SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ नियमीमांसा । टरूपतया तस्यापि प्रतिभासनात् । न च स्वसंविदेव आत्मनः स्थायितामुद्भासयति, अतीतानागतसकलदशावेदनप्रसक्तेः अतीताऽनागतजन्मपरम्परापरिच्छेदः स्यात् । न चातीताऽनागतावस्था तत्संवेदने' न प्रतिभाति तत्सम्बन्धी तु पुमांस्तत्रावभासत इति वक्तुं क्षमम्, यतस्तदवस्थाऽनवगमे तयापितया तस्याप्यनवगमात् । वर्तमानदशा हि स्वसंवेदने प्रतिभातीति तत्परिष्वक्तमेवात्मस्वरूपं तद्विषयः भूत- भाविदशानां तु तत्राप्रतिभासने तद्ग (गत) त्वेनात्मनोऽप्यप्रतिभासनमिति न स्वसंवेद- ५ नादपि तदभेदप्रतिपत्तिः । २८९ अथ प्रत्यभिज्ञा पदार्थानां स्थायितालक्षणमभेदमवगमयति । ननु केयं प्रत्यभिज्ञा ? अथ 'स एवायम्' इति निर्णयः; नन्वयमपि प्रत्यक्षम् अनुमानं वा ? न तावत् प्रत्यक्षम्, विकल्परूपत्वात् । नाप्यनुमानम्, अवगतप्रतिबन्धलिङ्गानुद्भूतत्वात् । न चाक्षव्यापारे सति स एवायम्' इति पूर्वा परैतामुल्लिखन् प्रत्ययः समुपजायत इति कथं नाक्षजः इति वक्तव्यम्, अक्षाणां पौर्वापर्येऽप्रवृत्तेः - १० पूर्वापरसम्बन्धविकले वर्तमानमात्रे ऽर्थेऽक्षं प्रवर्त्तत इति तदनुसार्यपि दर्शनं तत्रैव प्रवृत्तिमत् नातीतोऽनागतयोरिति न ततस्तद्वेदनम् । न च 'पूर्वदृष्टमिदं पश्यामि' इत्यध्यवसायादतीत समयपरिवक्तभाव वेदनमिति युक्तम्, यतः 'वर्तमानमेव पश्यामि' इत्युलेखस्तत्र स्यात् दर्शने तस्य प्रतिभासनात् पूर्वरूपता तु न तत्र प्रतिभातीति- कथमध्यक्षोल्लेखं विभर्ति ? इति न तदवसेया भवेत् । यदि तु पूर्वरूपताऽपि तदवसेया तदा स्मृतिमन्तरेणापि प्रतिभासताम् यतो न पूर्वरूपतैव स्मृति- १५ मपेक्षते न वर्तमानतेति वक्तुं क्षमम् तयोरभेदात् । यदि पूर्वता - वर्तमानतयोर्भेदो भवेत् तदा वर्तमानतावभासेऽपि पूर्वरूपता न प्रतिभाता इति स्वप्रतिपत्तौ सा स्मृत्यपेक्षा भवेत् । यदा तु यदेव वर्तमानं तदेव पूर्वरूपम् तदा तद्दर्शने तदपि दृष्टमिति न स्मरणं फलवत् तत्र स्यात् नहि दृश्यमाने स्मृतिः फलवती, स्मृतिर्हि व्यवहारप्रवर्तकत्वेन सप्रयोजना, दृश्यमाने चार्थे दर्शनमेव व्यवहारमुपरचयतीति किं तत्र स्मृत्या ? न च पूर्वरूपता अध्यक्षे न प्रतिभासत इति स्मृतिस्तत्र २० सार्थिका; यतः पूर्वरूपताया अध्यक्षाप्रतिभासे सद्भाव एव न सिद्ध्येत्, सद्भावे वा कथं तत्र साधनं (सान) प्रतिभासेत ? अपि च, इदानीन्तनाक्षजप्रत्ययावभासिनी यदि न पूर्वरूपता स्मृतिरपि कथं तामवभासयितुं क्षमा दर्शन विषयीकृत एव हि रूपे स्मृतेः प्रवृत्त्युपलम्भात् ? पूर्वरूपता तु सती अपि नेदानीन्तनदर्शनावभातेति न स्मृतिगोचरमुपगन्तुमीशेति न दृष्टमात्रमेव स्मृतिपथमुपयाति । अथ पूर्वदर्शनेन पूर्वरूपता विषयीकृतेति स्मृतिरपि तां परामृशति असदेतत् पूर्वरूपतायाः पूर्व- २५ दर्शनेनाप्यपरिच्छेदात्, यतः सकलमेवाध्यक्षं वर्तमानमात्रावभासं परिस्फुटं संवेद्यत इति वर्तमानतामात्र मध्यक्षविषयः । ननु यदि पूर्वरूपता नाध्यक्षगोचरः कथं स्मर्यते ? न ह्यदृष्टे स्मृतिरुपपन्ना, नैतत्; दृष्टमेव हि सकलं नीलादिकं स्मृतिरुल्लिखति स्मर्यमाणं स्फुटं चाकारमपहाय नान्या काचित् पूर्वरूपता स्मृतौ भाति अन्यत्र वा संवेदने, केवलं स्मर्यमाणोऽर्थः 'पूर्वः' इति नाममात्र वर्तमानमपेक्ष ( क्ष्य) 'पूर्वः' इति नाममात्रकरणात् । न च यथा स्फुटाध्यक्ष प्रतिभासिन्यपि क्षणभेदे ३० तत्र व्यवहारप्रवर्तकमनुमानं फलवत् तथा पूर्वरूपे दृश्यमानेऽपि वर्तमानदर्शने तत्र व्यवहारकारितया स्मृतिः फलवतीति वक्तुं युक्तम्, यतो विद्युदादावव्यक्षेऽपि प्रतिक्षणं त्रुट्यत्प्रतिभासोऽनुभूयते पूर्वरूपता तु स्मृतिमन्तरेण न क्वचित् प्रतिभाति येन क्षणिकत्ववदनुभवविषयत्वेऽपि प्रतिक्षणं स्मृतिर्व्यवहारमुपरचयन्ती तत्र सफला भवेत् । किञ्च वर्तमानवस्तुनि दर्शनाद् यदि पूर्वरूपतायां स्मृतिर्भवेत् भाविरूपतायामपि भवेत् अभेदात् । तथाहि - भिन्नवस्तुनि तस्योपलम्भो ३५ नास्तीति तत्र स्मृतिर्न भवेदिति युक्तम्, अभिन्ने तु पूर्वरूपतेव भाविरूपता दर्शनेनाऽनुभूतेति पूर्वरूपतायामिव मरणावधिसकलभाविरूपतायामपि स्मृतिर्भवन्ती केन वार्येत अभेदेनानुभूतत्वाविशेषात् ? न च पूर्वमनुभूतमपि पुनर्दर्शनोदये स्मृतिपथमुपयातीति पुनर्दर्शनसङ्गतं स्मृतिहेतु:, पूर्व गिरिशिखरादाविदानीमनुभवाभावेऽपि स्मृतेरुदयदर्शनात् । यदि पुनः स्मृतिरिदानीन्तना १- त्मनि स्था-भां० म० । २- स्थास्तत्सं भां० मां० विना । ३- ने प्र-वा० बा० । ४- मानमनवआ० । ५- रमु भ० मां० वा० वा० । ६-णां पूर्वा-भां० मां० वा० बा० । ७ यतो वर्तमानता स्मृतिमपेक्षते स्वप्रतीतौ नेदानींतनुरूपतेति वक्तुम् भ० मां० । यतो न वर्तमानता स्मृतिमपेक्षा न च पूर्वरूपतैव स्मृतिमपेक्षते इति वक्तुम् वा० वा० • साधन प्रतिभासेवापि च वा० बा० । ९ स्मृतिप्र - भां० म० । १०- ति ह-वा० वा० । ११- नपेक्ष-आ० । १२ दर्शनानु-आ० । स० त० ३७
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy