. मां०। १६-गमे तत्-आ० हा०वि०। १७-द्यते यथो नु-वा. बा.। १८-यत् तदृष्ट-आ. हा. वि०। १९-शनाद्भ-आ० हा० वि०। २०-हनं वि-भां. मांविना। २१-नः सादृश्यव्य-भां० मां० । २२-पि समान-भां० मां० विना। २३-स्थतातेः वा. बा० ।-स्थप्रतेः हा० वि० ।-स्थर्थतेः आ०। २४ यथा ख-वा. बा० आ० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy