SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २८८ प्रथमे काण्डे - भासि ? न च वर्त्तमानाध्यक्षेण प्रतिभाति वस्तुनि अतीतादिकाल सम्बन्धिताधिगमं विना तदभेदावगमः सम्भवति, न चाध्यक्षं पूर्वाऽपरसमयसमन्वयमर्थ सत्त्वम्-अविषयत्वाद्-अधिगन्तुमक्षममिति न तद् उद्भासयतीति सन्देह एव तत्र युक्तः नासत्वमिति वक्तव्यम्, यत उभयावलम्बी सन्देह उभयदर्शने सत्युपजायते यथा ऊर्ध ( र्ध्व ) तावगमात् पूर्वदृष्टौ एव स्थाणु-पुरुषौ परामृशत् (न्) सन्देहः ५ प्रतिभाति, न च कालान्तरस्थायित्वं कदाचिदप्यवगतम्, तत् कुतस्तत्र सन्देहः ? यः पुनर्भवतां 'काला'न्तरस्थायी' इति सन्देहैः स सदृशापराऽपरार्थक्रियाकारिपदार्थान् संस्पृशति, 'ते च तथा क्वचिद् दृष्टाः कचिन्न' इत्युभयावलम्बी सन्देहो युक्तस्तत्र । इति यत् प्रतिभाति तत् सकलं क्षणान्तरस्थितिविरहि• तमिति पदार्थानां सिद्धः क्षणभेदः । अथ ध्वंस हेतुसन्निधिविकलोऽध्यक्षगोचरातिक्रान्तोऽपि पदार्थस्तिष्ठतीति कथं क्षणभेदः ? तथाहि - यद्यपि अध्यक्षोदयो न पूर्वापरकालसंस्पर्शी तथापि तस्यैव १० तत्रापि सामर्थ्यान क्षणाभेदग्राहित्वम् तदभावस्तु नाभ्युपगन्तुं युक्तः न हि ग्रहणाभावादेव अर्था न सन्ति अतिप्रसङ्गात्, असदेतत् यतः 'किं स्थिरमस्थिरतया वस्तु अक्षजे प्रतिभासे प्रतिभाति उताऽस्थिरम्' इति सन्देह एव युक्तः । अपि च, स्थिरमूर्तिर्यद्यसौ भावः कथमस्थिरतया दृक्प्रभवे दर्शनेऽवभासेत ? नहि शुक्लं वस्तु पीततया परिस्फुटेऽदुष्टाक्षजे प्रत्यये प्रतिभाति तयोः परस्परविरोधात् । एवं न स्थिरम स्थिरतया परिस्फुटदर्शने प्रतिभासेत तो (अतोs ) स्थिरतया प्रतिभासनाद१५ध्यक्षगृहीत एव क्षणभेदो भावानाम् । न चापेक्षित हेतुसन्निधिर्भावानां विनाशस्तदभावे न भवतीति 'स्थायिनो भावाः' इति वक्तुं युक्तम्, यतो न नाशहेतुस्तेषां सम्भवति अदर्शनस्यैवाभावरूपत्वात् । आह च - " अनुपलब्धिरसत्ता" [ ] इति । प्रतिभासमाने च पुरोव्यवस्थिते वस्तुनि पूर्वापररूपयोरदर्शनमस्तीति कथं ध्वंसस्य मुद्रादिहेतुत्वम् मुद्गराद्यन्तरेणाप्यदर्शनस्य सम्भवात् ? न च तदानीमदर्शनमेव नाभाव इति, मुद्गरव्यापारानन्तरं तु घटादेरभावः नादर्शन२० मात्रम् । यतः कोऽयमभावो नाम-अस्तमयः, अर्थक्रियाविरहो वा ? यद्यस्तमयः तदा पर्यायभेद एव 'अदर्शनम्' 'अभावः' इति । अर्थक्रियाविरहोऽप्यभाव एव, स च परिदृश्यमानस्य 'नास्ति' इत्यदर्शनयोग्य एव विद्यते । तथा चादर्शनमेवाभावः भावादर्शनस्वरूपो नाशः मुद्गरादिव्यापारात् प्रागपि भावस्यास्तीति न तज्जन्यो ध्वंस इति 'अदृश्यमानोऽप्यस्ति' इतिं विरुद्धमभिहितं स्यात् । यदपि 'मुद्गरपातानन्तरमदर्शने न पुनः केनचिद् दृश्यते घटादिः अक्षव्यापाराभावे तु नरान्तरदर्शने प्रति२५ भाति तथा स्वयमप्यक्षव्यापारे पुनरुपलभ्यते मुद्गरव्यापारवेलायां तु चक्षुरुन्मीलनेऽपि न स्वयम् पुरुषान्तरेण वा गृह्यत इति तदैव तस्य नाशः' इति, तदप्यसङ्गतम् ; यतः पुनर्दर्शनं किं पूर्वदृष्टस्य, उतान्यस्येति कल्पनाद्वयम् । यदि पूर्वाधिगतस्यैवोत्तरकालदर्शनम् तदा सिद्ध्यत्य भेदः किन्तु 'तस्यैवोत्तरदर्शनम्' इत्यत्र न प्रमाणमस्ति । अथापरस्य दर्शनम् न तर्ह्यभेदः । अथ यदनवरतमविच्छेदेन ग्रहणं तदेव स्थायित्वग्रहणम् ; नन्व विच्छेददर्शनं नामानन्यदर्शनम् तच्चासिद्धम्, परस्पराऽसङ्घटित३० वर्त्तमानसमयसम्बद्धपदार्थप्रतिभासनात् । अथ वर्तमानदर्शने पूर्वरूपग्रहणम् ; ननु न प्रत्यक्षण पूर्व - रूपग्रहणम् तत्र वर्त्तमाने ग्रहणप्रवृत्तस्य तस्य पूर्वत्राऽप्रवर्तनात् । न चाऽप्रवर्त्तमानं तत् तत्र तदविच्छेदं स्वावभासिनोऽवगमयितुं समर्थम् येन नित्यताधिगतिर्भवेत् । वर्तमानग्रहणपर्यवसितं ह्यध्यक्षं तत्कालार्थपरिच्छेदकमेव, न पूर्वाऽपरयोस्तेन एकताऽधिगन्तुं शक्या । न स्मृतिरेव पूर्वरूपतां तत्र सङ्घटयति, सा च स्वग्रहणपर्यवसितव्यापारत्वाद् बहिरर्थमनुद्भासयन्ती न पूर्वापरयोस्तत्त्वसङ्घटन३५ क्षमा । तन्न निरन्तरदर्शनेऽप्यभेदावगतिरध्यक्षतः । न च पूर्वाऽपरदर्शनयोरभेदप्रतिपत्ता वैसामर्थे(e) प्यात्मा वर्तमानसमयसङ्गतस्य पूर्वकालतामधिगच्छति, दर्शन रहितस्य स्वापाद्यवस्थास्विव तस्याप्यभेदप्रतिपत्तिसामर्थ्यविकलत्वात् । प्रत्यक्षा च संविद् न पूर्वापरयोर्वर्त्तते तदप्रवृत्तौ चानुमा नमपि न तत्र प्रवर्तितुमुत्सहते, स्मरणस्य च प्रामाण्यमतिप्रसङ्गतोऽनुपपन्नमिति नात्मापि स्थायितामधिगच्छति । न चात्मनोऽप्यात्मा कालान्तरानुगतिमवगमयति, वर्तमानकालपरिगतस्यैव परिस्फु १-ध्यक्षे प्र-वा० बा० विना । २- यथार्थता - वा० बा० विना । ३ पूर्व -आ० । ४- न्तरास्थाभां० मां० विना । ५-हः सह-भां० मां० विना । ६-न्ति इति प्र-भां० मां० विना । ७-र्यायाभेद - भ० मां० विना । ८- ति तज्ज-आ० हा० वि० । ९-ति वदता ध्वश्रस्तीति विरुद्ध-भां०] मां० । १०- केचि -आ० हा० वि० वा० बा० । ११ तु दर्श-आ० हा ० वि० । १२ - स्तत्वनसं - आ० हा ० वि० । १३ - वसामर्थ्याऽप्या - वा० वा० । १४- पयसा-भां० मां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy